open/close
open/close
अर्चिराद्यधिकरणम्
॥ अथ चतुर्थाध्यायस्य तृतीयः पादः ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ॐ ॥
ब्रह्मनाड्योत्क्रान्तानां यो ब्रह्मप्राप्तौ मार्गः, यच्च तेन पथा गतानामन्येषां देवानां च गम्यं तद्वयमत्र पादे कथ्यते ।
१. अर्चिराद्यधिकरणम्
सूत्रम् : ५२५ ॥ ॐ अर्चिरादिना तत्प्रथितेः ॐ ॥ ४-३-१-१
अत्रेशप्राप्तिमार्गेऽर्चिष आदित्वं साध्यते । ब्रह्म गच्छन् ज्ञानी 'तेऽर्चिषमभिसंविशन्त्यर्चिषोऽहः' इत्युक्तार्चिरादिना पथा गच्छति न तु 'स वायुमागच्छति' इत्युक्तवाय्वादिना । कुतः? तत्प्रथितेः । तस्योक्तार्थस्य 'तेऽर्चिषमेवाभिसम्भवन्ति' इति श्रुतौ 'द्वावेव मार्गों प्रथितावर्चि- रादिर्विपश्चिताम्' इति स्मृतौ च प्रसिद्धेरित्यर्थः । 'स वायुम्' इत्यस्य तु गतिर्वक्ष्यते ॥ १॥