सर्ववेदान्ताधिकरणम्

॥ अथ तृतीयाध्यायस्य तृतीयः पादः ॥

॥ श्री गुरुभ्यो नमः ॥ हरिः ॐ ॥

अत्र पादे ज्ञानहेतुभक्तिसाध्या उपासना उच्यते ।

. सर्ववेदान्ताधिकरणम्

सूत्रम् : ३६५ ॥ ॐ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॐ ॥ ३-३-१-१

अत्र नये ध्यानाङ्गसर्वसच्छास्त्र श्रवणमननकर्तव्यता साध्यते । प्राक् पूर्वपदप्रकृतं ब्रह्मान्वेति । अन्तो विर्णयः । उभयोरपि दृष्टोऽन्त इत्यादेः ।

सर्ववेदानामन्तेन सर्ववेदविषयश्रवणमननसाध्यनिर्णयेनोत्पाद्यः प्रत्ययो ज्ञानं यस्य तद् ब्रह्म । यथाशक्ति सर्ववेदान् श्रवणादिना निर्णीय ज्ञातव्यं ब्रह्मेति यावत् । न तु स्वस्वशाखामात्रोक्तरीत्येत्यर्थः । कुतः ? चोदनाद्यविशेषात् । चोदना विधिः । सोऽत्र तद्वच्छाखापरः । चोदनासु तद्युक्तकाण्वादिशाखासु अविशेषात् काण्वैरेवं ज्ञेयं माध्यन्दिनैरेवमिति अधिकारिविशेषाभावात् । स एव कथं ज्ञेय इत्यतोऽपि चोदनाद्यविशेषात् । चोदनानां आत्मेत्येवोपासीतेत्यादिविधीनां अविशेषात सर्वाधिकारिसाधारण्यादित्यर्थः। अन्यथा काण्वैरेवमित्यादिरूपेण विधिसमीपे श्रवणं स्यात् । तदभावाद् ज्ञायत इति भावः । आदिपदाद् युक्तिः । अधिकारिविशेष-कल्पकानां ज्ञानविध्यर्थं तत्र तत्रोक्तार्थवादादिरूपयुक्तीनामविशेषादित्यर्थः । अन्तेत्युक्तिः ब्रह्मज्ञानस्य श्रवणमननसाध्यत्वं वक्तुम् ।

उक्तमाक्षिप्याह-

सूत्रम् : ३६६ ॥ ॐ भेदान्नेति चेदेकस्यामपि ॐ ॥ ३-३-१-२

'विज्ञानमानन्दं ब्रह्म', 'सत्यं ज्ञानमनन्तं ब्रह्म', इत्यादिना प्रतिशाखं वस्तुभेदान्नैकं ब्रह्म सर्ववेदान्तप्रत्ययम् । किन्तु स्वस्वशाखाप्रत्ययमेव । एकस्यैव वस्तुनोऽधिकारिणा ज्ञेयत्वादिति चेत् । नेति नत्र आवृत्तिः । कुतः? एकस्यामपि। प्रकृतत्वात् शाखायामित्यन्वेति । भेदादित्यनुषङ्गः ।'आत्मेत्येवोपासीत', 'कं ब्रह्म खं ब्रह्म' त्येकशाखायामप्यर्थभेदोक्तेः एकशाखोक्तमपि न ज्ञेयं स्यादित्यर्थः । तत्र धर्म्यनुवादेन अन्यान्यधर्मविधानाद् अस्त्वैक्यमित्यङ्गीकारे सर्वशाखास्वपि तथा स्यादिति भावः ।

इतश्चैवमित्याह-

सूत्रम् : ३६७ ॥ ॐ स्वाध्यायस्य तथात्वेन हि समाचारेऽधिकाराच्च ॐ ॥ ३-३-१-३

स्वाध्यायस्य तथात्वे नेत्यावर्तते । स्वाध्यायस्य, लक्षणया 'स्वाध्यायोऽध्येतव्यः' इति स्वाध्यायाध्ययनविधेरित्यर्थः । तथात्वेनाविशेषेण सर्वाधिकारिसाधारण्येन सर्ववेदाध्ययनविधायकत्वेन हेतुनेत्यर्थः । स्वाध्यायस्य सर्वशाखासमूहस्य तथात्वेनाविशेषेणैव उक्तेनैवाध्येतव्यत्वेनैव, 'वेदः कृत्स्नोऽधिगन्तव्यः' इति हिशब्दसूचितस्मृतेश्च सर्ववेदान्तप्रत्ययं ब्रह्म । अध्ययनस्य ज्ञानार्थत्वादिति भावः । तथा समाचारेऽधिकाराच्च । अस्याप्यावृत्तिः । ' सर्ववेदोक्तमार्गेण कर्म कुर्वीत' इति स्मृत्या समाचारे सर्ववेदोक्तकर्मणः सम्यगनुष्ठाने सर्वेषामधिकाराच्च । समाचारे, चर गतौ, सर्ववेदोक्तब्रह्मज्ञाने सुतरामधिकारात् सर्ववेदान्तप्रत्ययं ब्रह्मेत्यनुवर्त्य योज्यम् । शाखाभेदस्य प्रसिद्धत्वाद् अध्ययनविधिः विशेषनिष्ठो वाच्य इति शङ्कामपनेतुं हीति स्मृतिसूचनम् । शाखाभेदोऽशक्तिहेतुक इति भावः ।

सुधायां तु, समाचारे देवानां श्रवणाद्यनुष्ठानेऽधिकाराच्चेत्यर्थः । एकैकशाखाप्रत्ययत्वे ब्रह्मणः तेषां महामतीनामद्यापि तन्न स्यात् । समाचारादित्येव वाच्येऽधिकारादित्युक्तिः देवतानयोक्तन्यायस्मारणायेत्युक्तम् । एवं तर्हि मन्दानामध्ययनानधिकारः स्यादित्यत आह-

सूत्रम् : ३६८ ॥ ॐ सलिलवच्च तन्नियमः ॐ ॥ ३-३-१-४

च एव । स चासौ नियमश्च सर्ववेदान्तप्रत्ययं ब्रह्मेत्येष नियमः, सलिलवत् सलिलानां समुद्रप्राप्तिनियम इवेत्यर्थः । 'सर्वासामपां समुद्र एकायनम्' इत्युक्तो नियमः सत्यां शक्तौ । एवमेव सर्वशाखाप्रत्ययं ब्रह्मेत्येषोऽपि तत्तत्पुंशक्तिमपेक्ष्यैवेति भावः । सलिलेत्युक्तिः 'यथा नदीनां सलिलं शक्ये सागरगं' इति श्रुतिसूचनार्था ।

इतश्चैवमित्याह-

सूत्रम् : ३६९ ॥ ॐ दर्शयति च ॐ ॥ ३-३-१-५

'सर्वेश्च वेदैः परमो हि देवो जिज्ञास्यः' इति श्रुतिर्दर्शयत्युक्तार्थं, चशब्दात् 'सर्वान् वेदान् सेतिहासान्' इति स्मृतिश्च यतोऽतः सर्ववेदान्तप्रत्ययं ब्रह्मेत्यर्थः॥१॥

Load More