एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति

ब्रह्मणः स्वगतभेदनिराकरणम्

युक्तिमल्लिका

एवं धर्मान्पृथक्पश्यंस्तानेवानुविधावति ।

इति श्रुतेर्घटो नील इति व्यवहृतेरपि ।। ६०५ ।।

सुरोत्तमटीका

 पोष्यत्वे हेतुद्वयमाह ।। एवं धर्मानिति ।। ६०५ ।।

सत्यप्रमोदटीका

 श्रुतिं प्रमाणयति एवमिति । ‘यथोदकं दुर्गे वृष्टं पर्वतेष्वनुधावति’ इति पूर्वार्धः । अयं श्रुत्यर्थः । पर्वतशिखरे वृष्टं जलं यथाऽधःप्रदेशेष्वनुधावति । एवं भगवतो धर्मानानन्दादीन् पृथक् भगवतो भिन्नत्वेन जानन् मिथ्याज्ञानी, भेददर्शनानन्तरमेव अविलम्बेनेति यावत् अनर्थे पतति’ इति । यथोक्तं सुधायां जन्माधिकरणे ‘अत्र हि ब्रह्मधर्माणां पृथक्दर्शननिन्दयाऽभेदोऽवगम्यते’ इति । लोकव्यवहारं प्रमाणयति घट इति । यथा सामानाधिकरण्यव्यवहारेणैक्यसिद्धिस्तत्र, तथाऽत्रापि ‘विज्ञानमानन्दं ब्रह्मे’ति श्रौतसामानाधिकरण्योक्तेरैक्यसिद्धिरिति भावः ।। ६०५ ।।

युक्तिमल्लिका

नेक्षेतोद्यन्तमितिवद्दृङ्मात्रस्य निषेधने ।

नार्थासत्त्वमिति प्राह विपश्चित्किल कश्चन ।। ६०६ ।।

सुरोत्तमटीका

 सूर्योदयादिदर्शननिन्दायामपि सूर्योदयादेरिव धर्म-पृथक्त्वदर्शननिन्दायामपि धर्मपृथक्त्वस्य नाभाव इति तार्किकशङ्कामनूद्य दूषयति ।। नेक्षेतेति ।। ६०६ ।।

सत्यप्रमोदटीका

 आह । नानया श्रुत्या पृथक्त्वस्यासत्त्वं सिध्यति । तद्दर्शनस्यैवात्र निन्दनात् । तेन च दर्शनमसदित्यस्तु । तद्विशेषणस्य पृथ-क्त्वस्य किमायातम् । मा हि भूत् ‘नेक्षेतोद्यन्तमादित्यमि’ति आदित्योदय-दर्शननिन्दयाऽऽदित्योदयस्यासत्त्वसिद्धिरिति ।। कश्चन तार्किकः । मायी च । विपश्चिदित्यपहासः ।। ६०६ ।।

युक्तिमल्लिका

तस्यापि सूते युक्तिस्त्री सदुत्तरकुमारकम् ।

यः परेषां कण्ठमणिं जिघृक्षति रणांकणे ।। ६०७ ।।

सुरोत्तमटीका

 सदुत्तरकुमारकं समीचीनोत्तराख्यकुमारकम् । समर्थोत्तरकुमारमिति ध्वनिः । परेषां प्रतिवादिनाम् । कौरवाणामिति ध्वनिः । कण्ठमणिं कण्ठालङ्कारभूतवाग्विलासम् । कण्ठमालामिति ध्वनिः । रणाङ्कणे वादयुद्धे । उत्तरगोग्रहणयुद्ध इति ध्वनिः

।। ६०७ ।।

सत्यप्रमोदटीका

 साहित्यमुद्रया परिहारं प्रतिजानीते तस्यापीति । अत्र युक्तिस्त्री विराटराजपत्नी । कुमारकः सदुत्तरम् । कण्ठमणिः प्रत्युत्तर-वाग्विलासः । गोग्रहणं श्रुतेः स्वार्थात्प्रच्यावनम् । रणाङ्कणं वादयुद्धम् । जिघृक्षति निगृह्णति । इति ध्वनिः । सद्युक्तिपराहतस्तवायमाक्षेप इति भावः ।

अयमत्र परिहारक्रमः । निन्दया निषेधस्तावदवगम्यते । निषेधश्चात्र पृथक्त्वविशिष्टधर्मदर्शनस्य । तत्र परमेश्वरस्यानेकान्धर्मान् ‘तं दुर्दर्शं गूढ-मनुप्रविष्टं गुहाहितं’ इत्यादिना पूर्ववाक्यैरुक्त्वाऽत्र क्रियमाणो निषेधो न धर्मदर्शनरूपविशेष्यस्य किन्तु विशेषणस्य पृथक्त्वस्यैवेति निश्चीयते । अन्यथा स्वव्याघातप्रसङ्गात् । यथोक्तं तत्वनिर्णयटीकायां ‘यदि धर्मा एव न सन्ति तर्हि नेहास्ति किञ्चन, धर्मान्पश्यन्नित्येव वक्तव्यं स्यात् । नानेति पृथगिति व्यर्थमेव । तेन सन्ति धर्माः किन्तु न भिन्ना नापि भिन्नाभिन्ना इति श्रुत्यर्थः । अनयैव श्रुत्या विशेषोऽपि ज्ञायते’ इति ।। यस्य ज्ञानसामान्यं श्रुत्या निन्द्यते तज्ज्ञानस्य मिथ्यादृष्टित्वापत्त्या तत्र विषयस्यासत्त्वम् । यथाऽऽहुः ‘संविदेव हि भगवती विषयसत्त्वोपगमे नः शरणम्’ इति । अत्रोक्तरीत्या पृथक्त्व-ज्ञानमात्रस्य निन्दया पृथक्त्वस्यात्यन्तासत्त्वमवगम्यते ।। ६०७ ।।

युक्तिमल्लिका

सूर्योदयोऽपि दिविजैर्दितिजैस्स्वेन चेक्ष्यते ।

दोषादभीरुभिर्दोषमजानद्भिर्नरैरपि ।। ६०८ ।।

सुरोत्तमटीका

 यस्य दर्शनं श्रुत्या निन्द्यते तस्य सत्त्वमित्युत्सर्गः । सचार्थस्य प्रमितत्वे सति अनन्यगत्या अपोद्यते नापरथा । प्रकृतेच नेक्षेतोद्यन्तमित्यादावपवादकसद्भावात्कथमसौ नापोद्य इत्याह।। सूर्योदयोपीत्यारभ्य चक्षुषाचेक्ष्यतेकिलेत्यन्तेन।। ६०८,६०९ ।।

सत्यप्रमोदटीका

 यत्र तु श्रुत्या ज्ञानविशेषस्येक्षणस्यैव निन्दा तत्रापि द्वयी गतिः । ईक्षणविषयस्य प्रमितत्वं अप्रमितत्वं चेति । आद्ये सा निन्दा ईक्षणमात्रस्य अनर्थहेतुत्वे पर्यवस्यति न पुनस्तद्विषयस्यासत्त्वे । यथा परोक्त-दृष्टान्त इत्याह सूर्योदय इति । सूर्योदयस्य प्रमितत्वं अनेकेषां प्रत्यक्षोक्त्या समर्थयति दितिजैरित्यादिना ।। ६०८ ।।

युक्तिमल्लिका

नग्नस्त्री च स्वनयनैस्स्वसखीनयनैरपि ।

रन्तॄणां रागकलुषचक्षुषा चेक्ष्यते किल ।। ६०९ ।।

सत्यप्रमोदटीका

 ‘न नग्नां स्त्रियमीक्षेत’ इति निन्दायामपि समानो न्याय इत्याह नग्नस्त्रीति । अत्र पूर्वत्र चानेकेषां प्रत्यक्षोक्त्या न प्रत्यक्ष-सामान्यस्येयं निन्दा किं तूभयत्र प्रत्यक्षविशेषस्यैव ।। स्वकर्तृकस्य सखीजन-कर्तृकस्येक्षणस्य वाऽनिन्दितत्वात् । किं तु पूर्वत्र दितिजनराणां उत्तरत्र रागकलुषाणां चेक्षणस्यैवेति द्योत्यते ।। ६०९ ।।

युक्तिमल्लिका

श्रुतिश्च चक्षुषैवैषां वीक्षणं नानुमन्यते ।

ईक्षा हि चाक्षुषं ज्ञानमनुमानागमादिभिः ।

अन्वमंस्त च तज्ज्ञानमतस्तद्बाधनं कुतः ।। ६१० ।।

सुरोत्तमटीका

 प्रकारान्तरेणापि नेक्षेतेत्यादिश्रौतदर्शननिषेधस्यार्था-बाधकतामुपपादयति ।। श्रुतिश्चेति ।।तज्ज्ञानं सूर्योदयादिज्ञानम् ।। ६१० ।।

सत्यप्रमोदटीका

 नेक्षेतेत्यादिपरोक्तस्थलेऽपि ज्ञानसामान्यस्यैव निषेधः कुतो नेत्यत ईक्षेतेतिश्रौतप्रयोगादेवेत्याह श्रुतिरिति । तत्पदप्रयोगेऽपि तथाऽत्वं कुत इत्यत आह ईक्षेति ।। अन्वमंस्तेति । विशिष्यनिषेधः शेषविध्यनुज्ञापक इति न्यायादिति भावः । तथा च ज्ञानसामान्यस्यानिषेधान्न तत्र सूर्योदयादि-मिथ्यात्वसिद्धिः । अत्र तु तन्निषेधात्पृथक्त्वस्य मिथ्यात्वसिद्धिरिति विषमं निदर्शनमिति ।। ६१० ।।

युक्तिमल्लिका

दर्शनायोग्यधर्मेषु पृथक्त्वस्य च दर्शनम् ।

ज्ञानरूपं प्रसक्तं स्यात्पश्यार्थं तद्वदन्ति हि ।। ६११ ।।

सुरोत्तमटीका

 उक्तप्रकारद्वयमपि एवं धर्मानिति श्रुतौ न घटत इत्याह ।। दर्शनायोग्येति ।। दर्शनायोग्यधर्मेषु अतीन्द्रियभगवद्धर्मेषु यत्पृथक्त्वं परेणा-शङ्क्यते तस्य पृथक्त्वस्य दर्शनं ज्ञानरूपमेव प्रसक्तं स्यात् । नतु चाक्षुषम् । अतीन्द्रियभगवद्धर्मनिष्ठपृथक्त्वस्याप्यतीन्द्रियत्वेन चाक्षुषज्ञानप्रसक्तेरेवाभावेन तन्निषेधस्याप्यनवसरदुस्थत्वात् प्रसक्तज्ञानमात्रस्यायं निषेध इति भावः । अनेन सूर्योदयादाविवोत्सर्गन्यायापवादकं कैश्चित्प्रत्यक्षेण दृश्यमानत्वं प्रकृते नास्तीति सूचितम् । एवं च यस्यार्थस्य सत्तायां प्रबलं प्रत्यक्षमागमोवा स्पष्टमस्ति । तत्र तद्दर्शननिंदायां निषेधादेव पापहेतुता यस्य चार्थस्य सत्तायां प्रबलं प्रत्यक्ष-मागमोवा नास्ति तस्य दर्शननिन्दायां मिथ्यादृष्टित्वादेव पापहेतुतेति विवेकः । धर्मभेदोऽस्तीति साक्षाद्भेदप्रतिपादकश्रुत्यभावात् नित्येश्वरधर्मेषु एकसत्त्वेप्य-परनाशाख्यसङ्कीर्णधर्मधर्म्यादिभेदकभेदासाधारणलिङ्गाभावाच्च । हेत्वन्तरं चाह ।। पश्येति ।। पश्यार्थं पश्यतिधातोरर्थं तत् ज्ञानमात्रम् । हीत्यनेन पश्यार्थैश्चाना-लोचन इति सूत्रं सूचयति

।। ६११ ।।

सत्यप्रमोदटीका

 अत्रापि पश्यन्निति पश्यतेः प्रयोगाज्ज्ञानविशेषस्य प्रत्यक्षज्ञानस्यैव निषेध इति मन्दाशङ्कां द्वेधा परिहरति दर्शनेति । ‘नेन्द्रियाणि नानुमानमि’ति भगवद्धर्माणां अत एव तत्पृथक्त्वस्य च प्रसक्तिर्न तावदनु-मानेन प्रत्यक्षेण वा सम्भाविनी । श्रत्याऽपि तन्निषेधे ज्ञानसामान्यस्यैवार्था-न्निषेधः प्राप्नोति । किञ्च दृशेर्ज्ञानसामान्येऽपि प्रयोगो दृश्यत इति न तेन प्रत्यक्षस्यैव प्राप्तिः । यथोक्तं तत्त्वोद्योतटीकायां ‘यद्यपि दृशिरेवापरोक्षज्ञाने वर्तते तथाऽपि पश्यार्थैश्चानालोचन इत्यादौ ज्ञानमात्रेऽपि दर्शनादपरोक्षे-त्युक्तमि’ति ।। ६११ ।।

युक्तिमल्लिका

तस्मात्तस्य निषेधे स्यादप्रामाणिकतैव हि ।

अर्थाभावाविनाभूता निन्दा सर्वत्र चेदृशी ।। ६१२ ।।

सुरोत्तमटीका

 तस्य ज्ञानमात्रस्य । ईदृशी न जानीयादेवेत्यादिरूपावा पृथक् जानन्नधोयातीत्यादिरूपावा ।। ६१२ ।।

सत्यप्रमोदटीका

 तस्मात् ज्ञानसामान्यस्यैवार्थतो निषेधात्, दृशेरेव प्रयोगबलात् ज्ञानसामान्यस्य शब्दत एव प्राप्तेस्तन्निषेधादिति वा । अप्रामाणिकतेति । अर्थसद्भावे ज्ञानस्यैव प्रमाणत्वादिति भावः । ईदृशी मिथ्यादृष्टित्वादेव पापहेतुः । यद्वा दोषं न जानीयादेवेति वा दोषज्ञान-मधोगतिहेतुरिति वैवंरूपा ।। ६१२ ।।

युक्तिमल्लिका

केशस्य पूर्णब्रह्मत्वादीशोऽपि स्वगतां भिदाम् ।

नान्वमन्यत तेनेयं केन मान्या मनीषिणा ।। ६१३ ।।

सुरोत्तमटीका

 अतीन्द्रियाणामपि धर्माणां पृथक्त्वं सर्वापरोक्षी ईश्वर-स्साक्षात्कुरुत इत्याशङ्कां परिहरति ।। केशस्येति ।। केशस्य मूलरूपभगव-त्केशात्मककृष्णस्य स्वगतां स्वावतारस्वगुणादिगताम् । इयं स्वधर्मभिदा ।।

सत्यप्रमोदटीका

 केशस्य मूलरूपभगवत्केशात्मककृष्णस्य । स्वगतां स्वावतारस्वगुणादिगतां पूर्णब्रह्मत्वादिति । तदुक्तमनुव्याख्याने

ब्रह्मताऽवयवेऽपि स्यात्तथाऽवयविनि स्वतः ।।

 यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताऽखिला ।।

 दर्शिता चैव पार्थाये’त्यादि ।।

नान्वमन्यत स्वयं स्वगतभेदस्यादर्शनात्प्रत्युताभेदस्यैव दर्शनात् । केनेत्या-क्षेपे तथा च प्रयोगः । धर्माः, न भगवतो भिन्नाः, भगवता स्वभिन्नत्वेना-दर्शनात् इति । मनीषिणा ज्ञानिना सता यन्न दृश्यते तन्नास्त्येवेति सामान्य-व्याप्तिः । यथोक्तं तत्वनिर्णयटीकायां ‘भगवान् यद्यस्माच्छुक्लादिकं रूपं द्वैतं स्वतः परस्परं च भिन्नं न पश्यति तत्तस्माद् द्वितीयं नास्ति न भवति । भगवता भिन्नत्वेनादृष्टत्वेऽपि कुतो न भिन्नम् । । मैवम् । पश्यन् सर्वज्ञ एव तच्छुक्लादिकं भिन्नत्वेन न पश्यति वै’ इत्यादि ।। ६१३ ।।

युक्तिमल्लिका

यस्य कालविशेषे दृङ् निषेध्या स न बाध्यते ।

यस्य दृक्तु सदा नेति सामान्येनैव वार्यते ।

तत्रार्थस्यापि बाधः स्यादप्रामाणिकता हि सा ।। ६१४ ।।

सुरोत्तमटीका

 प्रकारान्तरेण दृष्टान्तवैषम्यमुपपादयति ।। यस्येति ।। यस्य सूर्यादेः उदयकालादिकालविशेषे । उपलक्षणमेतत् ।। अवस्थाविशेष इत्यपि द्रष्टव्यम् । सा सामान्यदृङ्निषेधविषयता ।। ६१४ ।।

सत्यप्रमोदटीका

 सूर्योदयस्य प्रमितत्वान्न तद्बाध इत्युक्तम् । अधुना कालविशेष एव तदीक्षणस्य निषेधादपि न स इति वैषम्यं वक्ष्यन् ‘नास्ति नासीद्भविष्यच्च तदिति ज्ञानमेयता । यदि बाधस्तदाऽसत्त्वं तेनैवाङ्गीकृतं पुनः’ । इत्युक्तमसत्त्वप्रयोजकं बाधस्वरूपं निर्धारयति यस्येत्यादिना । यस्य सूर्योदयस्य नग्नस्त्रियो वा । कालविशेषे उदयकालादौ अवस्थाविशेषे वा । सः सूर्योदयः नग्नस्त्र्यादिः वा । यस्य पृथक्त्वादेः । नेति न कर्तव्येति । वार्यते निषिध्यते । अर्थस्य पृथक्त्वादेः बाधः असत्त्वम् । अपिशब्देन तद्दर्शनस्य मिथ्यादृष्टित्वेनाधःपतनहेतुत्वं समुच्चीयते । हि यस्मात् । सा अत्यन्ताभाव-प्रतियोगिता । अप्रामाणिकतेति । अप्रामाणिकस्यैवात्यन्ताभावप्रतियोगि-त्वादिति हृदयम् ।। ६१४ ।।

युक्तिमल्लिका

इदानीं न घटो दृष्ट इत्युक्ते न घटो मृषा ।

नरशृृङ्गं नैव दृष्टमित्युक्ते तु तदेव न ।। ६१५ ।।

सुरोत्तमटीका

 उभयत्रापि दृष्टान्तमाह ।। इदानीमिति ।। तदेव नृशृृङ्गमेव ।। ६१५ ।।

सत्यप्रमोदटीका

 तदेवोपपादयति इदानीमिति ।। ६१५ ।।

युक्तिमल्लिका

अतस्त्वदुक्तदृष्टान्तो विषमोऽभूद्विचारणे ।। ६१६ ।।

सुरोत्तमटीका

 उपसंहरति ।। अत इति ।। अतः एवं धर्मान्पृथक्पश्य-न्निति धर्मपृथक्त्वदर्शननिषेधस्य कालविशेषाद्यनालंबित्वात् ।। ६१६ ।।

सत्यप्रमोदटीका

 अतः कालविशेषे ज्ञानविशेषस्येक्षणस्यैव निन्दनात् । अत्र तु सदैव ज्ञानसामान्यस्यैव निन्दनात् ।। ६१६ ।।

युक्तिमल्लिका

द्रष्टव्यो नैव दोषोऽस्मिन्नित्युक्ते तददोषता ।

यथा सिध्द्येत्तथा धर्मापार्थक्येक्षणशिक्षणे ।

धर्माणामपृथक्त्वं च सिध्द्येदेव मम प्रभौ ।। ६१७ ।।

सुरोत्तमटीका

 भगवत्येव सामान्यदर्शननिषेधस्यार्थाभावसाधकत्वं दृष्टान्तमुखेन दर्शयति ।। द्रष्टव्य इति ।। अस्मिन्भगवति ।। ६१७ ।।

सत्यप्रमोदटीका

 ‘असन्नेव स भवति असद्ब्रह्मेति वेद चेदि’ति भगवति दोषदर्शननिन्दया दोषाणामसत्वं यथा सिद्ध्येत्तथा पृथक्त्वदर्शननिन्दया पृथक्त्वस्यासत्त्वमपि सिध्येदेवेत्याह द्रष्टव्य इति ।। ६१७ ।।

युक्तिमल्लिका

द्वितीयाभिनिवेशेन भयं स्यादिति चोदिते ।

द्वितीयस्यैव बाध्यत्वं किं नोचुस्तव पूर्वजाः ।। ६१८ ।।

सुरोत्तमटीका

 इयं शङ्का न मायावादिना कर्तुं शक्येत्याह ।। द्वितीयाभिनिवेशेनेति ।। उदिते उक्ते सति चेति सम्बन्धः ।। ६१८ ।।

सत्यप्रमोदटीका

 भयं द्वितीयाभिनिवेशतः स्यादि’ति भागवतेऽभि-निवेशमात्रस्य निन्दा श्रूयते । अभिनिवेशश्च ज्ञानविशेषः । द्वितीयं वस्तु सूर्योदयादिकमिव प्रमितम् । अतो न बाधार्हम् । उदिते च उदितेऽपि । चोऽप्यर्थः । अभिनिवेशस्यैव निन्दितत्वेऽपि द्वितीयस्य प्रमितत्वेऽपि । ऊचुः प्रमाणान्यवधीर्य स्वमतदुरभिनिवेशमात्रेणेत्युपस्कर्तव्यम् । तथा चात्र पृथक्त्वस्याबाध्यत्वोक्तिर्न केवलमप्रामाणिकी किन्तु अपसिद्धान्तपराहतेति भावः ।। ६१८ ।।

युक्तिमल्लिका

त्रयाणामेकभावानां यो न पश्यति वै भिदाम् ।

इत्युक्तिस्ते भिदां द्वेष्टुमैक्यं पोष्टुं च भूः किल ।। ६१९ ।।

सुरोत्तमटीका

 त्रयाणां भिदां हरिहरब्रह्मणां भिदाम् । ऐक्यं तेषामैक्यम् । भूः स्थानम् । यथाऽत्र तव भेददर्शननिन्दायां भेदस्यासत्त्वं एवं ममापि पृथक्त्वदर्शननिन्दायां पृथक्त्वाभावस्सेत्स्यति । यथाच तवात्र त्रिदेवताभेददर्शननिन्दायां भेदमात्रस्यातत्त्वं न देवानाम् । तथा धर्मपृथक्त्व-दर्शननिन्दायां धर्मपृथक्त्वस्यैवासत्त्वं न धर्माणामिति समग्रोपमेयम् ।।६१९।।

सत्यप्रमोदटीका

 इत्युक्तिः एवं हरिहरब्रह्मणां भेदनिषेधपरेव मुखतः प्रतीयमाना, वस्तुतस्तेषां मत्यैक्ये एव तात्पर्यवती भागवतोक्तिः । अग्रे तथैव ग्रन्थकृतैव व्याख्यास्यमानत्वात् । तत्र यथा भेदस्य मिथ्यात्वं देवानां तु सत्यत्वमेवाङ्गीकृतं तथाऽत्रापि पृथक्त्वस्य मिथ्यात्वं धर्माणां तु सत्यत्व-मङ्गीक्रियतां स्वरीत्यैवेति भावः ।। ६१९ ।।

युक्तिमल्लिका

सर्वत्र भेदमिथ्यात्वं साधयंस्त्वं दुराग्रही ।

कथमद्याद्वितीयस्मिन्भिदामाधातुमिच्छसि ।। ६२० ।।

सुरोत्तमटीका

 एवं शङ्कितुर्मायावादिनः प्रकारान्तरेण स्वव्याहतिमाह ।। सर्वत्रेति ।। भिदां धर्मभेदम् ।। ६२० ।।

सत्यप्रमोदटीका

 सर्वत्र एकमेवाद्वितीयमिति श्रुत्यादौ, भेदमिथ्यात्वं स्वगतभेदस्य सजातीयाद्विजातीयाच्च भेदस्य मिथ्यात्वम् । साधयन् ‘सद्वस्तुनो भेदत्रयं प्राप्तं निषिध्यत’ इति व्याकुर्वन् । अद्य ‘धर्मान्पृथक् पश्यन्नि’ति श्रुतेरर्थकथनावसरे । दुराग्रही प्रमितभेदानामपलापेऽप्रमितस्वगतभेदाङ्गीकारे चाग्रहवान् ।। ६२० ।।

युक्तिमल्लिका

किञ्चेयं श्रुतिरेवादौ नेहनानास्ति किञ्चन ।

इत्यादिना भिदामेनां निषेधति पदे पदे ।। ६२१ ।।

सुरोत्तमटीका

 अधुनाऽस्यामेवोपनिषदि नेहनानास्ति किञ्चनेत्यादौ ब्रह्मणि स्वगतनानात्वस्यैव निषेधादर्थाभावप्रयुक्तैव दर्शननिन्देत्याह ।। किं चेयमिति ।। ६२१,६२२ ।।

सत्यप्रमोदटीका

 किं चात्रैव पूर्वं ‘नेहनाने’ति भेदस्य ‘नानेव पश्यति’ इति भेदाभेदस्य च निषेधान्न धर्मभेदोक्तिर्विचारसहेत्याह किञ्चेति

।। ६२१ ।।

युक्तिमल्लिका

अतस्तज्ज्ञाननिन्दाऽपि मिथ्याभूतार्थदृक्त्वतः ।

इति मन्यामहे तस्माद्धर्मा धर्म्यात्मकाः प्रभोः ।। ६२२ ।।

सत्यप्रमोदटीका

 फलितमाह अत इति । अत्र धर्मशब्देन प्रथमाध्याये भगवति समन्विता गुणक्रियाऽऽदयः सर्वे विवक्षिताः । तेषां भगवल्लक्षणत्वेन लक्षणानां च भगवदभिन्नत्वेनाभिहितत्वात् । तत एव अदृश्यत्वनये समन्विता दृश्याद्यन्योन्याभावा अपि धर्मा एव । तत एव धर्म्यात्मकाश्चेत्युपसंहरति तस्मादिति ।। ६२२ ।।

युक्तिमल्लिका

धर्मिसत्त्वेऽपि यन्नश्येत्तत्र भेदोऽपि मृग्यते ।

भेदस्यासाधारणं हि कार्यं नाशाविनाशनम् ।। ६२३ ।।

सत्यप्रमोदटीका

 ननु च संहर्तृत्वादयो धर्मा भगवतः श्रूयन्ते । क्रियाणामनित्यत्वं सुप्रसिद्धम् । नित्यस्य भगवतः कथं तदभेदः । विरुद्ध-धर्माध्यासस्य भावभेदाव्यभिचारात् । ततो यदि नाम सर्वगतत्वादीनां यावद्द्रव्यभाविनामभेदः तथापि न क्रियाणामसौ युज्यते इति ‘अनित्यत्वा-क्रियाऽऽदीनां कथमेव स्वरूपता’ इति अनुव्याख्यानोक्तां शङ्कां ‘इति चेत्स विशेषोऽपि क्रिया शक्त्यात्मना स्थिरः’ इति तदुक्तपरिहारानुरोधेन समाधत्ते धर्मीति । स्यादेतदेवं यद्यैश्वरी क्रियाऽनित्या स्यात् । नैतदस्ति । ‘स्वाभाविकी ज्ञानबलक्रिया चे’ति श्रुत्या ज्ञानबलवदेव स्वाभाविकत्वोक्तेः । अतोऽ-खण्डितत्वात् क्रियायाः, विरुद्धधर्माध्यासोऽसिद्धः । ‘खण्डिते भेद ऐक्यं चे’त्युक्तभेदाभेदकल्पनाया अपि नावकाश इत्याह भेदस्येति । असाधारण-मिति । न विशेषाख्यप्रतिनिधिना समाधेयम् ।। ६२३ ।।

युक्तिमल्लिका

अनश्यद्रिपुहस्तो यद्भिनत्त्यन्यं विनाशिनम् ।। ६२४ ।।

सत्यप्रमोदटीका

 असाधारण्यमेव दृष्टान्तोक्त्योपपादयति अनश्यदिति । वध्यघातुकभावोक्तेर्विरुद्धधर्माध्यासोपपादन एव तात्पर्यम् । तेन गोत्रादि-संसर्गाभावस्य भगवतोऽतिरिक्तत्वसिद्धेर्न तस्यात्र धर्मपदेन विवक्षेत्यवधेयम् ।। ६२४ ।।