सम्पद्याधिकरणम्

॥ अथ चतुर्थाध्यायस्य चतुर्थः पादः ॥ ॥ श्री गुरुभ्यो नमः ॥ हरिः ॐ ॥

अत्र पादे चतुर्मुखेन सह परब्रह्मप्राप्तानां यस्तत्र भोगः स उच्यते ।

१. सम्पद्याधिकरणम्

सूत्रम् : ५४ ॥ ॐ सम्पद्याविहाय स्वेन शब्दात् ॐ ॥ ४-४-१-१

अत्र मुक्तस्य ब्रह्मानतिक्रमेणैव भोगानुभवः साध्यते । परमित्यस्ति ।

ज्ञानी परं ब्रह्म सम्पद्य प्राप्याविहाय परं ब्रह्मानतिक्रम्य स्वेन रूपेणावस्थितः सन् भोगान् भुक्त इति शेषः । एतं सेतुं तीर्त्वाऽन्धः सन्नन्धो भवति' इति श्रुतिविरोध इत्यत उक्तं-शब्दादिति । 'इमां घोरामशिवां नदीं तीर्त्वतं सेतुमाप्यैतेनैव सेतुना मोदते' इत्यादिश्रुतेरित्यर्थः । एतच्छ्रुत्यनुरोधेन प्रागुक्तसामान्यश्रुतेरर्थो वाच्य इति भावः ।

सम्पद्येत्युक्त्या 'स एवंविदेवं मन्वान एवं पश्यन्नात्मानमभिसम्पद्यै- तेनात्मना यथाकामं सर्वान् कामाननुभवति' इति श्रुतिः सूच्यते । स्वेनेति 'परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते ' इति श्रुतिः सूचिता । परानतिक्रमे ह्यमुक्तत्वं स्यात्, ‘एतं सेतुं तीर्त्वा' इति तदतिक्रम एव मुक्तत्वोक्तेरिति शङ्कां व्युदसितुं स्वेनेत्युक्तम् । स्वरूपाविर्भावस्यैव मुक्तित्वादिति । शब्दादित्युक्तिः श्रुतिविरोधनिरासार्था ॥१॥

Load More