वियदधिकरणम्

अथ द्वितीयाध्यायस्य तृतीयः पादः

विप्रतिषेधादित्युक्तदोषो वैदिकमतेऽपि स्यादित्याशङ्कां व्युदासयितुमत्र पादे श्रुतिविरोधो निराक्रियते ॥

वियदधिकरणम्

॥ ॐ न वियदश्रुतेः ॐ ॥ २--

अत्र नये वियदुत्पत्त्यनुत्पत्तिश्रुत्योरविरोध उच्यते । उत्पत्यसम्भवे वृत्तेरनुत्पत्तीत्यन्वेति । वियदनुत्पत्तिमन्न उत्पत्तिमदेव । कुतः ? अश्रुतेः तदनुत्पत्तिश्रुत्यभावादित्यर्थः । अत्र श्रुतौ सूत्रे च वियत्पदेन भूताकाशौ तदभिमानिनौ चेति चतुष्टयमुच्यते । वियदिति च प्रकृतिजीवचैतन्यकालवेदमहदहङ्कारमनोबुद्धयादीनां तदभिमानिनां चोपलक्षकमिति सुधायाम् । विशेषव्याप्तिमत्त्वात्तत्सर्वमुच्यत इति तत्वप्रदीपे । उत्पत्तिश्चात्र पराधीनविशेषावाप्तिरूपा । सा च नित्ये यथायोग्यं श्रिय: सिसृक्षुत्वं,प्रकृते: परिणाम: । आकाशस्य मूर्तसम्बन्ध इत्यादि । अन्यत्र भूत्वा भवनरूपा । उत्पत्तिश्रुतिरपि तत्तत्परा । एवमग्रेऽपि बोध्यम् ।

उत्पत्तौ मानाभावादेवानुत्पत्तिमत्त्वं सिद्ध्यतीत्यत आह-

॥ ॐ अस्तितु  ॐ ॥ २--

तुरेव । अस्त्येव वियदुत्पत्तिश्रुतिःआकाशः सम्भूतः | इत्यादिकेत्यर्थः ।

“अनादिर्वा अयमाकाश:” इति श्रुतिविरुद्धेयं श्रुति” अश्रुतेरिति चासिद्धमित्यत आह--

॥ ॐ गौण्यसम्भवात् ॐ ॥ २--

अनादित्वश्रुतिर्गौणी गौणानादित्यपरा । असम्भवात् अस्तीत्युक्तोत्पत्तिश्रुतीनामयोगादित्यर्थः । भूतस्य स्वरूपतः, तदभिमानिनो देहतः अवकाशतदभिमानिनोः पराधीनविशेषावाप्तित उत्पत्तिसम्भवेन चतुष्टयविषयत्वात् बहुत्वाच्चोत्पत्तिश्रुतिर्युक्ता । अनादिर्वा " इति श्रुतिर्भूते सर्वथाऽयुक्तेत्यसर्वविषयत्वाद्भूते छत्रिवल्लाक्षणिकी वा चिरन्तनत्वमात्रेण गौणी वा भूतेतरत्रितयाकाशपरा वा नेयेति भाव:

इतश्च गौणीत्याह-

॥ ॐ शब्दाच्च ॐ ॥ २--

अथ ह वा व नित्यानि " इति भाष्योक्तश्रुतेश्चानादिश्रुतिर्गौणी | अन्या मुख्यार्थेत्यर्थः । न केवलमसम्भवयुक्तिसिद्धेति चार्थः । अस्यां श्रुतौ भागशो द्युत्पद्यन्त इति भूतादिचतुर्भिर्भागैराकाशपदार्थस्योत्पत्युक्तेरवकाशादिस्वरूपकतिपयभागेनानुत्पत्त्युक्तेरिति भावः ॥

ननु " न जायते म्रियते " इति विष्णावनुत्पत्तिवाचिशब्दस्य मुख्यार्थत्वदर्शनादस्याप्यनेकार्थत्वनिरासायाकाशेऽप्यनुत्पत्तिश्रुतिमुख्यैव वाच्येत्यत आह-

॥ ॐ स्याच्चैकस्य ब्रह्मशब्दवत्  ॐ ॥ २--

च एव । तस्योभयत्रान्वयः । एकस्यैवानुत्पत्तिवाचिशब्दस्य विष्णौ मुख्यत्वेऽप्याकाशे मुख्यत्वं स्यादेव । ब्रह्मशब्दवत् । ब्रह्मशब्दस्य परब्रह्मणि मुख्यत्वेऽपि विरिञ्चादिषु गौणत्वं तद्वदित्यर्थः ॥

अस्तु ब्रह्मशब्दो बाधादन्यत्रामुख्यः । इह तु कुत इत्यत आह -

॥ ॐ प्रतिज्ञाहानिरव्यतिरेकाच्छब्देभ्यः  ॐ ॥ २--

आकाशेऽप्यनुत्पत्तिवाचिशब्दस्य मुख्यत्वे " स इदं सर्वमसृजत " इति प्रतिज्ञाहानिः स्यात् । न चात्र आकाशो न श्रुत इति शङ्कयम् । अव्यतिरेकादाकाशस्य सर्वमध्यपतितत्वादित्यर्थः । स्पष्टमत्राकाशस्योत्पत्तिर्न भातीत्यतः शब्देभ्य इति । आत्मा वा इदमेक एवाग्रे” ”असदेवेदमग्रे ", " इदं वा अग्रे नैव किञ्चन " इत्याद्युत्पत्तिश्रुतिभ्यः स्पष्टं सादित्वमित्यर्थः । बहुवचनेन बहुश्रुतिविरोधादेकस्यानुत्पत्तिशब्दस्यामुख्यत्वं न्याय्यमिति सूचयति । असम्भवादित्युक्तविवृत्तित्वादस्य न पौनरुक्त्त्यम् ॥

आकाशादावनुत्पत्तिशब्दस्य गौणत्वाय तस्य शब्दतः सादित्वमुक्त्वानुमानतोऽपि तदाह-

॥ ॐ यावद्विकारं तु विभागो लोकवत् ॐ ॥ २--

विकार इति कर्मणि घञ् ।यावदवधारण" इत्यव्ययीभावः । विभागपदेन कर्मार्थघञन्तेनाल्पशक्तिमानुच्यते । तस्याप्ययमिह शक्तो नेति विभज्यमानत्वात् । यावद्विकारं विक्रियमाण एवार्थो विभागो विभक्तः, अल्पशक्तिमानित्यर्थः । यो विभक्तः स विक्रियमाण इति व्याप्तिरुक्ता भवति । यावदनित्यं कृतकमितिवत् । लोकवदघटादिवदित्यर्थः । एतेन वियदुत्पत्तिमत् विभक्तत्वादघटादिवदित्यनुमानं सूचितम् । तुर्यस्मादित्यर्थे । यस्मादेवं तस्माद्विकार इत्येके । अनुमानेनापीति टीकोक्तेः । अल्पशक्तित्वाच्चेति तच्चप्रदीपोक्तेः तुश्चार्थः सन् अनुमानस्य प्राक्तनशब्दसमुच्चयार्थ इत्यन्ये । यदुत्पत्तिमत् न तदविभक्तं व्यतिरेकेण यथा ब्रह्मेति तोरर्थ इत्यप्याहुः ॥ १ ॥

Load More