सन्ध्याधिकरणम्

॥ अथ तृतीयाध्याये द्वितीयः पादः ॥ ॥ श्री गुरुभ्यो नमः ॥ हरिः ॐ ॥

उक्तवैराग्यापाद्यदाढर्यर्थकोपासनाङ्गभक्त्युत्पत्तये भगवन्महिमाऽत्र पादेऽभिधीयते ।

१. सन्ध्याधिकरणम्

सूत्रम् : ३२३ ॥ ॐ सन्ध्ये सृष्टिराह हि ॐ ॥ ३-२-१-१

अत्र स्वप्नार्थतद्धियोरीशाधीनत्वमुच्यते । जाग्रत्सुप्तिसन्धौ भवतीति सन्ध्ये स्वप्ने सृष्टिरर्थानामिति योग्यतयाऽन्वयः । निरोधश्चेत्युपलक्ष्यते । कुतः ? हि यस्मादाह शब्द इति विपरिणम्यानुवृत्तिर्वा श्रुतिरिति शेषो वा । 'अथ रथान् रथयोगान् पथः सृजते ' इत्यादि श्रुतिरित्यर्थः । एवं च सन्ध्ये एवार्थानां सृष्टिनिरोधसत्त्वेन प्रागूर्ध्वमदृष्टिमात्रेण असत्त्वाभावात् स्वप्नार्थ-तद्वियोरीशाधीनत्वमेवेति भावः ।

कर्त्रभावात् न तत्सृष्टिर्युक्तेत्यत्र आह-

सूत्रम् : ३२४ ॥ ॐ निर्मातारं चैके पुत्रादयश्च ॐ ॥ ३-२-१-२

एक इति पूर्वोत्तरयोरन्वेति । एके शाखिनः सन्ध्येऽर्थानां निर्मातारं च 'कामं कामं पुरुषो निर्ममाणः' इत्याहुः । न सृष्टिमात्रं श्रूयत इति चार्थः । पुत्रादयश्च-'एतस्माद्ध्येव पुत्रो जायते' इत्यादिना सन्ध्ये पुत्रादयश्चेशेन सृज्यन्त इति एके आहुरिति योज्यम् । निर्मातारमिति पुत्रेति च श्रुतिविशेषसूचनार्थम् । अत्राद्यश्रुतौ ईशस्य स्पष्टं सन्ध्यकर्तृत्वाप्रतीतेः पुत्रादयश्चेति श्रुत्यन्तरोक्तिः । जीवस्य सुप्तत्वेऽपि ईशस्य कर्तृत्वं युक्तमिति भावः ।

सूत्रम् : ३२५ ॥ ॐ मायामात्रं तु कार्त्स्न्येनानभिव्यक्तस्वरूपत्वात् ॐ ॥ ३-२-१-३

तुरेव । मायेति तन्त्रेण ईशेच्छावासने उच्येते । सन्ध्यमित्यस्ति। सन्ध्यं स्वप्नसम्बन्ध्यर्थजातं मायामात्रं तु मायाभ्यां संस्कारेशेच्छाभ्यां मात्रं तु निर्मितमेव । माङ् मान इत्यतः कर्मणि त्रप्रत्ययः । अनादिमनोगतसंस्कारान् उपादानीकृत्य ईशः स्वेच्छया निमित्तेन निर्मिमीते । नान्येनेत्यर्थः । कुतो मायामयत्वम्? अत उक्तं-कार्त्स्न्येनेत्यादि । साकल्येनानभिव्यक्तस्वरूपत्वात् मायामात्रमेव, न बाह्योपादानकम् । तथात्वे सम्यगभिव्यक्तिः स्यादित्यर्थः । अनभिव्यक्तेत्याद्युक्त्या 'मनोगतांस्तु' इत्याद्युक्तिः सूचिता । यद्यपि 'त्रिगुणात्मिकाऽथज्ञानं च विष्णुशक्तिस्तथैव च । मायाशब्देन भण्यन्ते' इति स्मृतेः, 'माया वयुनमभिख्या' इति प्रज्ञानामसु पाठाद्वा मायाशब्दस्य प्रज्ञार्थत्वम् । तथापि तज्जन्या वासनाऽत्र लक्ष्यत इत्यदोषः ।

सन्ध्यार्थस्य बाह्यार्थाजन्यत्वे शुक्तिरूप्यवदसत्त्वं स्यादत आह-

सूत्रम् : ३२६ ॥ ॐ सूचकश्च हि श्रुतेराचक्षते च तद्विदः ॐ ॥ ३-२-१-४

आद्यश्चो हेतौ। सन्ध्योऽर्थः शुभाशुभसूचको यतोऽतो नासन्निति योज्यम् । कुतः ? श्रुतेः । यदा कर्मसु काम्येषु' इति, 'कृष्णं कृष्णदन्तं पश्यति' इत्यादिश्रुतेः प्रत्यक्षतः फलदर्शनाच्चेति हेरर्थः । तद्विदः सन्ध्यार्थविदो व्यासादयः 'यद्वाऽपि ब्राह्मणो ब्रूयात्' इत्याद्याचक्षते चेत्यर्थः॥१॥

Load More