प्रणम्य गुणसम्पूर्णं दोषातीतं रमापतिम्

श्रीराघवेन्द्रतीर्थविरचिता

तन्त्रदीपिका

मङ्गलाचरणम्

प्रणम्य गुणसम्पूर्णं दोषातीतं रमापतिम् ।

पूर्णबोधं गुरूनन्यान् कुर्मः सूत्रार्थसङ्ग्रहम् ॥ १ ॥

गुरुपादकृतोऽप्यस्ति सङ्ग्रहो हृदयङ्गमः ।

प्रस्थान भेदप्रोक्तार्थसङ्ग्रहोऽथाप्ययं मम ॥ २ ॥