इति ब्रवीति कोऽप्यज्ञस्स प्रष्टव्यो विवेकिभिः
अनुगतजातिनिरासः
युक्तिमल्लिका
इति ब्रवीति कोऽप्यज्ञस्स प्रष्टव्यो विवेकिभिः ।
व्यवहारानुगमनं नाम तस्यैकता किमु ।। ५८८ ।।
सत्यप्रमोदटीका
प्रष्टव्यः इत्युपलक्षणं दूषणीयश्च । तदुक्तेरत्यन्ता-सम्बद्धत्वज्ञापनाय प्रष्टव्य इत्येवोक्तम् । अर्थापत्तिः खलु सामान्यसाधन उपन्यस्ता परेण । तत्र व्यवहारानुगम आक्षेपकः सामान्यमाक्षेप्यम् । आक्षेपकस्य प्रमितत्वमन्यथानुपपद्यमानत्वं आक्षेप्यस्योपपादकत्वं प्रमाणा-विरुद्धत्वं चेत्यर्थापत्तिसामग्री । न च साऽत्रास्तीति सर्वाङ्गविकलोऽयमर्था-पत्त्याभास इति वक्तुं आक्षेपकस्वरूपं तावद्विकल्पयति तस्येत्यादिना । तस्य व्यवहारस्य ।। ५८८ ।।
युक्तिमल्लिका
उत तस्यैकधर्मेणावच्छिन्नत्वमुदीर्यते ।
एकाकारत्वमथवा वक्तव्यं नापरं हि तत् ।। ५८९ ।।
सत्यप्रमोदटीका
एकधर्मेण अयं घटः इति व्यवहाराणां एकेन घटत्व-रूपधर्मेण अवच्छिन्नत्वं व्यावर्तितत्वम् । एकाकारत्वं एकानुपूर्व्यवच्छिन्नत्वम् ।। ५८९ ।।
युक्तिमल्लिका
नाद्यः प्रयोजकासिद्धेर्वादिनोरुभयोरपि ।
प्रतिवादिमतासिद्धेर्द्वितीयोऽपि न शोभते ।। ५९० ।।
सुरोत्तमटीका
प्रयोजकासिद्धेः घटोऽयं घटोऽयमिति बहुभिर्बहुधा क्रियमाणानां व्यवहाराणामैक्यासिद्धेः । प्रतिवादिमतासिद्धेः प्रतिवादिमते असिद्धेः । अद्यापि व्यवहारावच्छेदकीभूतघटत्वादिजातेः तत्ववादिनां मते एकत्वासिद्ध्या प्रयोजकस्यान्यतरासिद्धेः । न च शब्दनित्यत्ववादिनां तेषामेक घटशब्दघटितत्वादनुगतव्यवहारस्यैकधर्मावच्छिन्नत्वमिति वाच्यम् । तेनैवा-न्यथासिद्धेः । घटकरीरकलशादिपर्यायशब्दैस्तत्र तत्र व्यवहारसम्भवेन शब्दैक्यस्याप्ययोगाच्च ।। ५९० ।।
सत्यप्रमोदटीका
प्रयोजकासिद्धेः व्यवहाराणां बहुकर्तृकत्वेन, एक-कर्तृकत्वेऽपि कालादिभेदेन, भेदस्यैव प्रमितत्वेनाक्षेपकस्योभयमतरीत्याऽ-सिद्धेः । प्रतिवादीति । सामान्यसिद्धौ व्यवहारस्यैकधर्मावच्छिन्नत्वसिद्धिः तेनैव च सामान्यसिद्धिरित्यन्योन्याश्रयादिति भावः । उपलक्षणम् । वादि-मतेत्यपि ग्राह्यम् । सोऽप्यन्योन्याश्रयमनुत्तीर्णो प्रतिवादितुल्य एव ।। ५९० ।।
युक्तिमल्लिका
अप्रयोजकतादोषस्तृतीयं पक्षमाक्षिपेत् ।
नानासमानव्यवहारेण धर्मोऽपि तादृशः ।। ५९१ ।।
सिद्ध्येत्परं तस्य सर्वत्रैकता किङ्कृता वद ।
यक्षानुरूपो हि बलिः प्राचां वाचमनुस्मर ।। ५९२ ।।
सुरोत्तमटीका
अप्रयोजकतादोषः अप्रयोजकत्वासिद्धिरूपदोषः । अप्रयोजकत्वमुपपादयति ।। नानेति ।। नानासमानव्यवहारेण भिन्नभिन्नैक-प्रकारव्यवहारेण तादृशः प्रत्येकं धर्मिषु भिन्नभिन्नः एकप्रकारश्च । किंकृता प्रयोजकेषु कस्याप्यैक्याभावात् ।। ५९१,५९२ ।।
सत्यप्रमोदटीका
व्यवहारो भिन्नभिन्नः समानाकार इति तृतीयपक्षो यद्यपि प्रमितस्तथाऽपि अन्यथोपपन्नो नाक्षेप्यं प्रयोजयतीत्याह अप्रयोजक-तेति । आक्षिपेत् प्रतिक्षिपेदित्यर्थः । ‘इति व्युत्पत्तिरपि हि सादृश्येनैव गम्यते’ इति भगवत्पादीयोक्तिमनुरुध्याह समानेति सदृशेत्यर्थः । तादृशः तत्सदृशः । तथा च सादृश्येनैव सर्वोपसंहारेण व्याप्तिशक्त्यादिव्यवहारोपपत्तेर्न तदर्थं व्याप्यतावच्छेदकस्य शक्यताऽवच्छेदकस्य वैकत्वाभ्युपगमोऽपेक्षित इति भावः ।। ५९१, ५९२ ।।
युक्तिमल्लिका
अखण्डजातेरेकैको यद्यंशो व्यक्तिषूच्यते ।
घटास्तर्हि घटांशाः स्युर्घटस्तु स्यान्न कश्चन ।। ५९३ ।।
सुरोत्तमटीका
अखण्डजात्यङ्गीकारे दूषणान्तरमाह ।। अखण्डेति ।। ५९३ ।।
सत्यप्रमोदटीका
सम्पूर्णजात्याधारत्वमेकैकस्या व्यक्तेर्नोच्यते किन्त्व-खण्डाया एकस्या जातेरनेकेष्वंशेष्वेकैकैकांशस्यैवेति तन्मात्रसिद्धेनानुगत-व्यवहारेण सामान्यसिद्धिरविकलेति पक्षान्तरमाशङ्कते यदीति । दूषयति तर्हीति । अस्मिन्पक्षे अयं घटः अयं च घट इत्यनुगतव्यवहारो नैव सिद्ध्यति । किं नाम अयं घटस्यैकोंशोऽयं पुनरपरोंऽश इत्येव । यथा पटांशेषु तन्तुषु । एवं चानुगतव्यवहारस्याभावे तद्बलेन न सामान्यसिद्धेः प्रत्याशेति भावः ।। ५९३, ५९४ ।।
युक्तिमल्लिका
सम्पूर्णपटताशून्यपटांशेष्वंशधीरिव ।
सम्पूर्णजात्यनाधारे स्यादंशत्वप्रमा परम् ।। ५९४ ।।
सुरोत्तमटीका
दृष्टान्तमाह । संपूर्णेति ।। संपूर्णपटताशून्यपटांशेषु एकैकतन्तुष्वित्यर्थः । उक्तमर्थं दार्ष्टान्तिके दर्शयति ।।संपूर्णेति।।५९४ ।।
युक्तिमल्लिका
आकाशांशेषु चाकाशशब्दोक्तिरुपचारतः ।
अवकाशप्रदत्वाख्ययोगसम्भवतोऽपि वा ।। ५९५ ।।
सुरोत्तमटीका
कथं तर्हि आकाशांशेष्वपि आकाशव्यवहार इत्यतो द्वेधा परिहारमाह ।। आकाशेति ।। ५९५ ।।
सत्यप्रमोदटीका
चस्त्वर्थः । तेन घटादिषु तथोक्तिर्व्यावर्त्यते । आकाशस्य व्याप्तत्वेन तदंशेषूपचारेण तच्छब्दव्यवहारसम्भवः । घटादिस्तु न तथा । एवं आकाशशब्दवद्धटादिशब्दा न यौगिका इति वैषम्यमिति भावः ।। ५९५ ।।
युक्तिमल्लिका
अनेकव्यञ्जकव्यङ्ग्या यथैका जातिरुच्यते ।
तथाऽनेकघटत्वेभ्यो वागेकैव प्रवर्तताम् ।। ५९६ ।।
सुरोत्तमटीका
पूर्वमनुगतव्यवहार एव नास्तीत्युक्तम् । अधुना अस्तुवा असौ व्यवहारः तथापि नानुगतजातिसिद्धिरिति सदृष्टान्तमाह ।। अनेकेति
।। ५९६ ।।
सत्यप्रमोदटीका
किञ्चास्तु वाऽनुगतव्यवहारः । तथाऽपि न त्वन्मतोऽनुगतजाति सिद्धिरित्याह अनेकेति । जातेर्व्यञ्जकत्वेन त्वदभ्युपगता व्यक्तयो नाना यथा, तथा व्यवहारस्यैकत्वेऽपि तन्निमित्तानि जातयो नाना सन्तु । न तदेकत्वसिद्धिरिति भावः ।। ५९६ ।।
युक्तिमल्लिका
शब्दैक्यं च न ते पक्षे ततस्तत्रापि चैकताम् ।
स्वानियंतुर्नियम्योऽसौ न सहेतेति मे मतिः ।। ५९७ ।।
सुरोत्तमटीका
प्रकारान्तरेण व्यवहारस्यैकत्वेऽपि जातेरेकत्वं नापेक्षित-मित्याह ।। शब्दैक्यं चेति ।। ते शब्दानित्यत्ववादिनस्तवपक्षे शब्दैक्यं नास्ति प्रतिव्यवहारं घटादिपदानां तदा तदा उत्पत्त्यङ्गीकारात् । ततः एक-व्यवहारस्यानेकशब्दप्रयोज्यत्वात् । तत्रापि जातिनिमित्तकानुगतव्यवहारेऽपि । नियम्यो व्यवहारः नियन्तुर्जातेः एकतामिति सम्बन्धः । ते पक्ष इत्यनेन शब्दनित्यत्ववादिनो मम मते उक्तव्यवहारस्य शब्दरूपैकधर्मप्रयोज्यत्वसम्भवेन त्वदुक्तन्यायस्यान्यथासिद्धिरिति सूचितम् ।। ५९७ ।।
सत्यप्रमोदटीका
नियम्य एकः । नियन्तारः शब्दा अनेके । तथा असौ व्यवहारः स्वयमेकोऽपि स्वनियन्त्र्या जातेरेकत्वं न सहेत । नियम्य-स्यैकत्वे नियन्तुरेकत्वमिति नियमस्य त्वयैव शब्दानित्यत्वं अत एव तदनेकत्वं वदता त्यक्तत्वादिति भावः ।। तन्नियमादरणे शब्दस्य मन्मत इव नित्यत्वाङ्गीकारापत्तेरिति भावः ।। ५९७ ।।
युक्तिमल्लिका
कारणत्वान्यनेकानि तत्र तत्र तवापि च ।
तदवच्छेदकस्यापि कथं न स्यादनेकता ।
यो गुरूणां गुरुस्तस्य गुरुतैव हि शोभते ।। ५९८ ।।
सुरोत्तमटीका
कारणतावच्छेकत्वेनापि न जातेरेकत्वसिद्धिरित्याह ।। कारणत्वानीति ।। ५९८ ।।
सत्यप्रमोदटीका
तत्र तत्र तत्तद्दण्डादिषु । कारणत्वानि तत्तद्धटनियत-पूर्ववृत्तित्वरूपाणि । अनेकानीति । प्रतिकार्यं भिन्नानि । न हि एको दण्डः सर्वघटपूर्ववृत्तिरिति सम्भवतीति भावः । चेत्यनेन ममापीति समुच्चयः । मया कारणत्वं शक्तिः सा च प्रतिव्यक्ति नानेत्यङ्गीकारात् । यथोक्तं तर्कताण्डवे ‘मन्मते शक्तिवज्जातेरपि प्रतिव्यक्तिभिन्नत्वाच्चे’ति । कारणत्वानां शक्तीनाम-नेकत्वे तदवच्छेदकदण्डत्वादिजातीनामनेकता नियतेत्याह तदिति । गुरूणां गुरोः, गुरुत्वं क्लृप्तम् । तथाऽवच्छेद्यानामनेकत्वे तदवच्छेदकानामप्यनेकत्वं क्लृप्तमेवेति न तद्दोष इत्याह य इति ।। ५९८ ।।
युक्तिमल्लिका
व्यञ्जकानुगतोक्तिश्च जातिष्वनुगतैकवाक् ।
न किलैकेन नियता मध्ये यन्त्रेकता कुतः ।। ५९९ ।।
सुरोत्तमटीका
लाघवादवच्छेदकस्यैकत्वमिति पक्षं अन्यापदेशेन दूषयति ।। यो गुरूणामिति ।। गुरोर्गुरुर्हि परमगुरुरेव दृष्टः न तु लघुः । तथा अनेककारणतावच्छेदकस्य अनेकतैवोचितेति भावः । व्यञ्जकस्य जातिव्यञ्जकस्य पृथुबुध्नोदराकारत्वादेरनुगतोक्तिः पृथुबुध्नोदराकारोऽयं पृथुबुध्नोदराकारोय-मित्यादिरूपा । जातिषु घटत्वपटत्वादिषु अनुगतैकवाक् इयं जातिरियं जातिरित्यादिरूपा । एकेन धर्मेण । व्यवहारद्वये त्वयाऽपि जातिप्रयोज्यत्वा-नङ्गीकारात् । मध्ये घटोऽयमित्याद्यनुगतव्यवहारे । यन्त्रेकता नियामकजात्येकता ।। ५९९ ।।
सत्यप्रमोदटीका
अनुगतव्यवहारः आकारव्यक्तिजातित्रितयसाधारणः । तत्र जातिव्यञ्जकेष्वाकारेष्वनुगतव्यवहारसिद्ध्यर्थं आकारत्वं नामानुगतधर्मो न स्वीकृतः । एवं जातिषु तदर्थं जातित्वं नामानुगतो धर्मोऽपि । मध्ये व्यक्तिष्वेव परं अनुगतव्यवहारनियामकतयाऽनुगतजात्यङ्गीकारो निर्मूलः । अर्धजरतीयापत्तेरित्याह व्यञ्जकेति ।। ५९९ ।।
युक्तिमल्लिका
प्रलये सर्वदेशे च जातिर्नित्याऽस्ति चेत्तदा ।
व्यक्त्या नायुतसिद्धा सा याऽवश्यं नापराऽऽश्रया ।। ६०० ।।
सुरोत्तमटीका
इदानीं पराभिमतसमवायसम्बन्धायोगाच्च न घटत्वादि-जातिरङ्गीकार्येत्याह ।। प्रलय इति ।। सा जातिः । घटत्वादिजातेर्घटादि-व्यक्त्याऽयुतसिध्द्यभावान्न तयोस्समवायः । अयुतसिद्धयोस्सम्बन्धः समवाय इति हि ते मतम् । एवं चासम्बन्धाख्यजातिबाधकान्न सा जातिरङ्गीकार्येति भावः ।। ६०० ।।
सत्यप्रमोदटीका
इदानीं परप्रक्रिययैव जातिं दूषयति प्रलय इति । एषा हि परस्य प्रक्रिया । ‘जातिव्यक्त्योः समवायः । तत्र जातिर्नित्या । तदाश्रया घटादिव्यक्तयः प्रलये नश्यन्ति । अयुतसिद्धयोः समवायः । ययोर्मध्य एकम-विनश्यदवस्थं अपराश्रितमेवावतिष्ठते तावयुतसिद्धौ’ इति । एवं समवाय-स्यैकत्वेन य एवाकाशे शब्दसमवायः स एव व्यक्तौ जातिसमवाय इति जातेः सर्वगतत्वं च लभ्यते । तत्र तावज्जातेर्व्यक्त्या समवायो दुर्निरूपः । तयो-रयुतसिद्धत्वाभावात् । न हि पटस्तन्तुष्विव, प्रलयेऽपि नित्या सर्वगता च जातिर्व्यक्त्याश्रिततयाऽवतिष्ठत इति सम्भवति । व्यक्तीनां नाशात् । सम्बन्धस्यासम्भवेन व्यक्त्याश्रितत्वस्यैवासम्भवेऽनेकानुगतत्वरूपलक्षणस्य सुतरामसम्भवेन न जातिसिद्धिः । तदेतदाह नेति ।। ६०० ।।
युक्तिमल्लिका
अभावेषु न किञ्चित्ते विशेषेषु न किञ्चन ।
एकं नियामकं तस्मात्ततोऽन्यत्रापि तद्वृथा ।। ६०१ ।।
सुरोत्तमटीका
स्थलान्तरेष्वपि व्यभिचारमाह ।। अभावेष्विति ।। ६०१ ।।
सत्यप्रमोदटीका
ते तव मतेऽपि । किञ्चन अभावत्वविशेषत्वादि-जातिर्वाऽन्यः कोऽप्यनुगतधर्मरूपनियामको वा । तस्मात् नियमस्य व्यभिचारात् । अन्यत्रापि द्रव्यगुणकर्मसु अपि । वृथा सादृश्येनैव सर्वत्र व्याप्त्यादिग्रहोपपत्तेः ।। ६०१ ।।
युक्तिमल्लिका
बहुकृद्बहुताव्याप्तस्तच्छून्यो याचते हि ताम् ।
एकः कुठारो यत्कार्यलक्षे व्यापारलक्षवान् ।। ६०२ ।।
सुरोत्तमटीका
अनेकेषामनेकव्यवहारोपयोगिजातेरनेकतैव न्याय्या नत्वेकतेत्येतत्सदृष्टान्तमाह ।। बहुकृदिति ।। बहुकृद्घटपटादिबहुकार्यकृत् कुलालकुविन्दादिः । तां बहुताम् । व्यापारलक्षवान् दारुसंयोगाख्यव्यापार-लक्षवान् ।। ६०२ ।।
सत्यप्रमोदटीका
युक्त्याऽपि जातेरनेकत्वं सिध्यतीत्याह बहुकृदिति ।। एतद्धटत्वं तद्धटनिष्ठघटत्वादन्यत् तज्जन्यव्यवहारभिन्नव्यवहारजनकत्वात् कुला-लजन्यघटभिन्नपटजनककुविन्दवत् इति प्रयोगोऽभिप्रेतः । तच्छून्यो बहुता-शून्यः एको । याचते नियमेनापेक्षते । लक्षशब्दस्य बहुत्वमर्थः । कुठार-स्यैकत्वेऽपि नानावृक्षच्छेदनार्थं भिन्नभिन्नदारुसंयोगाख्यव्यापारबहुत्वं नियत-मिति भावः । घटत्वानि, नाना, विभिन्नकार्यकारिघटाश्रितत्वात् । नाना-वृक्षच्छेदसाधनपरश्वाश्रितदारुसंयोगवदित्येवमत्रापि प्रयोग ऊह्यः ।। ६०२ ।।
युक्तिमल्लिका
तस्मादनेककार्येषु कस्मादेको विमृग्यते ।
तत्तद्व्यक्त्यन्वयी सोऽपि तत्तत्कर्ता यतोऽन्ततः ।। ६०३ ।।
सुरोत्तमटीका
तत्तद्व्यक्त्यन्वयी तत्तद्व्यक्त्याधारताख्यभिन्नभिन्नस्वरूप-सम्बन्धरूपान्वयवान् । सोऽपि जातिपदार्थोऽपि ।। ६०३ ।।
सत्यप्रमोदटीका
निगमयति तस्मादिति । किमाक्षेपे । विमृग्यते प्रमाणबाधितोऽपि कल्प्यते । तत्तदित्युपनयः ।। ६०३ ।।
।। इति अनुगतजातिभङ्गः ।।
युक्तिमल्लिका
अतो धर्मस्य धर्म्यैक्यं धर्मिणां चैकता भवेत् ।
इत्यादिदोषैर्दूष्यं न पोष्यमेवाखिलैर्बुधैः ।। ६०४ ।।
सुरोत्तमटीका
जातेरेकत्वखण्डनस्य प्रकृतोपयोगं दर्शयति ।। अत इति ।। अतो जात्यैक्यखण्डनात् धर्म्यैक्यं दूष्यं नेति सम्बन्धः।। ६०४ ।।
सत्यप्रमोदटीका
अतः जातेः ऐक्यस्य खण्डनात्, यावद्द्रव्यभाविधर्माणां जात्यादीनां धर्म्यभेदेऽपि विशेषबलेन भेदव्यवहाराणां निर्वाहसमर्थनाच्च । धर्म्यैक्यं दूष्यं नेत्यन्वयः । एकतेति । यदभिन्नाभिन्नं इति न्यायेनेति भावः । आदिपदेन भेदकार्यव्यवहारानुपपत्त्यादयो ग्राह्याः । पोष्यमेव श्रुत्या लोक-व्यवहारेण च प्रमितत्वादादरणीयमेव ।। ६०४ ।।
।। इति अनुगतजातिभङ्गः ।।