यथैषा पुरुषेच्छाया एतस्मिन्नेतदाततम्

बिम्बप्रतिबिम्बभावोक्त्याभेदसमर्थनम्

युक्तिमल्लिका

यथैषा पुरुषेच्छाया एतस्मिन्नेतदाततम् ।

इति श्रुत्या यतो बिम्बप्रतिबिम्बत्वमुच्यते ।। १५२१ ।।

सुरोत्तमटीका

 बिम्बप्रतिबिम्बभावेन च जीवपरमयोर्भेदसाधिकं श्रुति-मेवोपादत्ते ।। यथैषेति ।। १५२१ ।।

सत्यप्रमोदटीका

बिम्बप्रतिबिम्बभावस्वरूपं निर्धारयन् तच्छ्रुत्या भेदसिद्धिप्रकारं दर्शयति यथेति ।

छाया यथा पुंसदृशी पुमधीना च दृश्यते ।

एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः’

इति वाक्यशेषः ।। १५२१ ।।

युक्तिमल्लिका

श्रुत्या सर्वोपसंहारी दृष्टान्तोयमुदीरितः ।

उपमा शास्त्रतत्त्वज्ञा मुख्यां तामुपमां विदुः ।। १५२२ ।।

सुरोत्तमटीका

 सर्वोपसंहारी सर्वप्रकारैस्साम्यं दाष्टान्तिके उपसंहरन् । अयं पुरुषरूपः छायारूपश्च । पुरुषो देहः ।। १५२२ ।।

सत्यप्रमोदटीका

 सर्वोपसंहारी असति प्रमाणविरोधे सर्वधर्मैः दार्ष्टा-न्तिक साम्यस्य उपसंहारपरा ।। १५२२ ।।

युक्तिमल्लिका

छाया हि पुरुषाकारा पुरुषाधीनचेष्टिता ।

भिन्ना च जीवे तादृक्त्वं सिद्धं दृष्टान्तशोधने ।। १५२३ ।।

सुरोत्तमटीका

 का सा सृष्टान्तगतसर्वोपमा । यस्याः दार्ष्टान्तिके उपसंहार इत्यत आह ।। छायेति ।। तत्समाकारत्वं तदधीनसर्वचेष्टावत्त्वं तद्भिन्नत्वं च छायायां दृष्टम् । अतस्तस्या दार्ष्टान्तिके जीवेपि तादृक्त्वं ईश्वराकार सदृशाकारत्वं ईशाधीन सर्वचेष्टावत्त्वं ईश्वरभिन्नत्वं च सर्वोपसंहारि दृष्टान्तसाधने सिद्धमिति भावः ।। १५२३ ।।

सत्यप्रमोदटीका

 छायाशब्देन उक्तः भेदः पुनः एतस्मिन् इति ब्रह्मण आधारत्वेन एतदिति जीवजातस्य च आधेयत्वेन उक्त्या सतात्पर्यं ज्ञाप्यते इत्याह सतात्पर्यमिति ।। १५२३,१५२४ ।।

युक्तिमल्लिका

छायाख्यतमसः पुंसो भिन्नता सर्वसंमता ।

पुनराधेयतोक्त्या सा सतात्पर्यमुदीर्यते ।। १५२४ ।।

सुरोत्तमटीका

 दृष्टान्ते भेदसिद्धिप्रकारं विवेचयंस्तदुपमयैव सिद्धस्य जीवेश्वरभेदस्य एतस्मिन्ब्रह्मणि एतज्जीवादिकं जगदाततमाहितमिति आधाराधेय- भावेनापि साधनात् श्रुतेर्भेदे महातात्पर्यं चास्तीत्याह ।। छायाख्येति ।। पुंसस्सकाशादित्यर्थः । सा भिन्नता

।। १५२४,१५२५ ।।

युक्तिमल्लिका

जीवस्य भृत्यता चायाच्छायाशब्दप्रयोगतः ।

अनुकूलं प्रियं भृत्यं छायेत्याहुः प्रियंवदाः ।। १५२५ ।।

सत्यप्रमोदटीका

 आहुरिति आर्षरामायणे सीताया रामं वनगमनोद्यतं प्रति वचनं ‘पादच्छाया भविष्यामि’ इति । तवानुकूला प्रिया सेवापरा च इति हि तत्र छायाशब्दार्थः ।। १५२५ ।।

युक्तिमल्लिका

प्रतिबिम्बत्वमप्यस्य तच्छब्दादेव सिद्ध्यति ।

प्रतिबिम्बं प्रतिच्छायेत्याहुर्यदनुशासने ।। १५२६ ।।

सुरोत्तमटीका

 अस्य जीवस्य । तच्छब्दात् उपमाबलागतच्छाया शब्दात् । अविरोधे सर्वोपसंहारिदृष्टान्तस्थले राजेव राजते चन्द्र इत्यादाविव शब्दसाम्यमप्यायातीति भावः । यत् यस्मात् । अनेन भगवत्प्रतिबिम्बत्वाच्च जीवस्य छायापदवाच्यत्वमस्तीति सूचितम् । अतोपि छायाशब्द इति युक्तम्

।। १५२६ ।।

युक्तिमल्लिका

साम्यं यत्किञ्चिदेवेति दृष्टं दृष्टान्त एव हि ।

न हि ज्ञानबलादेश्च च्छाया पुरुषसंमिता ।। १५२७ ।।

सुरोत्तमटीका

 ननु सर्वोपसंहारिदृष्टान्तात्सर्वसाम्ये ज्ञानबलादिनापि जीवपरमयोस्साम्यं स्यादित्यत आह ।। साम्यमिति ।। यत्किञ्चिदल्पं प्रमाण-विरुद्धसाम्यं विहायाविरुद्धं सर्वसाम्यमिति भावः । ज्ञानबलादे र्ज्ञानबलादि-सहकारित्वात् । यथा देहे ज्ञानबलादिसहकारित्वमस्ति तथा छायायामभावात् अविरुद्धसर्वसाम्यमेवेति भावः ।। १५२७ ।।

सत्यप्रमोदटीका

 बिम्बप्रतिबिम्बयोरपि सर्वत्र यथायोग्यमेव साम्यं न तु सर्वथा । अतः छाया ज्ञानबलादेः न हि पुरुषसंमिता इति योजना । अतः पूर्वोक्तं प्रियत्वं सेवकत्वं च सात्त्विकजीवापेक्षयैवेति विवेको बोध्यः । इतरेषां तु सादृश्यं तदधीनत्वतत्सदृशत्वादिनैवेति भावः ।। १५२६,१५२७ ।।

युक्तिमल्लिका

आधारता स्वामिता च तथा साकारता हरेः ।

सिद्धा पुरुषदृष्टान्तात्तच्छब्दात्पूर्णताऽपि च ।। १५२८ ।।

सुरोत्तमटीका

 छायादृष्टांतेन जीवे सिद्धं प्रकारमुक्त्वा पुरुषदृष्टान्तेन जगदीश्वरे सिद्धं प्रकारमप्याह ।। आधारतेति ।। तच्छब्दात् उपमाबलेन परमात्मन्यागतपुरुषशब्दात् ।। १५२८ ।।

सत्यप्रमोदटीका

 दृष्टान्तगतं पुरुषपदं दार्ष्टान्तिकेऽपि आवर्तनीयम् । तस्य एतस्मिन् इति दार्ष्टान्तिकगतेन पदेनान्वयः । अत्र तस्य पुरुसनोतीति व्युत्पत्त्या पूर्ण इत्यर्थः । एतत् आततमिति जीवजातस्य तस्मिन्नाश्रित-त्वोक्तेः । अन्नात्पुरुषः इत्यत्र पुरुषशब्दस्य देहपरत्वेऽपि स वा एष पुरुषोऽन्नरसमयः’ इत्यत्र रसशब्देन विशेषणात् सारभूतविष्णुप्रतिपादकत्वमिव एकस्य अर्थद्वयं योग्यतया युक्तम् । तेन च दृष्टान्तबलेन दार्ष्टान्तिके सिद्धान्गुणानाह साकारतेति ।। १५२८ ।।

युक्तिमल्लिका

यद्विशेष्यपदं दार्ष्टान्तिकेऽप्यावर्त्यमेव तत् ।। १५२९ ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि पुरुषशब्दस्य दार्ष्टान्तिके आवृत्तिमुप-पादयति ।। यदिति ।। यत् यस्मात् । दार्ष्टान्तिके एतस्मिन्नितिवाक्येति । तत् पुरुषपदमेव विशेष्यपदम् । तस्मात् आवर्त्यमेव । एतस्मिन्नितिविशेषणपदस्य किंचिद्विशेष्यपदमपेक्षितम् । तच्चाध्याहारादप्यावृत्तेरेवान्तरङ्गत्वात्पुरुषपदमेवेति भावः ।। १५२९ ।।

युक्तिमल्लिका

यथा तथेत्युक्तसाम्यं शब्दसाम्येति शोभते ।

छायाख्योपमया जीवमेवैतदिति वाग्जगौ ।। १५३० ।।

सुरोत्तमटीका

 ननु राजेव चन्द्र इत्यत्रापि कुतश्शब्दसाम्यमित्यत आह ।। यथा तथेति ।। नन्वेतदाततमित्यत्रैतत्पदेन जीवस्य कुतः कथनमित्यत आह ।। छायेति ।। एतत्पदस्य सामान्यपदत्वेपि तस्य छायोपमाबलात् जीव-वाचकत्वनिर्णय इत्यर्थः।। १५३० ।।

सत्यप्रमोदटीका

 शब्दसाम्ये एतस्मिन् पुरुषे=पूर्णे परमात्मनि एतत् छाया छायोपमं जीवजातं इत्येवं उभयत्र पुरुषशब्दस्य छायाशब्दस्य च साम्ये इत्यर्थः ।। १५३० ।।

युक्तिमल्लिका

साकारस्य सदृक्षो यत्साकारः स्यान्न चापरः ।

न चेद्यथातथाशब्दौ वितथाविति मे मतिः ।। १५३१ ।।

सुरोत्तमटीका

 छायास्थानीयत्वेऽपि कुतो जीव इत्यत आह ।। साकारस्येति ।। पुरुषपदसामर्थ्येन बिम्बस्य साकारत्वे सिद्धे सारारस्य तस्य छाया स्थानीयोपि साकारो जीव एव भवेदिति भावः ।। १५३१ ।।

सत्यप्रमोदटीका

 साकारः जीवः । जीवचितां साकारत्वं मौक्त-भोगादिना गुणसौरभे प्रागुपपादितमिति भावः ।। १५३१ ।।

युक्तिमल्लिका

बाधितं तु विना सर्वं साम्यं तौ नैव मुञ्चतः ।

किं न सर्पोपमारज्जौ सर्पाकारेण केवलम् ।। १५३२ ।।

सुरोत्तमटीका

 तौ यथातथाशब्दौ । उपमायाकारसाम्यस्याप्यावश्यकत्वे दृष्टान्तमाह ।। किं नेति ।। १५३२ ।।

सत्यप्रमोदटीका

 केवलं इति । न तु अभिसर्पणादिता । तथा च सादृश्याभिव्यञ्जको धर्मः प्रमाणाविरुद्ध एव क्लृप्त इति भावः ।। १५३२ ।।

युक्तिमल्लिका

रूपं रूपं प्रतीन्द्राख्यहरेर्जीवस्तनौ तनौ ।

प्रतिरूपो बभूवेति स्पष्टं तद्रूपरूपिता ।। १५३३ ।।

उक्ता श्रुतौ ततोऽप्येतौ साकारौ तत्कृतोपमौ ।

इति सिद्धं तथा तत्र बिम्बस्येन्द्रत्वमीरितम् ।। १५३४ ।।

परमैश्वर्यरूपं तज्जीवाः सर्वेऽप्यतादृशाः ।

अतो विसदृशत्वं च तयैव प्रोक्तमेतयोः ।। १५३५ ।।

सुरोत्तमटीका

 जीवस्य ब्रह्मसदृशाकारत्वे श्रुतिमप्याह ।। रूपं रूपमिति ।। अनेन रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रति चक्षणायेति श्रुतिं गृह्णाति । इन्द्राख्य हरेः रूपं रूपं प्रतीति सम्बन्धः । तत्कृतोपमौ तेन बिम्बप्रतिबिम्बभावेन कृतोपमौ । तत्र श्रुतौ । इन्द्रत्वं इन्द्रो मायाभिरिति श्रवणात् । तत् इन्द्रत्वम् । तया श्रुत्या । एतयोः बिम्बप्रतिबिम्ब-भूतेन्द्रजीवयोः ।। १५३३-१५३५ ।।

सत्यप्रमोदटीका

 तद्रूपरूपिता । तस्य इन्द्रस्य परमैश्वर्यशालिनः हरेः आकारेण किञ्चित्सदृशाकारवत्त्वम् ।। १५३३-१५३५ ।।

युक्तिमल्लिका

एवं च प्रतिरूपोऽयं रूपाद्विसदृशत्वतः ।

भिन्नश्छायावदित्यच्छारत्नच्छायापि हृत्तमः ।

तिरस्करोति तेनोक्ताप्युपमाऽसकलोपमा ।। १५३६ ।।

सुरोत्तमटीका

 अत एव बिम्बप्रतिबिम्बयोर्भेदश्रुतिमूलमनुमानमप्य-भूदित्याह ।। एवं चेति ।। छायावत्पुरुषाद्भिन्नच्छायावत् । रत्नच्छाया अनुमानाख्यारत्नच्छाया । असकलोपमेति पदच्छेदः ।। १५३६ ।।

सत्यप्रमोदटीका

 बिम्बप्रतिबिम्बभावोक्त्या भेदस्यानुमानेन सिद्धौ प्रयोगप्रकारमाह एवं चेति । ज्ञानच्छाया अनुमानाख्या । हृत्तमः ऐक्यविषयकं अन्यथाज्ञानम् । असकलोपमा न अत्यन्तसादृश्यपरा ।। १५३६ ।।

युक्तिमल्लिका

विष्णोश्च बिम्बता तस्माद्भिन्नस्यैवात्र वर्ण्यते ।। १५३७ ।।

किञ्चित्साम्यादधीनत्वाज्जीवस्य प्रतिबिम्बता ।

विष्णोश्च बिम्बता किं न भिन्नयोरेव वर्ण्यते ।। १५३८ ।।

सुरोत्तमटीका

 तस्मात्परमैश्वर्यस्य विष्णोरन्यत्रासम्भवात् ।। १५३७,१५३८ ।।

सत्यप्रमोदटीका

 तस्मात् परमैश्वर्यवाचीन्द्रशब्दप्रयोगबलात् ।। १५३७, १५३८ ।।

युक्तिमल्लिका

बिम्बस्य प्रतिबिम्बैक्यं न स्मरोक्तं न विस्मर ।। १५३९ ।।

सुरोत्तमटीका

 उक्तं यथैषा पुरुष इति प्राचीनश्रुतावुक्तम् ।। १५३९ ।।

सत्यप्रमोदटीका

 उक्तं छायाशब्देन उक्तं भेदम् ।। १५३९ ।।

युक्तिमल्लिका

छायापुरुषदृष्टान्ताद्बिम्बस्य परमात्मनः ।

प्रतिबिम्बात्मकाज्जीवाद्भेदस्योक्तश्रुतौ श्रुतेः ।। १५४० ।।

सुरोत्तमटीका

 तदेव विशिनष्टि ।। छायापुरुषेति ।। उक्तश्रुतौ प्रागुक्त-श्रुतौ । उपलक्षणं चैतत् । अस्यामपि श्रुताविन्द्रशब्देन वैसादृश्यसूचनादित्यपि द्रष्टव्यम् ।। १५४० ।।

सत्यप्रमोदटीका

 तदेव विवृणोति छायेति ।। १५४० ।।

युक्तिमल्लिका

प्रत्यक्पराग्भावतो हि विषयो विषयी न ते ।

मूलभाष्ये कथं तर्हि पराक्प्रत्यगभिन्नता ।। १५४१ ।।

सुरोत्तमटीका

 बिम्बप्रतिबिम्बयोर्भेदपरप्रक्रिययैव युक्तिमाह ।। प्रत्यगिति ।। ते मूलभाष्ये । युष्मदस्मत्प्रत्ययगोचरयोर्विषयविषयिणोस्तमः प्रकाशयोरिव नेतरेतराभाव इति संकरभाष्ये । प्रत्यक्पराग्भावतः विषयिणः अस्मत्पदोक्तप्रत्यग्भावात् । विषयस्य युष्मदस्मत्पदोक्त पराग्भावादित्यर्थः । कथं प्रत्यग्भूतमात्मतत्वं पराग्भूतं विषयतत्वं स्यादिति तट्टीकायां व्याख्यानात् युष्मदस्मच्छब्दौ पराक्प्रत्यग्भावपरौ । एवं च प्रत्यक्प्रराग्भावाख्य युक्त्या-विषयोविषयीनेति भवद्भाष्य एव साधितत्वात् । पराक्प्रत्यगभिन्नता पराक्प्रत्यग्भूतबिम्बप्रतिबिम्बयोरभेदः कथं स्यात् । तत्र भेदसाधकहेतोरत्र व्यभिचार प्रसङ्गान्न कथञ्चित् । अतो बिम्बप्रतिबिम्बयोरैक्यं वदन्पूर्वोत्तर-विवेकशून्य इति भावः ।। १५४१ ।।

सत्यप्रमोदटीका

 किञ्च त्वयाऽप्यध्यासभाष्ये विषयविषयिणोर्भेदसाधने युष्मदस्मत्पदोक्तः पराक् प्रत्यग्भावः हेतूकृतः । स एव च मया बिम्ब-प्रतिबिम्बयोः भेदेऽपि हेतूक्रियते । अतो न केवलं विसदृशत्वतः, किन्तु त्वदुपगतेन अनेनापि हेतुना भेदसिद्धिर्निष्प्रत्यूहेत्याह अत इति ।। १५४१, १५४२ ।।

युक्तिमल्लिका

अतः प्रत्यक्पराग्भावात्प्रतिबिम्बस्तु बिम्बतः ।

भिन्नो विसदृशत्वाच्च ज्ञानज्ञेयवदेव हि ।। १५४२ ।।

सुरोत्तमटीका

 एवं च बिम्बप्रतिबिम्बभेदे परप्रक्रिया मूलं श्रुतिमूलं चेत्यनुमानद्वयमासीदित्याह ।। अत इति ।। ज्ञानज्ञेयवत् विषयविषयिव-दित्यर्थः । प्रत्यकक्पराग्भावेन वैसादृश्यस्यापि तत्रैव विद्यमानत्वात् हेतुद्वयस्याप्येक एव दृष्टान्तः ।। १५४२ ।।

युक्तिमल्लिका

सत्यश्चायमबाध्यत्वाद्ब्रह्मवत्प्रतिबिम्बकः ।

न हि सादृश्यमप्यस्य कात्स्नर्येनैक्ये तु का कथा ।। १५४३ ।।

सुरोत्तमटीका

 प्रागुक्तभेदानुमाने प्रतिबिम्बस्य मिथ्यात्वमपि युक्ति-विरुद्धमित्याह ।। सत्यश्चेति ।। अयं प्रतिबिम्बः । अबाध्यत्वात् नायं प्रतिबिम्ब इति बाधाभावात् । नेदानीं प्रतिबिम्ब इति प्रत्ययस्तु नेदानीं घट इतिवत्प्रागभावस्य नाशस्य वा साधकः । न तु त्रैकालिकनिषेधरूपबाधस्य । अनुकूलतर्कमाह ।। नहीति ।। अस्य प्रतिबिम्बस्य । कार्त्स्न्येन सादृश्यमपि हि यस्मान्न । तस्मादैक्ये का कथेति योजना । अनेन यदि बिम्बप्रतिबिम्बयोरैक्यं स्यात्तर्हि वैसादृश्यमेव न स्यादिति तर्कस्सूचितो भवति ।। १५४३ ।।

सत्यप्रमोदटीका

 अबाध्यत्वात् न चासिद्धिः । नायं प्रतिबिम्बः इति वा नास्त्यत्र प्रतिबिम्ब इति वा बाधस्याननुभवादेव । कालान्तरे देशान्तरे निषेधस्तु न त्रिकालसर्वदेशस्थनिषेधं साधयतीति भावः । विसदृशत्वहेतुः न भेदेऽप्रयोजकः । हेतूच्छित्तिरूपबाधकसद्भावादित्याह न हि इति ।।१५४३।।

युक्तिमल्लिका

किं विमर्दो मृगमदे दर्पणप्रतिबिम्बिते ।। १५४४ ।।

सुरोत्तमटीका

 वैसादृश्यमेव विस्तरेण दर्शयति ।। किं विमर्द इति ।। विमर्दः परिमलः ।। १५४४ ।।

सत्यप्रमोदटीका

 विसदृशधर्माः न्यायामृते (२/३२ प.६०७) एकीकृत्य उक्ताः । न्यूनाधिकपरिमाणत्वचलत्वाचलत्वउपाधिसंयुक्तत्वा-संयुक्तत्वत्वगादिग्राह्यत्वाग्राह्यत्वप्रत्यक्त्वपराक्त्वरूपेण कस्तूरी तत्प्रति-बिम्बयोः सौरभतदभावरूपेण गुडतत्प्रतिबिम्बयोर्माधुर्यतदाभरूपेण वह्नि-तत्प्रतिबिम्बयोरौष्ण्यतदभावरूपेण पर्वततत्प्रतिबिम्बरूपयोर्गुरुत्वतदभावरूपेण इत्यादिना सङ्गृह्योक्ता अनुसन्धेयाः । ते च भेदसाधकाः । तथा च भेदे अनेकानि अनुमानानि प्रमाणयति किमित्यादिभिः । विमर्दः परिमलः ।।

युक्तिमल्लिका

परिमाणस्पर्शगन्धगुरुत्वैकत्वतोऽन्यता ।

व्योमाग्निपुष्पगिर्यर्केष्वस्त्येव प्रतिरूपतः ।। १५४५ ।।

सुरोत्तमटीका

 परिमाणस्पर्शगन्धगुरुत्वैकत्वत इति पञ्चमी बहुवचना-न्तात्तसिल् । परिमाणात् परममहत्परिमाणात् व्योमि्न तद्रहितस्वप्रतिबिम्बा-दन्यता । एवं स्पर्शादुष्णस्पर्शात् । अग्नौ गन्धात्पुष्पे । गुरुत्वाद्भाराद्गिरौ । एकत्वादर्के । बहुतटाकजलादिषु शतशः प्रतिबिम्बनेऽपि बिम्बस्यार्कस्यैक-त्वात् । एतैः पञ्चभिः प्रतिबिम्बविरुद्धगुणैः बिम्बभूतव्योमादिषु स्वस्व प्रतिबिम्बेभ्यः अन्यतेत्यर्थः । व्योमदर्पणाप्रतिबिम्बितव्योम्नोऽत्यन्तभिन्नम् । ततो विसदृशत्वात् घटवत् इत्याद्यनुमानपञ्चकमनेनोक्तं भवति ।। १५४५ ।।

सत्यप्रमोदटीका

 परिमाणादि भेदकधर्मेभ्यः हेतुभ्यः क्रमेण व्योमादिषु प्रतिरूपतः प्रतिबिम्बप्रतियोगिकवैसादृश्यस्य विद्यमानत्वात् त्वदन्यता अस्त्येव इति योजना ।। १५४५ ।।

युक्तिमल्लिका

रूपमात्रेण सादृश्यं वैसादृश्यं त्वनेकधा ।

किं ते वार्यन्तरस्थाब्दस्तनितैर्वनिता हताः ।। १५४६ ।।

सुरोत्तमटीका

 तर्हि सादृश्यं केनेत्यत आह ।। रूपमात्रेणेति ।। आकारमात्रेणेत्यर्थः । परं परिहसन्नेव पुनरपि बिम्बप्रतिबिम्बयोर्वैसादृश्य मनुभावयति ।। किन्तु इति ।। अब्दो मेघः तस्य स्तनितैर्निर्घोषैः । बिम्ब-भूतमेघवत्प्रतिबिम्बितमेघस्य निर्घोषाभावाद्वैसादृश्यमिति भावः ।। १५४६ ।।

सत्यप्रमोदटीका

 रूपमात्रेण आकारमात्रेण । वैसादृश्यं तूक्तरीत्यासु बहुधा । अतः अत्यल्पमेव सादृश्यम् । शब्दतदभावाभ्यां वैसादृश्ये दृष्टान्तः अब्दस्तनितैः मेघगर्जनैः ।। १५४६ ।।

युक्तिमल्लिका

किञ्चिद्वैसादृश्यतो हि न गौर्गवयतामियात् ।

वैसादृश्ये त्वनेकस्मिन्दृश्ये पश्यैकता कुतः ।। १५४७ ।।

सुरोत्तमटीका

 अस्तु वैसादृश्यं तथापि भेदो मास्त्विति वदतः प्रतिकूलतर्कमाह ।। किं चिदिति ।। अनेकस्मिन्वैसादृश्ये सतीति सम्बन्धः । यदि वैसादृश्येऽप्येकता स्यात् तर्हि गोगवययोरप्येकता स्यादिति तर्क-मनेनोत्थापयति ।। १५४७ ।।

सत्यप्रमोदटीका

 ‘यदा पश्यः पश्यते’ इत्यत्र पश्यतीति पश्यो जीवः । दृष्यः रुक्मवर्णादिः ईशः । अतः मुक्तावपि तथैव भवतीत्यत्रोक्तं सादृश्यं निर्दुःखत्वादिरूपेणात्यल्पमेव । जगद्व्यापारवर्जमित्यादिनोक्तं वैसादृश्यं त्वनेकप्रकारम् । अतो मुक्तावपि जीवेशयोरपि भेद एव ।। १५४७ ।।

युक्तिमल्लिका

वृत्तिवैचित्र्यतश्शब्दमात्रेणैक्यं विरुद्धयोः ।

किं गङ्गापदसङ्गेऽपि तीरस्य स्यात्प्रवाहिता ।। १५४८ ।।

सुरोत्तमटीका

 नन्विदं मुखमिति प्रतिबिम्बेऽपि मुखशब्दप्रयोगान्मुख-प्रतिमुखयोरैक्यमिति शङ्कां परिहरति ।। वृत्तीति ।। वैचित्र्यतः मुख्यगौणी-लक्षणादिवैचित्र्यात् । यथा तीरे गङ्गापदप्रयोगेपि न गङ्गैक्यम् । तथात्रापि मुखसादृश्यान्मुखपदप्रयोगेपि न मुख्यैक्यम् । तीरे गङ्गापदप्रयोगवत् ऐक्या-भावेपि पदप्रयोगमात्रस्य वृत्त्यन्तरेणापि सम्भवात् । अत एव प्रतिमानं प्रतिरूपं प्रतिबिम्बं च प्रतिमुखं प्रतिच्चायेत्यादौ प्रतिमुखं प्रतिरूपं प्रतिबिम्बमित्येव तेषामनुशासनम् । मुखपदस्यापि मुख्यतस्तद्वाचकत्वे तस्यापि तत्रानुशासनं स्यादिति भावः ।। १५४८ ।।

सत्यप्रमोदटीका

 एवं विरुद्धधर्मेषु सत्स्वपि, यत्र क्वचित्प्रतिमुखे मुखशब्दप्रयोगः सः, तीरे गङ्गापदमिव अमुख्यवृत्यैव नेयः इत्याह वृत्तीति

।। १५४८ ।।

युक्तिमल्लिका

द्वाविमाविति विस्पष्टदृष्टेरपि तयोर्भिदा ।

द्वाविमाविति पार्श्वस्थो यतः पश्यति तौ सदा ।

अतः प्रत्यक्षतोऽप्यत्र भेदस्सिद्धो विवेकिनाम् ।। १५४९ ।।

सुरोत्तमटीका

 बिम्बप्रतिबिम्बभेदे प्रत्यक्षमपि प्रमाणयति ।। द्वाविमाविति ।। तयोः बिम्बप्रतिबिम्बयोः । तौ बिम्बप्रतिबिम्बौ । स्वस्य स्पष्टं मुखप्रत्यक्षाभावेन द्वाविमाविति प्रतीत्यभावेपि पार्श्वस्थस्य सदापि तथैव प्रतीतिरस्ति । एकमिदमिति तु न कदापि प्रतीतिः । एवं च बिम्बप्रतिबिम्ब-भेदः प्रत्यक्षेणापि सिद्ध इति भावः ।। १५४९,१५५० ।।

सत्यप्रमोदटीका

 द्वाविमौ बिम्बप्रतिबिम्बौ न त्वेक इति पार्श्वस्था-बाधितप्रत्यक्षेणापि तयोरत्यन्तभेदसिद्धिरित्याह द्वाविति ।। १५४९ ।।

युक्तिमल्लिका

न द्वाविमावेक एवेत्यैक्यधीरस्ति किं क्वचित् ।

तस्मादबाधितं भेदप्रत्यक्षमभवद्धि तत् ।। १५५० ।।

सत्यप्रमोदटीका

 अबाधमुपपादयति नेति ।। १५५० ।।

युक्तिमल्लिका

तदेवेदं मुखमिति व्यवहारस्तु साम्यतः ।

स एवायं राम इति यथा चित्रस्थिताकृतौ ।। १५५१ ।।

चित्रसिंहो यथा सिंहो मुखं प्रतिमुखं तथा ।। १५५२ ।।

सुरोत्तमटीका

 दर्पणे मुखमिति प्रतिमुखे मुखपदप्रयोगस्य पुनरपि निदर्शनद्वयं दर्शयन्गतिमाह ।। तदेवेदमिति ।। साम्यतः सादृश्यात् । चित्रस्थिताकृतौ चित्रलिखितरामप्रतिमायाम् । पुराणादौ जीवेष्वपि हरिरेवायं कृष्ण एवायं राम एवायमित्यादिना तत्रोच्यमानैक्यव्यपदेशानामपि इयमेव गतिरिति सूचनाय स एवायं राम इति प्राचीननिदर्शनं ज्ञातव्यम् ।। १५५१,१५५२ ।।

सत्यप्रमोदटीका

 यत्र क्वापि प्रतिमुखे तदेवेदं मुखं इति व्यवहारः स तु चित्रलिखितरामे रामशब्द इव रूढोपचार इत्याह तदिति ।।१५५१,१५५२।।

युक्तिमल्लिका

कथं न दह्यते वक्त्रं तप्तवार्यन्तराविशत् ।

कथं च न व्रणं वक्त्रे कांस्यादर्शप्रवेशिनि ।। १५५३ ।।

सुरोत्तमटीका

 बिम्बस्यैव प्रतिबिम्बत्वे सर्वानुभवसिद्धं बाधकान्तरं चाह ।। कथमिति ।। तप्तवार्यन्तः तप्तोदकस्यान्तः । प्रतिमुखस्यैव मुखत्वेपि जठरस्थोष्णोदके स्वमुखं पश्यतो मुखस्यैव तज्जलान्तःप्रवेशाद्दाहोऽपि स्यात् । न चेतदस्ति । अतस्तप्तजलान्तस्स्थ प्रतिमुखात् अन्यदेव मुखमिति भावः ।। १५५३ ।।

सत्यप्रमोदटीका

 ऐक्ये बाधकान्तराण्याह कथमिति । तप्तवार्यन्तरा-विशत् इति वाक्यविशेषणम् ।। १५५३ ।।

युक्तिमल्लिका

करस्थे दर्पणे हस्ती यद्यष्टैश्वर्यतो विशेत् ।

कथं शिशुस्तं बिभृयाद्गजशालोद्यमो वृथा ।। १५५४ ।।

अष्टाशीतिसहस्राणि विस्तीर्णो योजनस्य यः ।

दर्पणेऽल्पप्रमाणेऽसौ कथं विशति चन्द्रमाः ।। १५५५ ।।

सुरोत्तमटीका

 अल्पपरिमाणे दर्पणे ततोप्यतिस्थूलस्य गजस्य प्रवेशोऽष्टैश्वर्यशक्तौ सत्यामेव स्यात् । न च साऽस्ति । अतोऽपीदमयुक्तमिति परपरिहासायाष्टैश्वर्यत इत्युक्तम् । रात्रौ दर्पण एव प्रविश्यस्थातुं शक्यत्वात् गजशालोद्यमोपि वृथेत्यर्थः ।। १५५४,१५५५ ।।

सत्यप्रमोदटीका

 परिमाणवैसादृश्यानङ्गीकारे बाधकमाह करस्य इति कथं विशेदिति अणिमैश्वर्याभावेनेति भावः । कथं तं बिभृयादिति प्रसङ्गान्तरम् । अणिमैश्वर्यमन्तरेति भावः । वृथेति दर्पण एवास्थानसम्भवात् । औश्वर्य इति परिहासः ।। १५५४,१५५५ ।।

युक्तिमल्लिका

यदि तप्तोदकेऽत्युष्णे वक्रमेव विशेन्नृणाम् ।

तदा दाहो भवेत्तस्य कवोष्णादपि यस्य भीः ।। १५५६ ।।

सुरोत्तमटीका

 प्रागुक्तमपि तप्तोदकदृष्टान्तमल्पदाहे तापकारणाभावा-द्विशदयितुं पुनराह ।। यदीति ।। अग्निस्तम्भनशक्त्यभावसूचनाय नृणा-मित्युक्तम् । तस्य मुखस्य ।। १५५६ ।।

सत्यप्रमोदटीका

 नृणां अग्निस्तम्भाद्यैश्वर्यविकलानाम् ।। १५५६ ।।

युक्तिमल्लिका

यद्यम्बुनि चिरं नृणां वक्रमेव विशेत्तदा ।

शिक्षा स्यात्तस्करस्येव यद्बिभेत्यघमर्षणात् ।। १५५७ ।।

सुरोत्तमटीका

 शीतोदकेऽपि बहुकालं स्वमुखदर्शने तावत्कालं मुख-स्यापि जले प्रवेशात्परस्य दूषणं स्यादित्याह ।। यद्यम्बुनीति ।। तस्करस्येव यथा तस्करं शिक्षितुं बहुकालं जले मज्जयंति तद्वदित्यर्थः । यत् मुखम् ।। १५५७ ।।

सत्यप्रमोदटीका

 अम्बुनि शीताम्बुनि । अतः पूर्वस्माद्विशेषः । अघमर्षणात् अल्पशीतस्पर्शात् ।। १५५७ ।।

युक्तिमल्लिका

नैमित्तिकं हि तत्कार्यं निमित्ते सति जायते ।

तदपाये नाशवच्च सूर्यात्पद्मविकासवत् ।। १५५८ ।।

त्रपुसीसस्वर्णसर्पिश्चन्द्रकान्तद्रवत्ववत् ।

जलौष्ण्यवद्ग्रहग्रस्तमर्त्यसत्वविशेषवत् ।। १५५९ ।।

सुरोत्तमटीका

 प्रतिबिम्बादुत्पन्नकार्यत्वे बिम्बापगमेऽपि कुतो न स्थितिरिति शङ्कां बहुभिर्दृष्टान्तैर्धिक्करोति ।। नैमित्तिकमिति ।। पिशाचावेशे सति बहुतर भारवहनादिशक्तेरपि दर्शनात्सत्वविशेषवदित्युक्तम् ।। एतानि-सर्वाण्यपि स्वनिमित्ते सति सन्ति निमित्तापायेन सन्ति । तद्वदिदमपि बिम्बे सत्यस्ति बिम्बापगमे नाशान्नास्तीति काऽत्र(त्र•नुपपत्तिरिति भावः ।। १५५८-१५६० ।।

सत्यप्रमोदटीका

 नैमित्तिक प्रतिमुखनाशे मुखसन्निधिरूपनिमित्त-कारणनाशः प्रयोजकः । तत्र अनेकानि निदर्शनानि सूर्यात् इत्यादीनि । सावित्रतेजोऽपगमात् पद्मविकासनाशवदिति भावः ।। द्रवत्वं त्रपुसीसादिभिः प्रत्येकं सम्बध्यते । अग्निसन्निधानं तत्र निमित्तम् । मर्त्यस्य बलविशेषे ग्रहावेशः निमित्तम् ।। १५५८, १५५९ ।।

युक्तिमल्लिका

औपाधिकं प्रतिमुखं मुखे सत्येव दृश्यते ।

मुखस्यापगमे चास्य नष्टत्वाद्दृष्टता च न ।। १५६० ।।

सत्यप्रमोदटीका

 दार्ष्टान्तिके योजयति औपाधिकमिति । अस्य मुखसन्निधिरूपनिमित्तस्य । नष्टत्वात् दृष्टता न । नाशे सति नाशात् अनन्तरं दृष्टता न ।। १५६० ।।

युक्तिमल्लिका

निमित्तं बिम्बसान्निध्यं कर्ता नारायणः प्रभुः ।

उपादानमुपाधिश्चेत्कार्यं वार्यमिदं कथम् ।। १५६१ ।।

सुरोत्तमटीका

 कारणासम्भवात्प्रतिबिम्बस्य कार्यत्वं नेति शङ्कां निवारयति ।। निमित्तमिति ।। १५६१ ।।

सत्यप्रमोदटीका

 मुखव्यतिरेकेण प्रतिमुखं, मिथ्या, प्रत्येकं तत्कारणाभावादिति केचित्समास्थिताः । तान् असिद्धियुक्त्या दूषयति निमित्तमिति । वार्यं अपलापार्हम् ।। १५६१ ।।

युक्तिमल्लिका

कार्यात्मना विवरणाद्विकारो दर्पणस्य च ।

तन्तोरिवानुमन्तव्यो हन्तव्योऽर्थः कथं वद ।। १५६२ ।।

सुरोत्तमटीका

 ननु दर्पणे मृत्पिण्डादेरिव विकारादर्शनात्कथ-मुपादानत्वमित्यत आह ।। कार्यात्मना विवरणादिति ।। प्रागविद्यमान-प्रतिबिम्बाकारस्य विवरणादित्यर्थः । तंतोरिव यथा तन्तोस्स्पष्टविकाराभावेऽपि सूक्ष्मतरविकारमादाय यथा पटोपादानत्वं तथा दर्पणस्यापि सूक्ष्मविकारोऽनु-मन्तव्यः । अर्थः प्रमाणदृष्टोऽर्थः ।। १५६२ ।।

सत्यप्रमोदटीका

 विकरणात् विक्रियादर्शनात् । विकारः सूक्ष्मोऽपीति शेषः । तत्र दृष्टान्तः तन्तोरिवेति । मृदादेरिव स्थूलविकारस्य तत्राप्यदर्शनात् । अर्थः प्रमितः । हन्तव्यः अपलपनीयः ।। १५६२ ।।

युक्तिमल्लिका

बहिर्विकारशून्यस्य जठरस्य यथान्तरे ।

गुल्मग्रन्थिविकारः स्यात्तथा यं च भविष्यति ।। १५६३ ।।

सुरोत्तमटीका

 बहिर्विकारादर्शनेऽप्यन्तर्मुखसमानाकारविवरणा-द्दर्पण-स्यापि विकारित्वं भवतीत्यत्र दृष्टान्तमाह ।। बहिरिति ।। १५६३ ।।

सत्यप्रमोदटीका

 आन्तर एवायं विकार इत्यत्र दृष्टान्तो गुल्मेति ।। १५६३ ।।

युक्तिमल्लिका

घटात्मना विकरणं मनसो योऽनुमन्यते ।

प्रतिबिम्बात्मनोपाधेर्विकारोऽयं कुतोऽस्य न ।। १५६४ ।।

सुरोत्तमटीका

 किं च केदारघटाद्याकारेणानानुभविको मनः परिणामो येनाङ्गीक्रियते तस्य दृश्यमानेऽस्मिन्विकारे कुतो द्वेष इत्याह ।। घटात्मनेति ।। अस्य मायावादिनः ।। १५६४ ।।

सत्यप्रमोदटीका

 अन्तःकरणं निर्गत्य घटाद्यात्मना परिणमते । अतो घटे वृत्तिव्याप्यत्वमेव दृश्यत्वमिति हि मायिनो मतम् । अणुनो मनसो घटात्मना विकारः असम्भवी अपि स्वमताग्रहमात्रेण स्वीकृतः । तस्य तादृशस्य तव प्रमितदर्पणविकारानङ्गीकारो निर्निबन्धन इत्याह घटेति ।। १५६४ ।।

युक्तिमल्लिका

द्वारं विना यत्प्रवेष्टुं नालं मृण्मयभित्तिषु ।

कथं कांस्यं दृढद्रव्यं तद्विशेन्मृदुलं मुखम् ।। १५६५ ।।

सुरोत्तमटीका

 प्रागुक्तं दूषणान्तरं चोपपादयति ।। द्वारं विनेति ।। १५६५ ।।

सत्यप्रमोदटीका

 पूर्वं व्रणः स्यादिति दूषितम् । इदानीं प्रवेश एव दुर्लभ इति दूषयति द्वारमिति ।। १५६५ ।।

युक्तिमल्लिका

यदि वक्त्रं जलस्यान्तःप्रविष्टं सत्प्रदृश्यते ।

पराग्भावस्तर्हि कुतो न हि मज्जन्मुखेऽस्त्यसौ ।। १५६६ ।।

सुरोत्तमटीका

 मुखस्यैव जलान्तः प्रवेशाङ्गीकारे पुनरपि दोषद्वय-माह ।। यदिवक्त्रमिति ।। मज्जन्मुखे स्नानार्थं जलान्तः प्रवेशं कुर्वति । असौ पराग्भावः ।। १५६६ ।।

सत्यप्रमोदटीका

 प्रत्यक् पराग्भावरूपं वैसादृश्यं ऐक्ये बाधकमाह यदीति । मज्जन्मुखे बिम्बे ।। १५६६ ।।

युक्तिमल्लिका

जलस्थं चेद् बहिर्न स्याद् बहिस्स्थं च जले कुतः ।

मज्जन्मुखमिवैकत्वादेकत्रैव भवेद्धि तत् ।। १५६७ ।।

सुरोत्तमटीका

 तत् मुखम् ।। १५६७ ।।

सत्यप्रमोदटीका

 पार्श्वस्थस्य द्वे इमे इति प्रागुक्तं प्रत्यक्षबाधं ऐक्यस्य स्मारयति जलस्थेति ।। १५६७ ।।

युक्तिमल्लिका

यद्यादर्शे मुखं सत्ते दोषोऽयं दुस्तरस्तदा ।

न चेत्तदाधारता धीर्भ्रमत्वान्नैव साधिका ।। १५६८ ।।

सुरोत्तमटीका

 उक्तमेव दूषणं विकल्पमुखेन दृढयति ।। यद्यादर्श इति ।। सत् यथार्थतया विद्यमानम् । ते मते । न चेत् यथार्थतया विद्यमानं न चेत् । भ्रमत्वात् दर्पणे मुखमिति प्रतीतेर्भ्रमत्वात् । साधिका प्रतिमुखस्य मुखत्व-साधिका ।। १५६८ ।।

सत्यप्रमोदटीका

 न चेदिति । आदर्शे मुखं वस्तुगत्या विद्यमानं न चेत् । धीः आदर्शे मुखं इति मुखाधारता धीः । साधिका ऐक्यस्येति शेषः

।। १५६८ ।।

युक्तिमल्लिका

या च दर्पणसम्बन्धाच्चक्षुषः पृष्ठतो गतिः ।

मुखस्यैवेक्षणं चोक्तं तच्चित्रमिति मे मतिः ।। १५६९ ।।

नयच्छैलान्निववृते न क्रूरादनलादपि ।

तच्चक्षुः पश्यतस्स्वास्यं जलात्किल निवर्तते ।। १५७० ।।

सुरोत्तमटीका

 दर्पणसंयोगे सति दारुप्रोतशरवत्तदाघातवशात्परावृत्त्यै-वागतं नयनं मुखं पश्यतीति च मायिनो वदन्ति तदनूद्य दूषयति ।। याचेत्यादिना ।। यच्चक्षुः शैला च्छिलामयादतिकठिनात्पर्वतात् । किलेत्य-पहासः । कठिनद्रव्यत्वाद्दर्पणान्निवर्तते चेत् मृदुलाज्जलान्निवृत्तिर्नस्यात् । शैलाग्न्यादेश्च सुतरां निवृत्त्या तत्रापीदं मुखमित्येव प्रतीतिस्स्यात् । अयं गिरिरित्यादि प्रतीतिः कदापि न स्यात् । कठिनाद्वा मृदुलाद्वा निवृत्ति स्वभावादेव निवर्तते चेत्तर्हि दूरस्थ तटाकजलादपि निवर्तेत । किं चैवं सति चक्षुषा सकलपदार्थदर्शनेपि मुखमित्येव प्रतीतिस्स्यात् । तत्तदर्थप्रतीतिः कदापि न स्यात् । एवं च त्वमन्धो वा स्याः महोन्मत्तो वा स्याः इत्यपहास-स्यावर्जनीयत्वात् ।। १५६९,१५७० ।।

सत्यप्रमोदटीका

 

दर्पणाभिहता दृष्टिः परावृत्य स्वमाननम् ।

व्याप्नुवन्त्यभिमुख्येन व्यत्यस्तं दर्शयेन्मुखम् ।

इति परस्य ऐक्ये प्रक्रियान्तरमपि दूषयति या चेत्यादिभिः

।। १५६९, १५७० ।।

युक्तिमल्लिका

यतः शिलाया योगेऽपि दारुप्रोतमुखश्शरः ।

यथागतं तथा याति पृष्ठं पृष्ठं मुखं मुखम् ।। १५७१ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। यत इति ।। १५७१ ।।

सत्यप्रमोदटीका

 अस्मिन्पक्षे प्रत्यक् पराग्भावे । दुरुपपाद इत्याह यतः इति ।। १५७१ ।।

युक्तिमल्लिका

ततश्चक्षुः परावृत्तिरपि स्यादीदृशी परम् ।

पुंवत्किं वक्तुमुचिता निवृत्तिः स्वेच्छया जडे ।। १५७२ ।।

सुरोत्तमटीका

 ईदृशी दारुप्रोतशरवत् यथागतमेव निवृत्तिस्स्यात् । न तु मुखाभिमुख्येन । एवं च मुखप्रतीतिरपि न स्यादिति भावः । असम्भावितं च जडस्य चक्षुषो विषयाभिमुख्येन प्राग्गतस्य मुखाभिमुख्येन पुनरागमन-मित्याह ।। पुंवदिति ।। १५७२ ।।

सत्यप्रमोदटीका

 परावर्तनं पुंधर्मः अचेतने चक्षुषि न घटते इत्याह स्वेच्छयेति ।। १५७२ ।।

युक्तिमल्लिका

एवं चेत्कुड््यकुम्भादि दृष्ट्वा दृष्ट्वा निवृत्तिमत् ।

किं चक्षुरीक्षते स्वास्यं तस्ये इह नतपोधिकम् ।। १५७३ ।।

सुरोत्तमटीका

 असम्भावितमपीदं निवर्तनमङ्गीक्रियते चेत्तर्हि घटकुड्यादितोपि निवर्तमानं चक्षुस्त्वन्मुखं पश्येत्किमिति पृच्छति ।। एवं चेदिति ।। अन्यत्र सर्वत्र स्वचक्षुषस्स्वमुखमयोग्यं चेदत्रैव कथं योग्यमित्याह ।। तस्येति ।। तस्य चक्षुषः । इह दर्पणस्थले।।१५७३ ।।

सत्यप्रमोदटीका

 एवं चेत्=अचेतनस्यापि सतः येन केनचित्प्रति-हतस्य परावृत्तिरङ्गीक्रियते चेत् । स्वास्यं स्वाधारभूतं मुखम् । इह दर्पणविषये । तपः इत्यपहासः ।। १५७३ ।।

युक्तिमल्लिका

किञ्चैवं सति तद्बुद्धेराकारः स्यादिदं मुखम् ।

इत्येव दर्पणादीनां सत्येवं दर्शनं च न ।

दर्पणे मुखमित्येवमाकारस्त्वष्टमो रसः ।। १५७४ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। किं चेति ।। तद्बुद्धेः दर्पणा-न्निवृत्तचक्षुर्जन्यबुद्धेः । सत्येवं एवं सतीत्यर्थः । दर्पणादितो निवृत्त चक्षुषा पुनर्दर्पणादि दर्शनायोगादिति भावः । आकारः बुद्धेराकारः । दर्पणस्यैव दर्शनाभावे दर्पणे मुखमिति दर्शनं सुतरां न स्यादिति भावः ।। १५७४ ।।

सत्यप्रमोदटीका

 एवं सति मुखमात्रस्य दर्शने सति । (इदं मुखं इत्याकारः) । तद्बुद्धेः=परावृत्य मुखमात्रं विषयीकुर्वत्या बुद्धेः स्यात् । न तु दर्पणे मुखं इति सार्वजनीनः आकारः ।दर्पस्य बुद्ध्या उल्लेखः सप्तमो रसः ।मुखाधारतया उल्लेखस्तु अष्टमो रसः।।१५७४ ।।

युक्तिमल्लिका

अथार्धार्धाभिसम्बन्धाद्द्विधाभूतस्य चक्षुषः ।

धीद्वयं यदि जायेत हीयेत तव धीस्तदा ।। १५७५ ।।

सुरोत्तमटीका

 पक्षान्तरमुत्थाप्यदूषयति ।। अथेति ।। धीद्वयं इदं दर्पणमिदं मुखमिति दर्पणधीर्मुखधीश्च । तव धीर्हीयेत । एवं वदंस्त्वं बुद्धिमान्न भवसीत्यर्थः ।। १५७५ ।।

सत्यप्रमोदटीका

 ननु चक्षुषि भागद्वयमङ्गीक्रियते । एकेन भागेन परावृत्य मुखस्य अपरेण च दर्पणस्य च दर्शनं सम्भवतीति चेत् न अनानु-भविकं धीद्वयं कल्पयतः तव धीरेव हीयेत ।। १५७५ ।।

युक्तिमल्लिका

विरुद्धदिग्द्वयस्थार्थसम्बन्धस्त्वेकचक्षुषः ।

यतो न दृश्यते नृणां ततोऽप्येतदसङ्गतम् ।। १५७६ ।।

सुरोत्तमटीका

 विरुद्धदिग्द्वयं दर्पणदिक् मुखदिक् । एकदिग्गत-योर्योग्ययोरर्थयोरेकदैव चक्षुस्सम्बन्धो दृष्टः । न तु विरुद्धदिक्स्थयोः । अतोऽपीदमसम्भावितमित्यर्थः ।। १५७६ ।।

सत्यप्रमोदटीका

 किं च चक्षुषा एकस्यां दिशि सतोर्द्वयोर्युगपद्दर्शन-सम्भवेऽपि विरुद्धदिक्संस्थितयोः मुखदर्पणयोः सहैव दर्शनमसम्भावितमित्याह विरुद्धेति ।। १५७६ ।।

युक्तिमल्लिका

किञ्चैवमपि धीर्द्वन्द्वं कथं स्यान्मनसाणुना ।

समूहालम्बना धीश्चेत्स मोहालम्बनो वदन् ।। १५७७ ।।

सुरोत्तमटीका

 चक्षुर्द्वारा मनसोपि बर्हिर्निस्सरणं वदतस्तव मते अणोर्मनसो द्विधाभूतचक्षुर्भागसंयोगायोगाच्चेदमसङ्गतमित्याह ।। किं चैवमिति ।। पक्षान्तरमुत्थाप्यदूषयति ।। समूहेति ।। सवदन्निति सम्बन्धः । दर्पणे मुखमिति धियस्समूहालम्बनतांवदन्नित्यर्थः । मोहालम्बनं मोहस्य मिथ्याज्ञानस्यालम्बनः मिथ्याज्ञानीत्यर्थः । अणुमनसो विरुद्धभागद्वय संयोगानुपपत्तेरपरिहारात् । मोहोऽज्ञानं वा ।। १५७७ ।।

सत्यप्रमोदटीका

 इदं धीद्वन्द्वं न मनसा उत्पत्तुं युक्तम् । चक्षुषा सह मनसोऽपि बहिर्निर्गमनमङ्गीकुर्वतस्तव अजोर्मनसो धीद्वयजननाय द्विधाभावा-योगात् । समूहालम्बनमेकमेवेदं ज्ञानमिति तु मोहमूलम् । तथा सति इमौ मुखदर्पणौ इति तदाकारः स्यात् इत्याह किञ्चेति ।। १५७७ ।।

युक्तिमल्लिका

किञ्चावाङ्मुखपुंसोक्षिपरावृत्येक्षतां मुखम् ।

तद्रुद्धबहुदूरस्थमित्रमैत्री कुतो वद ।। १५७८ ।।

सुरोत्तमटीका

 अपि च मध्याह्नकाले तटाकजलादाववाङ्मुखतया स्वमुखं पश्यतस्तत्रैव मुखदर्शनं सूर्यमण्डलदर्शनं च जायते । तत्र त्वदुक्तरीत्या परावृत्तमपि चक्षुर्मुखं पश्यतु । मुखेन प्रतिरुद्धां स्वशिखामप्यपश्यत् तत्प्रतिरुद्धं मुखोपरिभागे बहुदूरस्थितं सूर्यमण्डलं कथं पश्यतीत्याह ।। किं चेति ।। तद्रुद्धस्य तेन मुखेन प्रतिरुद्धस्य । बहुदूरस्थस्य मित्रस्य सूर्यस्य । मित्रदर्शन-मिति यावत् ।। १५७८ ।।

सत्यप्रमोदटीका

 अवाङ्मुखस्य जले स्वमुखं सूर्यमण्डलं चेति द्वयमपि दृश्यते इत्यविवादम् । तत्र तव प्रक्रियया परावृत्त्य स्वमुखस्य दर्शनमिति कथञ्चिद्वक्तुं शक्यत्वेऽपि सूर्यमण्डलदर्शनं दुःशकम् । तत्र हेतुः तद्रुद्धस्य मुखेन प्रतिबद्धस्य बहुदूरस्थस्य चेति । मित्रमैत्री सूर्यदर्शनम् ।। १५७८ ।।

युक्तिमल्लिका

किञ्चैवं सति भूषास्थरत्नलक्षेषु बिम्बितम् ।

मुखं स्वमीक्षमाणस्य धीः स्यादेकं मुखं त्विति ।। १५७९ ।।

सुरोत्तमटीका

 दूषणान्तरं चाह ।। किं चेति ।। भूषातः परावृत्यागतेन चक्षुषा एकस्यैव स्वमुखस्य दर्शनादिति भावः ।। १५७९ ।।

सत्यप्रमोदटीका

 अनेकोपाधिस्थले अनेके प्रतिबिम्बास्तावद् दृश्यन्ते । तदपि अशक्यमापन्नम् । बिम्बस्यैकत्वादेव । न हि रत्नरूपोपाधिभेदे मुखस्यापि भेद इत्याह किञ्चैवमिति ।। १५७९ ।।

युक्तिमल्लिका

कपोलः कल्पकस्तत्ते दोष्णो योग्यो न चक्षुषः ।। १५८० ।।

सुरोत्तमटीका

 ननु दोषादनेकत्वदर्शनमित्यत आह ।। कपोल इति ।। तत् तस्मात् परावृत्यागते चक्षुषि उपाधिसंयोगाख्यदोषस्याप्यभावात् । चक्षुषो दोषयोगः कल्पको न । किं तु ते कपोल एव कल्पकः । स च दोष्णः हस्तस्य योग्यः त्वद्धस्तेनैव ताडनयोग्यः । चक्षुषः त्वच्चक्षुषः योग्यो न । स्वकपोलस्य स्वेनादर्शनादित्यर्थः ।। १५८० ।।

सत्यप्रमोदटीका

 इयं द्वैधीभावप्रक्रिया स्वकपोले कल्पयितुं न शक्या । स्वकपोलस्य स्वचक्षुदर्शनायोगात् । अत इयं सर्वाऽपि कल्पना स्वकल्पना-मूलैव । एतादृशस्य कुकल्पकशीलस्य तव कपोलस्य न चक्षुःसंयोगः किन्तु स्वहस्तेन ताडनरूपाभिघात एव समुचित इत्याह कपोल इति । तदुक्तं भगवत्पादैः ‘कशावेत्रादिकं तस्य तस्करस्योत्तरं भवेत्’ इति ।। १५८० ।।

युक्तिमल्लिका

अतस्तत्तादृशं वस्तु लघुभूतं हि जन्यते ।

बिम्बोपाध्योः सन्निधानात्कथं स्याद्धि तदेव तत् ।। १५८१ ।।

सुरोत्तमटीका

 अतः मुखस्यैव स्वप्रतिमुखत्वायोगात् । तत् प्रतिमुखम् । बिम्बोपाध्योर्मुखदर्पणयोः । तदेव मुखमेव । तत् प्रतिमुखम्

।। १५८१ ।।

सत्यप्रमोदटीका

 तथा च प्रतिबिम्बो बिम्बाद्भिद्यते तत्कारणविलक्षण-कारणजन्यत्वात् यवाङ्कुरात्कलमाङ्कुरवत् इति प्रयोगोऽभिमतः । न चासिद्धिः इत्याह बिम्बोपाध्योः सन्निधानादिति । तदेव निमित्तकारणं अदृश्यादिकं च । दर्पणः उपादानं त्विति समर्थितम् । न चाप्रयोजकतेत्याह तादृशं तदधीनत्वे सति तेन सदृशं कथं तदेव स्यात् । विरुद्धधर्माधिकरणत्वात् ।। १५८१ ।।

युक्तिमल्लिका

प्रतिबिम्बस्य मिथ्यात्वे सत्यबिम्बाद् भवेद्भिदा ।

प्रतिबिम्बस्य सत्यत्वे द्विस्वभावत्वतो भिदा ।। १५८२ ।।

सुरोत्तमटीका

 कुत इत्यतः पक्षद्वयेऽपि प्रागुक्तरीत्या संगृह्य तस्यो-भयतः पाशारज्जुं करोति ।। प्रतिबिम्बस्येति ।। द्विस्वभावत्वतः परिमला-परिमलादिना द्विस्वभावत्वात् ।। १५८२ ।।

सत्यप्रमोदटीका

 मिथ्याभूतस्यापि साधकत्वसाधनावसरे, असत्येन प्रतिबिम्बेन बिम्बानुमानमुदाहरन्तो मायावादिनः क्वचित्प्रतिबिम्बो मिथ्येत्यभि-प्रयन्ति । क्वचिदभेदाशयेन सत्य इति । तत्र आद्ये दोषमाह प्रतिबिम्बस्येति । तथा च तयोरभेदोक्तिः स्वव्याहता । द्वितीयस्तु तयोः विरुद्धस्वभाव-त्वादनुचित इति वदति द्विस्वभावत्वादिति ।तथा च सर्वथा तयोर्भेदो निराबाधः।।१५८२ ।।

युक्तिमल्लिका

कथं च प्रतिबिम्बस्य मिथ्यात्वं यौक्तिकं विदाम् ।

न ह्यस्ति बाधिका नायं प्रतिबिम्ब इति प्रमा ।। १५८३ ।।

सुरोत्तमटीका

 मिथ्यात्वे बाधकान्तरं चाह ।। कथमिति ।। नायं प्रतिबिम्ब इति बाधिका प्रमा न ह्यस्तीति सम्बन्धः । उपलक्षणं चैतत् । नेदानीं प्रतिबिम्ब इति तु प्रमा न बाधिका चेत्यपि द्रष्टव्यम् ।। १५८३ ।।

सत्यप्रमोदटीका

 बाधाभावान्मिथ्यात्वं न युक्तं इत्याह विदां प्रामाण्य-स्वतस्त्ववादिनाम् ।। १५८३ ।।

युक्तिमल्लिका

दृष्टा बाधितकार्यस्याप्यन्यथानुपपत्तितः ।

कल्प्यं स्यात्कारणं सर्वं यथेशः कलमाङ्कुरात् ।। १५८४ ।।

सुरोत्तमटीका

 ननूपादानकारणादर्शनान्मिथ्यात्वमिति शङ्कां यथावस्तु-कथनेन परिहृतामपि परमुखेनैवकारणं वाचयितुं प्रतिबन्दीमुखेन पुनः परिहरति ।। दृष्टेति ।। अन्यथा कर्तुरदर्शनात्क्षित्यादेरपि मिथ्यात्वं स्यादिति भावः ।। १५८४ ।।

सत्यप्रमोदटीका

 दर्पणस्य उपादानत्वाभावमुपेत्यापि प्रतिबन्द्या प्रतिबिम्बसत्यतां परेणैवाङ्गीकारयति दृष्टेति । तदुक्तं भगवत्पादैः ‘न हि अन्नत्वे दुर्घटे तस्यानन्नत्वं भवति’ इति । प्रपञ्चितं च प्राग्गुणसौरभे

प्रमाणदृष्टघटना कार्या सैव यथामति ।

 न शक्यते चेत्सर्वेशाचिन्त्यशक्त्यैव सेत्स्यति’ इति ।। १५८४ ।।

युक्तिमल्लिका

अस्तूपाधिविकारोऽसौ तद्गरूपरसादिवत् ।

निमित्तमात्रजन्यो वा भावोऽप्येकोऽस्त्वभाववत् ।। १५८५ ।।

सुरोत्तमटीका

 विकारादर्शनात्कथमुपाधिरुपादानमिति शङ्कामपि प्रतिबन्दी सूचनेन परिहरति ।। अस्त्विति ।। तद्गरूपरसादिवत् दर्पणस्थ-रूपरसादिवत् । यथा बीजादङ्कुरवत् दर्पण रूपरसादीनां दर्पणात्पार्थक्येना-विकारेऽपि दर्पणविकारत्वं तथा स्यादिति भावः । किं च यथा एकस्य प्रध्वंसस्यैवोपादानादर्शनान्निरुपादानक कार्यत्वमङ्गीक्रियते तथा स्याप्यङ्गी-क्रियताम् । कल्पकन्यायस्योभयत्र साम्यादित्याह ।। निमित्तमात्रेति ।। भावः प्रतिबिम्बः ।। १५८५ ।।

सत्यप्रमोदटीका

 कार्यस्य प्रमितत्वेन दर्पणस्य स्पष्टं विकारदर्शनेऽप्यु-पादानत्वं कथञ्चिदुपपाद्यमित्याह तद्गरूपरसादिवत् इति । अस्तु इत्यनेन सिद्धान्ते द्रव्यस्य स्वगुणादीन्प्रति उपादानत्वाभावेनानास्थां द्योतयति । नायमस्ति च नियमे । यत्कार्यमात्रं सोपादानकमेवेत्याह अभाववदिति । प्रध्वंसरूपकार्यस्य निरुपादानत्वदर्शनात् ।। १५८५ ।।

युक्तिमल्लिका

उपादानस्य चादृष्ट्या कार्यदृष्ट्या च तादृशी ।

अवस्था कल्प्यतेऽभावे भावे किं न तथाविधे ।। १५८६ ।।

सुरोत्तमटीका

 तादृशी निमित्तमात्रजन्यत्वरूपा । आदौ अभाव इति पदच्छेदः । पश्चाद्भाव इति ।। १५८६ ।।

सत्यप्रमोदटीका

 तत्र प्रमितत्वात्कार्यस्य तथा भावः अगत्या कल्पनीय इति चेत्सममत्रापीत्याह कल्प्यते अभावे इति । तथा विधे = प्रमिते

।। १५८६ ।।

युक्तिमल्लिका

सर्वथा दृष्टकार्यस्य ह्यपलापो न युज्यते ।

न चेदीशप्लुतं त्याज्यं नारिकेलफले जलम् ।। १५८७ ।।

सुरोत्तमटीका

 न चेत् कार्यान्यथानुपपत्त्याऽदृष्टकारणकल्पनं न चेत् ।। १५८७ ।।

सत्यप्रमोदटीका

 न चेत् प्रमितस्य कथञ्चिदुपपादकान्तरं कल्पयित्वा निर्वाहो न क्रियते चेत् । त्याज्यं अपलपनीयम् ।। १५८७ ।।

युक्तिमल्लिका

अतः स्वाप्नपदार्थस्य प्राहुः संस्कारजन्यताम् ।

न स्वप्न इति बाधस्याभावादर्थक्रियाकृतेः ।। १५८८ ।।

सुरोत्तमटीका

 अतः दृष्टकार्यस्यापलापायोगादेव ।। १५८८ ।।

सत्यप्रमोदटीका

 प्राहुः

मनोगतांश्च संस्कारान्स्वेच्छया परमेश्वरः ।

प्रदर्शयति जीवाय स स्वप्न इति गीयते

इत्यादिश्रुतिस्मृतयः । उक्तं च परैरपि वासनामयी सृष्टिः श्लिष्टेति उत्तरमाह उच्यते इति (बृ.शां. आनन्द ४।३।१०) (भे.प.ब्र.सू.१ प.१९४) ।।१५८८।।

युक्तिमल्लिका

मुखशब्दः प्रतिमुखे सोपचारः कथं न ते ।

मुखं प्रति स्थितं यत्स्यात्तद्धि प्रतिमुखाभिधम् ।। १५८९ ।।

सुरोत्तमटीका

 प्रतिमुखे मुखशब्दस्यौपचारिकत्वे निदर्शनान्युक्तानि । निमित्तं चाह ।। मुखशब्द इति ।। ते मते । तत् मुखं प्रतिस्थितत्वेन प्रतिमुखशब्दवाच्यम् ।। १५८९ ।।

सत्यप्रमोदटीका

 प्रतिमुखमिति संज्ञाभेदेनापि मुखात्तस्य भेदसिद्धि-रित्युपपादयति प्रतिस्थितं आभिमुख्येन पराक्त्वेन स्थितम् । यत्र क्वचित् प्रतिमुखे यः मुखशब्दप्रयोगः स उपचारादेवेति सुबहुधा प्राङ् निदर्शितमिति भावः ।। १५८९ ।।

युक्तिमल्लिका

कथं तदेव च मुखं तस्मात्प्रत्यक्पराक्स्थितेः ।

संज्ञाभेदात्कर्मभेदाद्बिम्बोऽन्यः प्रतिबिम्बतः ।। १५९० ।।

सुरोत्तमटीका

 मुखं मुखशब्दवाच्यं मुखाभिन्नं च । मुखप्रतिमुखयो-र्विरुद्धार्थत्वेनोभयोरप्येकत्रमुख्यवृत्त्ययोगात् स्वस्यैव प्रतिस्थितत्वायोगाच्चेति भावः । बिम्बप्रतिबिम्बवादमुपसंहरति ।। तस्मादिति ।। तस्या तस्मादुक्त-न्यायात् । कर्मभेदात् शब्दव्यवहारदाहादिकर्मभेदात् । परिमाणगुरुत्वादि गुणभेदाच्चेत्यपि द्रष्टव्यम् ।। १५९० ।।

सत्यप्रमोदटीका

 सौरभार्थमुपसंहरति कथमिति । तदेव प्रतिमुखमेव । तथा हि । प्रतिमुखमेवमुख इति किमत्यन्तसादृश्यधीरुपन्यस्ता प्रत्यभिज्ञा वा । नाद्यः । तयैक्यासिद्धेः । अन्त्ये असिद्धिः । चैत्रप्रतिबिम्बमेव दृष्टं न तु चैत्रः इति भेदानुभवबाधितत्वात् । स्वनेत्रगोलकादौ स्वस्याभिज्ञाभावेन प्रत्यभि-ज्ञाऽयोगात् (न्या.२ । ३२ प.६०७) । तस्मादित्यस्यैव विवरणं प्रत्यगित्यादि हेतुत्रयेण । प्रत्यक्पराग्भावादित्यनेन पार्श्वस्थस्य इमौ बिम्बप्रतिबिम्बौ इति भेदे प्रत्यक्षं प्रमाणयति । संज्ञाभेदात् बिम्बः प्रतिबिम्ब इति च नामभेदात् । अङ्गीकृतं च मीमांसकैः नामभेदः स्वाभिधेयभेदं प्रयोजयतीति । ज्योतिरित्यादिनामधेयेन तन्नामकयागस्य प्रकृतज्योतिष्टोमादियागाद्भेदः ‘संज्ञा चोत्पतिसंयोगा-दि’त्यत्रोक्तः । (तर्कताण्डव द्वि.प.प.३६९) । कर्मभेदात् दाहशेष= शब्दव्यवहारादिकर्मभेदात् । प्रतिबिम्बस्य बिम्बाधीनैव क्रिया इत्येवं कर्मभेदाच्च । यथोक्तं गीताभाष्ये ‘न हि प्रतिबिम्बस्य स्वातन्त्र्येण क्रिया’ इति । दार्ष्टान्ति-कस्य एतत्सौरभपरमप्रमेयस्य जीवेश्वरभेदस्य समर्थनपरतयाऽपि श्लोकोऽयं योजनीयः । तथा हि मुखशब्दस्य उत्तमपरत्वात्परमात्माऽर्थः । ‘मणिर्मुखं प्रधानं चेत्युत्तमस्य वचो भवेत्’ इति स्मृतेः । तथा च ‘कथं तदेव च मुखं’ इति वचनविन्यासेन ‘अर्थाच्छ्रुतेश्च गुणतो निजरूपतश्च नित्यान्य एव कथमस्मि स इत्यपि स्यात्’ इति भगवत्पादोक्तिं संवादयति । प्रत्यगिति अन्तर्यामीत्यर्थः । अस्य भेदव्यवस्थापकत्वं अन्तर्यामिनये व्यक्तम् । अत्र च विशदीकृतम् (श्लो.२१२-२८५) संज्ञाभेदः अनन्तः आनन्दमयः आत्मा, इत्यादिभिः भगवदसाधारणसंज्ञाभिर्ज्ञापितो भेदः । (श्लो.११३३) कर्मभेदः स्थित्यद-नाभ्यामिति सूत्रोक्तः पिप्पलादनानदनरूपः । एतेभ्यो हेतुभ्यः बिम्बः विष्णुः । प्रतिबिम्बतः । बहुवचनात्पञ्चम्यर्थे तसिः जीवेभ्यः ।। १५९० ।।