अनुमानिकाधिकरणम्

अथ प्रथमाध्यायस्य चतुर्थः पादः

अस्मिन् पादेऽन्यत्रैव प्रसिद्धद्विविधशब्दसमन्वय उच्यते ।

अनुमानिकाधिकरणम्

॥ ॐ आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्त गृहीतेर्दर्शयति च ॐ ॥ १-४-१

अत्रैश्वर्यविरोध्यवरत्वदुःखित्वाद्यर्थकशब्दाः समन्वीयन्ते । अत्राव्यक्तजीवबद्धादिशब्दो योग्यतयाऽन्वेति । अपिरेवार्थे । आनुमानिकमिति जीवादेरुपलक्षणम् । तत्वित्यस्ति । " अव्यक्तात् पुरुषः परः " " जीवा एव तु दुःखिनः " इत्युक्ताव्यक्तादिशब्दैरानुमानिकमप्यनुमानगम्यम्, शैषिकष्ठक्, प्रधानादिरेव केषाञ्चिच्छाखासूच्यत इति चेन्न । अव्यक्तादि तत्तु परममुख्यवृत्त्या ब्रह्मैव । न प्रधानादि । कुत: दर्शयति श्रुति: चशब्देन  स्मृति: 'अव्यक्तमचलं शान्तं” इति श्रुति:|  “अव्यक्तोSक्षर उच्यते” इति स्मृतिश्च   तथा अनेन जीवेनात्मनाइति श्रुतिः । " जीवो विनयिता साक्षी " इति स्मृतिश्चाव्यक्तादि ब्रह्मेति यतो दर्शयति तस्मादित्यर्थः । विष्णोरेवाव्यक्तादिशब्दवाच्यत्वे कथमन्यत्र व्यवहार इत्यत उक्तम् । शरीरेति । शरीरस्य रूपमिव रूपं यस्य तच्छरीररूपं, कुत्सितं शरीररूपं शरीररूपकं प्रधानादि तत्र विन्यस्तस्य स्थितस्य विष्णोरव्यक्तादिपदेन गृहीतैरित्यर्थः । विन्यस्तेत्युक्त्या अव्यक्तादिशब्दवाच्यब्रह्मसम्बन्धात् प्रधानादावव्यक्तादिशब्दव्यवहार इति दर्शितम् । वैपरीत्यं कि नेत्यतः शरीरेति । जीवशरीरं यथा तत्तन्त्रं तथा प्रधानाद्यपि ब्रह्मतन्त्रमिति । मुख्यशरीरं कुतो नेत्यतः केति । न हि कुत्सितं मुख्यशरीरं भवतीति भावः । स्थितेति वाच्ये विन्यस्तेत्युक्तिः प्रधानादिविशिष्टस्यैवाव्यक्तादिपदेन गृहीतिर्न केवलस्येति वक्तुम् ॥

श्रौतस्मार्त प्रयोगेऽप्यव्यक्तादिशब्दस्य विष्णौ मुख्यत्वं कुत इत्यत आह-

॥ ॐ सूक्ष्मं तु तदर्हत्वात्  ॐ ॥ १-४-

तुरेव | सूक्ष्ममेव वस्त्वव्यक्तशब्दवाच्यमित्यर्थः । अव्यक्तत्वस्यैव तच्छन्दनिमित्तत्वात् कथमेतदित्यत उक्तम् तदर्हत्वात् । तदिति तन्त्रम् । तस्य सूक्ष्मस्य तस्य प्रकृताव्यक्तत्वस्याहत्वादित्यर्थः । सूक्ष्मस्यैवाव्यक्तशब्दप्रवृत्तिनिमित्ताव्यक्ततार्हत्वात् तदव्यक्तशब्दवाच्यं ब्रह्मैव । " यत्तत्सूक्ष्मं परमं वेदितव्यम्" इत्यादेः सूक्ष्मतममित्यव्यक्तशब्दमुख्यार्थ इति भावः । जीवादिपदनिमित्तप्राणधारकत्वादेरुपलक्षणमेतत् ।

ननु विष्णोरव्यक्तादिशब्द मुख्यार्थत्वेऽपीह परत्वावधित्वार्थकपञ्चम्याक्षिप्तावरत्वदुःखित्वादेश्चायोगेन पञ्चम्यादेः व्यर्थतापत्तेनव्यक्तादिशब्दवाच्यं ब्रह्मेत्यत आह-

॥ ॐ तदधीनत्वादर्थवत्  ॐ ॥ १-४-

अवरत्वाक्षेपकावधित्वादिवाचिपञ्चम्यादिशब्द जातमित्यन्वेति । अर्थवत् परब्रह्मण्यर्थवत् न व्यर्थम् । कुतः १ तदधीनत्वात् । अवरत्वदुःखित्वादितन्निमित्तधर्माणां तस्य विन्यस्तपदेन प्रकृतस्य ब्रह्मणोsधीनत्वादित्यर्थः । ब्रह्मण्यवरत्वादेरभावेऽपि अन्यगतावरत्वादेः तदधीनत्वात्तत्र तद्वाचिशब्दों राज्ञि जयिशब्दवदस्तीति भावः ।

इतश्च मुख्यतोऽव्यक्तादिशब्दवाच्यं ब्रह्मेत्याह-

॥ ॐ ज्ञेयत्वावचनाच्च  ॐ ॥ १-४-

अव्यक्तजीवादिशब्द मुख्यार्थो ब्रह्मैव । नानुमानिकादिः ।तमेवैकं जानथ आत्मानम्इति ब्रह्मण एव मुमुक्षुज्ञेयत्वोत्त्यनुक्तिभ्यां मोक्षार्थवेदानां ब्रह्मपरत्वसिद्धौ प्रतिवाक्यं तत्परत्वस्यआदावन्ते च मध्ये च" इत्यादिना सिद्धेः स्वतः प्राप्तमुख्यवृत्तित्यागायोगात् अव्यक्तादिशब्दमुख्यार्थी ब्रह्मैवेति भावः ।

उक्तमाक्षिप्याह-

॥ ॐ वदतीति चेन्न प्राज्ञो हि ॐ ॥ १-४-५

ज्ञेयत्वावचनमन्यस्यापि सिद्धम् । यतोमहतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते " इति महत्परत्वलिङ्गेन प्रधानस्यापि मुमुक्षुज्ञेयत्वं वदति श्रुतिरिति चेन्न । प्राज्ञो हि । यस्मात् प्राज्ञो विष्णुरत्र उच्यत इत्यर्थः । सर्वतः परे महत्परत्वं युक्तमिति भावः ॥

विष्णुग्रहणे किं कारणमित्यत आह-

॥ ॐ प्रकरणात्  ॐ ॥ १-४-

सोsध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् इति प्रकरणोक्तार्थोपासकस्य विष्णुपदप्रायुक्त्या निर्णीतात्प्रकरणात् प्राज्ञस्तत्रोच्यत इत्यन्वयः ॥

इतश्च प्राज्ञ एव निचाय्यवाक्योक्त इत्याह-

॥ ॐ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॐ ॥ १-४-७

आद्यशब्दो युक्तिसमुच्चये । न केवलं प्रकरणादिति । अन्त्यः प्रश्नोपन्याससमुच्चये । प्राज्ञ इत्यस्ति । बुद्धिस्थत्वात् एतदुपनिषदीत्यन्वेति । एवं " वीतमन्युस्त्वां ददृशिवान्मृत्युमुखात्प्रमुक्तम्इति,“स्वर्ग्यमग्निं नचिकेतः प्रजानन् " इति, “ देवैरत्रापि विचिकित्सितं किल" इत्येवं प्रकारेण त्रयाणां पितृसौमनस्य- स्वर्र्याग्नि-ब्रह्मणामेवोपन्यासो यतोऽतश्च प्राज्ञ एव तत्र उच्यत इत्यर्थः । त्रयाणामेवेति कुत इत्यत उक्तम् प्रश्नश्चेति । " सुमना यथा स्याद्वीतमन्युः " इति, " स त्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तम्इति, “येयं प्रेते चिचिकित्सा मनुष्ये " इति चैतत् त्रितयविषय एव प्रश्नश्च यतोs उपन्यासस्त्रितयविषय इत्यर्थः । आद्व्यश्चो हेतौ | अन्त्यः समुच्चय इत्येके । प्रश्नस्यादित्वेऽपि प्रतिवचनस्यनिचाय्यवाक्यस्य प्रधानपरत्वशङ्कनात् तन्निरसितुमुपन्यासस्यादावुक्तिः । त्रयाणामेव चेत्येव पूर्णावेयमित्युक्तिः त्रयमध्ये प्रधानस्य न निवेश इति दर्शयितुं प्रकारत्रयोक्त्यर्था | उपन्यासस्योक्तत्रयविषयत्वसिद्ध्यै प्रश्नोक्तिः ।

ननु प्रवृत्तिनिमित्तसत्त्वेऽपि प्रयोगप्राचुर्याभावान्मुख्यतो नाव्यक्तादिशब्द ब्रह्मेत्यत आह-

॥ ॐ महद्वच्च ॐ ॥ १-४-

चशब्दादव्यक्तादिशब्दं ब्रह्मैवेति समुच्चीयते । महद्वत् महच्छब्दं ब्रह्म यथा तथेत्यर्थः । महच्छब्दो महत्तत्त्वे प्रयोगप्राचुर्यवत्वेन ब्रह्मणि तद्धीनोऽपि " महान्तं विभुमात्मानम्" इत्यादौ यथा महत्त्वरूपतत्प्रवृत्तिनिमित्तसच्चान्मुख्यः तथाऽव्यक्तादिशब्दोऽन्यत्र प्रसिद्धया ब्रह्मणि तदभावेऽपि निमित्तातिशयान्मुख्य इति भाव:

महच्छब्देऽपि विप्रतिपन्नं प्रति दृष्टान्तान्तरमाह -

ॐ चमसवदविशेषात् ॐ ॥ १-४-९

अव्यक्तादि ब्रह्मैवेत्यस्ति । चमसशब्दो यज्ञपात्रे प्रसिद्धोऽपि यथा शिरसि मुख्यस्तथाऽव्यक्तादिरपि ब्रह्मैव तत्र मुख्य इत्यर्थः । ननु " इदं तच्छिर एष ह्यर्वाग्विलचमस ऊर्ध्वबुन " इत्यनुशासन- सत्त्वात्तस्य तथात्वेऽप्यत्र कुत इत्यत उक्तम्-अविशेषात् ।नामानि सर्वाणि " इति श्रुतेः " इदं तच्छिरः " इति श्रुत्या अविशेषात् तत्साम्यात् । अस्या अप्यनुशासनरूपत्वादिति यावत् । समन्वयस्य गुणपूर्त्यर्थत्वेऽप्यत्र दोषवाचिनां तदुक्तिः " प्राण ऋच इत्येव विद्यात् इत्यादौ सर्वशब्दवाच्यत्वस्यापि मुमुक्षुज्ञेयत्वोक्तेरिति बोध्यम् । स्पष्टमेतदग्रे कल्पनेत्यत्र ॥ १ ॥

Load More