तदन्तरप्रतिपत्त्यधिकरणम्
॥ अथ तृतीयाध्यायस्य प्रथमः पादः ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ॐ ॥
एवं समन्वयाविरोधाभ्यां ब्रह्मपदार्थो विचारितः । अत्राध्यायेऽथजिज्ञासापदाभ्यामुक्तानि वैराग्यभक्त्युपास्तिज्ञानरूपसाधनानि विचार्यन्ते । आद्यपादे ज्ञानहेतूपासनाङ्गभक्तिदाढर्यापादकवैराग्याय गत्यागतिस्वर्गनरक-गर्भवासादिस्वरूपं निरूप्यते ।
१. तदन्तरप्रतिपत्त्यधिकरणम्
सूत्रम् : २९४ ॥ ॐ तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम् ॐ ॥ ३-२-१-१
अत्र नये जीवस्य भूतावियोग: साध्यते । तदिति प्रागुक्तभूतपरामर्शः । निमित्तसप्तमी चेयम्। जीव इत्यर्थादन्वेति । प्रस्तुतत्वाद् भूतैरिति च । जीवः पूर्वदेहं हित्वा गच्छन् भूतैः सम्परिष्वक्तो रंहति गच्छति। किमर्थम्। तदन्तरप्रतिपत्तौ देहांतरप्राप्त्यर्थम् । कुतः ? 'वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति', 'इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति' इति प्रश्ननिरूपणाभ्यां ज्ञायत इत्यर्थः । अबुपलक्षितो जीवः पञ्चम्यामाहुतौ योषिति पुरुषवचसः पुरुष इति नामवानित्यर्थः । गतावभावे आगतौ भूतसम्बन्धोक्त्ययोगादिति भावः । तदंतरेत्युक्ति; भूतगतेः फलोक्त्यर्था । तेन तेषां देहभोगदानेन कृतार्थानां जीवेन सह गतिर्व्यर्थेति न शक्यम् । अत एवान्तरेत्युक्तिः । प्राप्ताविति वाच्ये प्रतिपत्तावित्युक्तिः यं देहं प्रतिपद्यते ध्यायत्यन्ते तमिति सूचनाय । ' यं यं वाऽपि स्मरन्' इत्यादेरित्येके । सम्परीत्युक्तिरामुक्ति तत्परिष्वङ्गोऽस्त्येवेति द्योतयितुम् । 'भूतानां विनिवृत्तिस्तु मरणम्' इति स्मृतिस्तु भागविषयेत्यग्रे व्यक्तमिति भावः ॥ १ ॥