रचनानुपपत्त्यधिकरणम्

अथ द्वितीयाध्यायस्य द्वितीयः पादः

॥ ॐ ॥ इतरेषां चानुपलब्धेरित्युक्तहेतुविस्तररूपत्वात्तदनन्तरं समयाविरोधोऽत्र पादेऽभिधीयते । हैतुकपाषण्डभेदेन समया द्विविधाः पूर्वोतराधिकरणषटक्द्वयेन निरस्यन्ते । वेदवादस्य युक्तिपाद एव निरासात् ।

रचनानुपपत्त्यधिकरणम् १

॥ ॐ रचनानुपपत्तेश्च नानुमानम्  ॐ ॥ २--

अत्र नये निरीश्वरसाङ्ख्यमतं निरस्यते । प्रस्तावात् कर्त्रिति लभ्यते । अनुमीयत इत्यनुमानम् । “ कृत्यल्युटो बहुलं “इति कर्मणि ल्युट् । महदादिकार्यं सकारणं कार्यत्वादिति साङ्ख्यानुमानकल्पितं प्रधानं न कर्तृ । कुतः १ रचनानुपपत्तेर्जडस्य रचयितृत्वानुपपत्तेः । चशब्देन साधकमानाभावाच्चेति समुच्चीयते । ननु प्रधानस्य कर्तृत्वे अनुमानं मानमित्यतोऽप्याह । रचनेति । मानमिति शेषः । करणे ल्युट् । अनुमानं न मानम् । कुतः ? अनुमानरचनाया अनुपपत्तेर्दुष्टत्वादित्यर्थः । महदादिकं सकारणकं सजातीयकारणकं सोपादानकारणकं स्वतन्त्रकारणकं चेति रचनायां सिद्धसाधनादिति भावः । एतदर्थमेव रचनेत्यनुमानमिति चोक्तिः । अन्यथा अनुपपत्तेश्च न प्रधानमित्यवक्ष्यत् । कर्तृत्वमिह स्वतः प्रवृत्तिमत्त्वं बोध्यम् ।।

इतश्च जडं न कर्त्रित्याह-

ॐ प्रवृत्तेश्च ॐ ॥ २-२-२

चेतनस्येति पूर्वत्रार्थात् प्रकृतमन्वेति । नानुमानमित्यस्ति । दर्शनादिति शेषः । पटादिसृष्टौ चेतनप्रवृत्तिदर्शनाच्च नानुमानं प्रधानं कर्त्रीत्यर्थः । पटसृष्टिदृष्टान्तेन महदादिसृष्टावपि चेतनाधीनत्वानुमानं सुशकमिति भावः । तत्त्वप्रदीपे तु चेतनस्यापि निर्विकारस्य न प्रवृत्तिरित्यत आह-प्रवृत्तेश्च । योऽहमनुभविता स एष कार्यमारभ इति चेतनस्य प्रवृत्तेरनुभवादित्युक्तम् ।

जडत्वान्न कर्तृ प्रधानमित्युक्तमाक्षिप्याह-

ॐ पयोऽम्बुवच्चेत् तत्रापि  ॐ ॥ २-२-

अपीत्यनेन चेतनप्रवृत्तेर्दर्शनादित्याकृष्यते । अनुमानं न कर्त्रित्यस्ति । यथा पयः क्षीरं स्वतो दध्यात्मना परिणमते । यथा वा जलं स्वतो गच्छति तथाऽनुमानं कर्त्रिति चेन्न । तत्रापि पयोम्ब्वादापीशाख्यचेतनप्रवृत्तेर्दर्शनात् " एतेन ह वाव पयो मण्डं भवति । एतस्य वाऽक्षरस्य प्रशासने गार्गि प्राच्यो नद्यः स्यन्दन्त इत्यादावित्यर्थः । ततश्च जडत्वं न व्यभिचारीति भावः । स्वतः परिणामि पयः, अम्बु तु प्रवृत्तिमात्रे दृष्टान्त इति द्वयोक्तिः ॥

अस्तु श्रुतिबलात्पयोम्ब्वादावेवम् । अयस्कान्तादिरन्यस्तु दृष्टान्तः स्यादित्यत आह-

॥ ॐ व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॐ ॥ २-२-

प्रकृतेशोऽन्वेति । न ऋते त्वत्क्रियते " इति श्रुत्येशव्यतिरेकेण कस्यापि कर्मणोऽनवस्थानाच्च न कोऽपि दृष्टान्त इत्यनपेक्षत्वात् सद्भिरनादरणीयत्वादनुमानकर्तृत्वस्येत्यर्थः । यद्वाऽयस्कान्तादेरपि पूर्वेणैव निराससम्भवात् कैमुत्येनोक्तार्थं साधयति-व्यतिरेकेति । चेतनप्रवृत्तेरित्यस्ति । ईशव्यतिरेकेण चेतनप्रवृत्तेरप्यनवस्थानान्नानुमानं स्वतः प्रवृत्तिमदिति किमु वाच्यमित्यर्थः । अप्रमाणकं प्रमाणविरुद्धं च तन्मतं नोपादेयमिति भावः ॥ १ ॥

Load More