जिज्ञासाधिकरणम्
जिज्ञासाधिकरणम्
ब्रह्मरुद्रादिभिः ज्ञानार्थं अर्थितो नारायणः व्यासत्वेन अवतीर्य उत्सन्नान् वेदान् अभिव्यक्तिपूर्वकं अनेकधा विभज्य तदर्थनिर्णयाय ब्रह्मसूत्राणि व्यातेने ॥ तत्रेदमादिमं सूत्रम् -
ॐ ॐअथातो ब्रह्मजिज्ञासा ॐ ॥ 01-01 ॥
अत्र नये चतुरध्यायात्मकैतच्छास्त्रस्य आरम्भणीयत्वोपयुक्ततया जिज्ञासाकर्तव्यत्वं समर्थ्यते । अत्र आद्यन्तयोः ओङ्कारः " स्रवत्यनोङ्कतं ब्रह्म परस्ताच्च विशीर्यते " इति श्रुतिसिद्धः । आद्यः दृष्टादृष्टार्थः । अत एव एतत्सूत्रावयवत्वात् सर्वसूत्रेषु अनुषङ्गः न स्यात् इति सर्वसूत्रेषु अदृष्टमात्रार्थतयाssदौ अनुषङ्गाया संहिततया पठ्यते । अन्त्यः अष्टमात्रार्थः । न सूत्रावयवः । अन्वयप्रतियोग्यसमर्पक इति यावत् । ओङ्काराथशब्दौ मङ्गलफलकौ क्रमात् गुणपूर्त्यानन्तर्यवाचकौ । ओमित्येतत् योग्यतया जिज्ञासागुणभूतब्रह्मविशेषणम् । अथेति योग्यतया अधिकारात् इत्यन्वेति । अत इति यस्य प्रसादात्" इत्यादिनिर्णेयश्रुत्यादिस्थं फलादि परामृश्यते । ब्रह्मशब्दः गुणपूर्त्यर्थः सन् चिदचिद्विलक्षणविष्णुवाची । “स विष्णुराह हि तं ब्रह्मेत्याचक्षते" इत्युक्तेः । ब्रह्मणो जिज्ञासा इति कर्मणि षष्ट्या समासः | ततश्च, अथ अध्ययनशमदमादिरूपाधिकारसम्पत्यनन्तरम्, अतः अकारवाच्यात् प्रसन्नात् ब्रह्मणः, ज्ञानोत्थप्रसादजमोक्षाख्यफलसत्त्वात्, बन्धस्य सत्यत्वात्, आगमस्य प्रामाण्यात्, सिद्धार्थप्रमापकत्वात् वा । ॐ ब्रह्मणो गुणपरिपूर्णस्य विष्णोः जिज्ञासा कर्तव्या इति शेषः । ब्रह्मज्ञानाय सर्ववेदविषयकश्रवणमनननिदिध्यासनरूपा मननमात्ररूपा वा “ तद्विजिज्ञासस्व" इत्यादिश्रुत्युक्ता कर्तव्या इत्यर्थः । ॐ ब्रह्मशब्दयोः यौगिकत्वेपि एकस्य रूढत्वमाश्रित्य विशेषवाचित्वेन " आत्मेति तूपगच्छन्ति” इत्यत्रेवान्वयो बोध्यः । ब्रह्मशब्दात् विषयसिद्धावपि ओमित्युक्तिः न केवलं ब्रह्मशब्दात् विषयसिद्धि: "ओमित्येतदक्षरं उद्गीथं उपासीत" इत्यादौ गुणपूर्णार्थोङ्कारादपि इति युक्त्यन्तरसूचनाय । ब्रह्मणि किं मानं वेदरूपप्रमाणसूचनाय च । ओङ्कारवाच्यस्य ब्रह्मणः इत्युक्त्या व्याहृतिगायत्रिपुरुषसूक्तद्वारा सर्ववेदानां तद्वयाख्यानत्वात् वेदा एव तत्र मानमिति सिद्धेरिति भावः । तेन ब्रह्मणः प्रमितत्वेऽनुग्राह्यप्रमाणाभावात् जिज्ञासा न कर्तव्या इति न शङ्कथम् । गुरुपादास्तु ब्रह्म किं इत्यतः ॐ इत्युक्तम् । रक्षकस्य इत्यर्थः । अवतिरूपत्वात् । रक्षकश्च विष्णुः प्रसिद्ध इत्याहुः || विभाषा गुण इति गुणशब्दस्य परतन्त्रमात्रार्थकत्वोक्तेः अत इति साधु । कृद्योगलक्षणा च षष्ठी समस्यत इत्युक्तेः ब्रह्मजिज्ञासा इति साधु । कर्तुः अनुपादानात् न उभयप्राप्तौ कर्मणीति षष्ठी । तेन कर्मणि च इति न निषेधः । पूर्वेणाध्यायद्वयेन ब्रह्मशब्दार्थस्य उत्तरेण च साधनफलयोः उपपादनात् ब्रह्मणः अथ जिज्ञासा इति वाच्ये अथात इत्यादि अथातः-शब्दयोः स्वरूपतः अर्थतश्च आधिक्यादिति सूचनाय । अत्र अथातो ब्रह्मपदानि क्रमात् निरधिकारिकत्वनिष्फलत्वनिर्विषयत्वशङ्काव्युदासकानि । १ ।