विमता सन्निकृष्टापूर्वार्थादोषजदृष्टिदृक्
स्वतस्त्वेऽनुमानप्रमाणोक्तिः
युक्तिमल्लिका
विमता सन्निकृष्टापूर्वार्थादोषजदृष्टिदृक् ।
ज्ञानप्रामाण्यार्थसत्त्वोल्लेखेन नियता मता ।। ४८४ ।।
सुरोत्तमटीका
ज्ञप्तौ स्वतस्त्वेऽनुमानमाह ।। विमतेति ।। विमता स्वतस्त्वपरतस्त्वविप्रतिपत्तिधर्मिभूता । विमतामेव शृृङ्गग्राहकतया दर्शयति ।। सन्निकृष्टेति ।। सन्निकृष्टश्चासावपूर्वार्थश्च तस्य अदोषजा या दृष्टिस्तस्याः दृक् अनुव्यवसाय इति यावत् । सन्निकृष्टेति दोषाजन्यत्वे हेतुसूचनम् । अपूर्वेत्यनेनानभ्यासदशापन्नत्वं सूचयति । अदोषजेत्यनेन दोषजन्यसंशयादि-ज्ञानानुव्यवसाये बाधः परिहृतः । अपूर्वेत्यनेन द्वितीयानुव्यवसायमादाय सिद्धसाधनताऽपि परिहृता । ज्ञानप्रामाण्यस्यार्थसत्तोल्लेखेनार्थसत्तानिश्चयरूपेण योऽयमुल्लेखः तेन नियतेति साध्यम् । प्रामाण्यसंशयघ्नाप्रामाण्याग्राहिप्रमात्वतः प्रमात्वादिति हेतुः । घटादिज्ञाने व्यभिचारपरिहाराय प्रामाण्यसंशयघ्नेति । अप्रामाण्यनिश्चये व्यभिचारपरिहारार्थमप्रामाण्याग्रहीत्युक्तम् । मानसविपरीतानु-व्यवसाये व्यभिचारपरिहारार्थं प्रमात्वत इति । या इत्थं सा तथा । यथेदं ज्ञानं प्रमा समर्थप्रवृत्तिजनकत्वादिति तवानुमेति ।। ४८४,४८५ ।।
सत्यप्रमोदटीका
दोषाद्यप्रतिरुद्धेनेत्यादिना प्राक् ज्ञानप्रामाण्यस्य स्वतस्त्वं निरुक्तम् । तदिदानीं अनुमानेन साधयति । विमतेति । अत्र श्लोकद्वयेन संक्षिप्योक्तस्य प्रयोगस्य परिष्कारस्तर्कताण्डवे ‘स्वतस्त्वेऽनुमानानि’ इति भङ्गे वर्णितदिशाऽनुसन्धेयः । तद्यथा—दोषशङ्काद्यकलङ्कितज्ञानस्यानु-व्यवसायः सत्तया स्वग्राह्यज्ञानप्रामाण्यविषयकः तद्विरुद्धाविषयकत्वे सति तद्व्याप्यत्वाविषयकत्वे सति तत्संशयविरोधिप्रत्ययत्वात् प्रामाण्यानुमितिवत् इति । विमतेति प्रतिज्ञादोषनिराससूचनार्थम् । सन्निकृष्टेति अर्थविशेषणम् । एवमपूर्वेत्यपि । अदोषजेति दृष्टेर्विशेषणम् । दृक्शब्देनानुव्यवसायो ग्राह्यः । सन्निकृष्टेत्यनेनार्थगतदूरस्थत्वादिसर्वदोषराहित्यं उपलक्षितम् । अदोषजेत्यनेन तदितरसर्वदोषराहित्यम् । तथा च दुष्टकरणजन्यत्वशङ्कातन्निश्चयअप्रामाण्यादि-शङ्कातन्निश्चयाद्यनास्कन्दितत्वं दृष्टिरूपव्यवसायस्य ज्ञाप्यते । अनुव्यवसायत्वं च व्यवसायप्रकारप्रकारतया व्यवसायप्रकारवद्विशेष्यकतया च व्यवसाय-विषयकप्रत्यक्षत्वं वा ज्ञानांशे लौकिकप्रत्यक्षत्वं वेति पूर्वोक्तं ध्येयम् । ज्ञानेति । प्रामाण्यस्यानुव्यवसायेनोल्लेखो द्वेधा । ज्ञानं नदोषं चेत्प्रमाणमित्येवं सम्मुग्धाकारेण, प्रमाणं भवत्येवेत्येवं अर्थसत्तानिश्चयरूपेण चेति । अत्र द्वितीय एव साध्यत्वेनाभिमत इति भावः ।। ४८४ ।।
युक्तिमल्लिका
प्रामाण्यसंशयघ्नाप्रामाण्याग्राहिप्रमात्वतः ।
यथा तवानुमेत्युक्तस्वतस्त्वेऽस्त्यनुमाऽपि मे ।। ४८५ ।।
सत्यप्रमोदटीका
संशयघ्नेति । संशयविरोधीत्यर्थः । अप्रामाण्या-ग्राहीति । अत्र अप्रामाण्यपदेन प्रामाण्यविरोध्येव भण्यते इति स्वयमुत्तरश्लोके विशदयति । प्रामाण्यविरुद्धाविषयकेत्यर्थः । प्रामाण्यविरुद्धं च अप्रामाण्यं अप्रामाण्यव्याप्यं प्रामाण्याभावः तद्व्याप्यं चेति चतुष्टयम् । यथा तव अनुमा प्रामाण्यानुमितिः समर्थप्रवृत्त्यादिलिङ्गजन्या । सामान्यव्याप्तौ वह्निमत्त्वाविषयके तत्संशयविरोधिनि तद्व्याप्यतया धूमनिश्चये व्यभिचारवारणाय, प्रामाण्य-व्याप्यत्वाविषयकत्वेति हेतुविशेषणमधिकं तर्कताण्डवे निवेशितम् । समान-प्रकारकयोरेव निवर्त्यनिवर्तकभावमङ्गीकृत्यात्र तदनिवेशः । पक्षे विशेषणा-नुपादाने प्रतिबन्धदशायां बाधः । दृक्शब्देन अनुव्यवसायेत्यनुक्तौ शब्द-सामान्यप्रत्यासत्त्यादिजन्यं तादृशज्ञानविषयकज्ञानमादाय बाधः । अपूर्वेत्यनुक्तौ अभ्यासदशापन्नज्ञानानुव्यवसायमादाय सिद्धसाधनता । साध्ये सत्तयेत्यनुक्तौ प्राचीनतार्किकमते वैशिष्ट्यविषयकत्वस्यानुव्यवसायेऽभ्युपगमेन सिद्धसाधनता स्यात् । सत्तया तद्विषयकत्वं तु नाङ्गीकृतमिति न तद्दोषावकाशः । न चैवं नवीनतार्किकमते तद्व्यर्थम् । उद्देशसिद्ध्यर्थत्वात् । विशेषणत्वे प्रयोजनवत्त्वं तन्त्रम् । न तु व्यावर्त्यस्योभयसिद्धिः । हेतौ, तद्धिरुद्धाविषयकेत्यनुक्तौ प्रामाण्यविरुद्धाप्रामाण्यनिश्चये तत्संशयविरोधीत्यनुक्तौ घटादिज्ञाने प्रत्ययेत्यनु-क्तौ धर्म्यज्ञाने कोट््यस्मरणे च व्यभिचारः । अतः सर्वं सार्थकम् ।। ४८५ ।।
युक्तिमल्लिका
प्रामाण्यस्य विरोध्येवाप्रामाण्यं भण्यते यतः ।
तत्सा कुत्सितशङ्कां च हुङ्कारेणैव वारयेत् ।। ४८६ ।।
सुरोत्तमटीका
ननु यस्मिन्ज्ञानेऽनुव्यवसायेनातद्वति तत्प्रकारकत्वरूपा-प्रामाण्यं न गृह्यते किं तु तद्वति तत्प्रकारकत्वलक्षणप्रामाण्याभाव एव गृहीतोऽनुव्यवसायेन । तस्मिन्ननुव्यवसाये व्यभिचारः । तत्राप्रामाण्याग्रहेऽपि प्रामाण्याभावस्य ग्रहणेन ज्ञानं प्रमा नवेति संशयाजननेनोक्तहेतोर्विद्य-मानत्वादुक्तसाध्यस्य चाभावाद्व्यभिचार इत्यत आह ।। प्रामाण्यस्येति ।। अप्रामाण्याग्राहिप्रमात्वादित्यत्राप्रामाण्यपदेन प्रामाण्यविरोध्येवाप्रामाण्यं भण्यते यतस्तस्मादिति सम्बन्धः । तथाच प्रामाण्यसंशयघ्नप्रामाण्यविरोध्यग्राहि-प्रमात्वादिति निष्कृष्टं हेतुस्वरूपम् । तथाच प्रामाण्यविरोधिनः प्रामाण्या-भावस्यैव ग्रहणेनाप्रामाण्याग्राहिप्रमात्वस्यैवा भावात्तादृशानुव्यवसायेन व्यभिचार इति भावः । समानप्रकारकयोरेव निवर्त्यनिवर्तकभावाङ्गीकारात् संशयघ्नपदेनैव व्याप्यदर्शनस्यापि व्यावर्तितत्वान्न तद्व्यावृत्त्यर्थं पृथग्विशेषणमिति द्रष्टव्यम्
।। ४८६ ।।
सत्यप्रमोदटीका
कुत्सितशङ्कां प्रामाण्याभावादिग्राह्यनुव्यवसाये व्यभिचारशङ्काम् । यथा चैतत्तथा विवृतं प्राक् ।। ४८६ ।।
युक्तिमल्लिका
जानामि घटमेवाहमित्याकृत्यैव कीर्त्यते ।
यत्सा तत्साधयेदेव कृत्स्नाऽपि ज्ञानमानताम् ।। ४८७ ।।
सुरोत्तमटीका
दूरस्थसमीपस्थघटज्ञानानुव्यवसाययोराकारवैचित्र्याच्चैकत्र प्रामाण्यग्रहणमावश्यकमित्यनुकूलतर्कं वक्तुमाकारवैचित्र्यं दर्शयति ।। जाना-मीति ।। घटमेवाहं जानामि नत्वन्यमित्याकृत्यैव साऽनुव्यवसितिः यद्यस्मा-त्कीर्त्यते समीपस्थघटादिदर्शिभिः पूर्वैर्जनैः ।। ४८७ ।।
सत्यप्रमोदटीका
अप्रयोजकतां अनुकूलतर्कोक्त्या निराकरोति त्रिभिः । यदि उक्तरूपोऽनुव्यवसायः सत्तया नियमेन प्रामाण्यविषयको न स्यात् तर्हि घटमेव घटत्वेन जानामि इत्येवार्थसत्तोल्लेखी न स्यात् । अत्र प्रामाण्य-शब्दानुल्लेखेऽपि तदर्थस्य तद्वति तत्प्रकारकत्वरूपस्य प्रामाण्यस्योल्लेखात् । अस्ति चार्थसत्तोल्लेखोऽवधारणरूपः । अतः प्रामाण्यविषयकत्वमेष्टव्यमिति भावः ।। ४८७ ।।
युक्तिमल्लिका
दूरस्थे तु घटं जानामीति धीर्जायते परम् ।
न तु सावधृतिस्तत्र मानत्वावधृतिश्च न ।। ४८८ ।।
सुरोत्तमटीका
दूरस्थेतु परं केवलं घटं जानामीति धीस्संमुग्धाकारेणैव जायते । न तु सावधृतिः घटमेवेत्यवधारणसहिता । तत्र दूरस्थवस्तुदर्शने
।। ४८८ ।।
सत्यप्रमोदटीका
पूर्वोक्ततर्के आपाद्यापादकयोर्व्याप्तिं दृष्टान्तप्रदर्शनेन स्थिरीकरोति । दूरस्थे त्विति । तत्र प्रामाण्यावधारणाभावः तत एव अर्थसत्तावधारणाभावश्चेति भावः ।। ४८८ ।।
युक्तिमल्लिका
व्यवहारस्य वैचित्र्ये कथं न ज्ञानचित्रता ।
अतोऽनुकूलस्तर्कोऽपि कर्कशीकुरुतेऽनुमाम् ।। ४८९ ।।
सुरोत्तमटीका
नन्वेवं व्यवहारवैचित्र्येऽपि कुतोऽनुव्यवसाययोः प्रामाण्यग्रहणाग्रहणरूपवैचित्र्यमित्यत आह ।। व्यवहारस्येति ।। घटमेवाहं जानामीति घटमहं जानामीति द्विप्रकारकाभिलपनरूपव्यवहारस्य । अतो विचित्रव्यवहारसिद्धानुव्यवसाय वैचित्र्यस्य सर्वजनसिद्धत्वात् । अनुकूलतर्कः ग्राह्यप्रामाण्यवैचित्र्याभावे ग्राहकानुव्यवसायवैचित्र्यं न स्यादित्यनुकूलतर्क इत्यर्थः ।। ४८९ ।।
सत्यप्रमोदटीका
व्यवहारस्येति । अभिलपनरूपस्येत्यर्थः । वैचित्र्ये निरवधारणसावधारणत्वरूपे । सतीति शेषः । कथमित्याक्षेपे । ज्ञानेति । विचित्रव्यवहारहेतुभूतानुव्यवसायात्मकज्ञानेत्यर्थः । चित्रता प्रामाण्यस्य सत्तयाऽनुल्लेखित्वतदुल्लेखित्वरूपा । अन्यथा कार्यवैचित्र्यस्याकस्मिकत्वप्रसङ्गो बाधकः ।। ४८९ ।।
युक्तिमल्लिका
प्रमा न गुणतोजन्या ज्ञानत्वादप्रमा यथा ।
इत्युत्पत्तौ चानुमितिर्बाधाभावाद्भवेद्धि नः ।। ४९० ।।
सुरोत्तमटीका
उत्पत्तिस्वतस्त्वेऽनुमानमाह ।। प्रमेति ।। प्रमा जन्यप्रमा ।। ४९० ।।
सत्यप्रमोदटीका
ज्ञानप्रामाण्यस्योत्पत्तौ स्वतस्त्वेऽनुमानमाह प्रमेति । अनित्यप्रमेत्यर्थः । अन्यथेश्वरप्रमायां सिद्धसाधनतापत्तेः । गुणेति दोषा-भावोऽप्युपलक्षणीयः । ज्ञानसामान्यसामग्य्रतिरिक्तकारणाजन्येति पर्यवसितम् । ज्ञानप्रमासामग्य्रोरेकरूपता तु प्राक् साधिता । अतो न बाधशङ्काप्रसरोऽपि इत्याह बाधाभावादिति । प्रतिपक्षाभावाच्चेत्यपि ग्राह्यम् ।। ४९० ।।
युक्तिमल्लिका
दोषाभावोऽपि यद्दोषी कोऽसावत्र गुणो गुणी ।। ४९१ ।।
सुरोत्तमटीका
इदानीं साहित्यमुद्रया गुणं निराकरोति ।। दोषाभाव इति ।। यद्यस्माद्दोषाभावोऽपि दोषी प्रमान्वयव्यतिरेकव्यभिचाररूपदोषवान् । तस्मात्प्रमायां कोऽसौ गुणो गुणी अन्वयव्यतिरेकाख्यगुणवानित्यर्थः । ये दोषाभावमपि सदोषं चक्रुस्तेगुणं सदोषं कथं न कुर्युः । अतिविरुद्धयोर्भावा-भावयोर्घटनं कुर्वन्तो भावयोः कथं घटनां न कुर्युरिति विरोधाभासस्फोरणेन साहित्योक्तिः । भावाभावरूपयोरुभयोरपि गुणयोर्व्यभिचारात् स्वतस्त्वे न कश्चित्क्षुद्रोपद्रव इति हृदयम् ।। ४९१ ।।
सत्यप्रमोदटीका
दोषाभावोऽपि स्वयं दोषविरोधी सन्नपि । दोषी व्यतिरेकव्यभिचारवान् औत्सर्गिककार्यापवादकविरोधित्वरूपान्यथासिद्धिमांश्च । अत्र प्रामाण्योत्पत्तौ । गुणी कारणत्वसाधकान्वयव्यतिरेकादिगुणवान् । दोषो दोषाभावश्चेति भावाभावरूपौ अतिविरोधिनौ । दोषो गुणश्चेति भावरूपौ न तथाऽतिविरोधिनौ । दोषाभावेऽपि दोषित्वं व्युत्पादितं स्वतस्त्ववादिना । तादृशशक्तिमतो मम गुणस्य दोषित्वव्युत्पादने को वा प्रयासो भवेदिति ध्वनिः। तथा च स्वतस्त्वसिद्धिर्निष्प्रत्यूहेति भावः ।। ४९१ ।।
युक्तिमल्लिका
विस्तरस्त्वस्य सर्वस्य मूलशास्त्रमहार्णवे ।
द्रष्टव्यस्तत्तटस्थाणुमणिसङ्ग्राहिणो वयम् ।। ४९२ ।।
सुरोत्तमटीका
यद्बलादेतावच्चर्चितं तन्मूलशास्त्रं स्तौति ।। विस्तर-स्त्विति ।। अस्य सर्वस्य प्रमेयस्य । तत्ततटस्थाणुमणिसंग्राहिणः तस्य मूलशास्त्रमहार्णवस्य तटस्थो वायुप्रेरणया तटे आगतोऽणुर्मणिर्युक्तिरूपमौक्तिकं तत्संग्राहिण इत्यर्थः ।। ४९२ ।।
सत्यप्रमोदटीका
विस्तरः परोपन्यस्तपरतस्त्वसाधकलिङ्गानां विशिष्या-पाकरणं, करणप्रमाणानां उत्पत्तौ ज्ञप्तौ स्वतस्त्वविचार इत्यादिकः । मूल-शास्त्रेति तत्त्वनिर्णयसुधादिकेत्यर्थः । सद्युक्तिप्रचुरस्यापि स्वग्रन्थस्याणुमणि-निभत्वोक्त्या मूलग्रन्थस्यापरिमितमणिगणोच्चरत्नाकरवैभवं ध्वनयति ।। ४९२ ।।
।। इति प्रामाण्यवादः ।।