पुरुषार्थाधिकरणम्
॥ अथ तृतीयाध्यायस्य चतुर्थः पादः ॥ ॥ श्री गुरुभ्यो नमः ॥ हरिः ॐ ॥
प्रागुक्तोपासनासाध्यापरोक्षज्ञानस्य विद्यैवेत्यत्र स्वतन्त्रस्यैव मुक्तिहेतुत्वरूपसामर्थ्यसिद्धावपि इह पादे मुक्त्यन्यफलादावपि सामर्थ्यमस्तीत्युच्यते ।
१. पुरुषार्थाधिकरणम्
सूत्रम् : ४३३ ॥ ॐ पुरुषार्थोऽतः शब्दादिति बादरायणः ॐ । ३-४-१-१
अत्र ज्ञानस्य सर्वपुरुषार्थहेतुत्वमहिमोच्यते । यदर्थं प्रागुपासना उक्ता तज्ज्ञानं अत इति परामृशति । पुरुषैः अर्थ्यत इति पुरुषार्थ इति सर्वोऽपि पुमर्थ उच्यते । अतो ज्ञानात् पुरुषार्थो भवति । कुतः ? शब्दात् ' यं यं लोकं ' इत्यादिशब्दादिति बादरायणो मन्यते । विमतिसूचनायैतत्पदम् ।
उक्तमाक्षिपति-
सूत्रम् : ४३४ ॥ ॐ शेषत्वात् पुरुषार्थवादो यथाऽन्येष्विति जैमिनिः ॐ ॥ ३-३-१-२
अत इत्येतद्विपरिणम्य वर्तते । अस्य ज्ञानस्य पुरुषार्थवादः 'यं यं' इति श्रुतौ स्वर्गादिमुक्त्यन्यपुमर्थहेतुत्ववादः शेषत्वात् तद्धेतुकर्मशेषत्वात् न साक्षात्। एवं तर्हि ज्ञानस्य प्राधान्येन श्रुतौ तद्वादः कथम् ? यथाऽन्येषु 'स्वर्गं धनाद्देहतो वै गृहाच्च प्राप्स्यन्ति' इति श्रुतौ वित्तादिषु स्वग्र्गहेतुकर्मशेषेषु यथा तद्वादस्तथेति जैमिनिर्मन्यत इत्यर्थः । शेषत्वं च ज्ञानस्य कर्मार्जिते अतिशयाधायकत्वं बोध्यम् ।
कुतः शेषत्वकल्पना? साक्षादेव किं नेत्यत आह-
सूत्रम् : ४३५ ॥ ॐ आचारदर्शनाच्च ॐ ॥ ३-४-१-३
चो ज्ञानिनां च देवानामित्यन्वेति । आचारस्य कर्मानुष्ठानस्य 'यज्ञेन यज्ञमयजन्त देवाः' इत्यादौ दर्शनात् । अत एषा कल्पना । अन्यथाऽऽचारवैय्यर्थ्यादित्यर्थः ।
अस्त्वैतावता द्वयोर्हेतुत्वम् । स्वर्गादावङ्गाङ्गित्वं कुत इत्यत आह-
सूत्रम् : ४३६ ॥ ॐ तच्छ्रुतेः ॐ ॥ ३-४-१-४
तस्य कर्मप्रतिज्ञाने शेषत्वस्य 'यदेव विद्यया करोति तदेव वीर्यवत्तरं भवति' इति श्रवणात् तच्छेषत्वमित्यर्थः । ' यं यं ' इति श्रुतमपि ज्ञानप्राधान्यं यथा नोपेयते तथा कर्मप्राधान्यं श्रुतमपि नोपेयतामित्यत आह-
सूत्रम् : ४३७ ॥ ॐ समन्वारम्भणात् ॐ ॥ ३-४-१-५
'कर्मैव देहं दैविकं मानुषं वाऽप्यन्वारभेत्' इति श्रुत्या कर्मणैव ऐहिकामुष्मिकदेहादेः सं प्राधान्येन अन्वारम्भणात् उत्पादनोक्तेः तस्यैव प्राधान्यं न ज्ञानशेषत्वं तत्साम्यं वेत्यर्थः ।
तथापि ज्ञान्याचारस्य मुक्तवत् लीलात्वेन फलाभावात् न शेषत्वसाधकं तदित्यत आह-
सूत्रम् : ४३८ ॥ ॐ तद्वतो विधानात् ॐ ॥ ३-४-१-६
'ज्ञानी च कर्माणि सदोदितानि कुर्यादकामः' इति श्रुतौ तद्वतः प्रस्तुतज्ञानवतः कर्मविधानात् न लीलात्वमित्यर्थः । न हि विहितस्य लीलात्वमिति भावः ।
इतश्च न लीलात्वमित्याह-
सूत्रम् : ४३९ ॥ ॐ नियमाच्च ॐ ॥ ३-४-१-७
'कुर्वन्नेवेह कर्माणि जिजीविषेत्' इति श्रुत्या ज्ञानिनोऽपि कर्मणो नियमितत्वाच्चेत्यर्थः । अकरणे प्रत्यवायाच्च न लीलात्वमिति भावः । एवं जैमिनिमतमुपन्यस्य स्वमतं साधयति -
सूत्रम् : ४४० ॥ ॐ अधिकोपदेशात्तु बादरायणस्यैवं तद्दर्शनात् ॐ ॥ ३-४-१-८
तुः प्राचीनाद्विशेषार्थः । एवमिति 'पुरुषार्थोऽतः' इत्युक्तपरामर्शः । बादरायणस्य एवं ज्ञानादेव सर्वपुरुषार्थो भवतीत्येवं मतं, न तु ज्ञानं कर्मशेषतया तथेति । तर्हि ज्ञान्याचारवैय्यर्थ्यं प्रागुक्तविध्याद्ययोगश्चेति न शक्यम् । कुतः ? अधिकोपदेशात् ज्ञानार्जिते फलेऽधिकस्य कर्माधीनातिशयस्य 'यथा यथा कर्म कुरुते तथा तथाऽधिको भवति' इत्युपदेशात् । कर्मणो ज्ञानशेषत्वोक्तेरित्यर्थः । तद्दर्शनात् । चस्यानुवृत्तिः । तस्य ज्ञानफले कर्मार्जितातिशयस्य राजसूयादिनोपलम्भाच्चेत्यर्थः । राजसूयार्जितान् लोकानश्वमेधाभिवर्धितान् । प्राप्नुहि त्वं महाभाग तपसश्च महाफलम् ॥
इति तत्त्वप्रदीपोक्तवचनादेतदवसेयम् । शेषत्वश्रुत्या लिङ्गदर्शनेन चाचारस्य विध्यादेश्च कर्मणः शेषत्वेनोपपत्तिरिति भावः । तत्त्वप्रदीपे तु एवमित्यस्य एवं प्राग् जैमिन्युक्तश्रुतिगतेरित्यर्थ उक्तः । तुः दर्शनाच्चेति चार्थ इत्येके । कर्मणो ज्ञानशेषत्वेऽपि ज्ञान एवातिशयार्जकत्वमस्त्वित्यत आह-
सूत्रम् : ४४१ ॥ ॐ तुल्यं तु दर्शनम् ॐ ॥ ३-४-१-९
तुरेव ज्ञानिनां दर्शनं तुल्यं तु । कर्मणः कृतावकृतौ च सममेव पुमर्थसमर्थमेवेत्यर्थः । एतच्च 'कामकारेण चैके' इत्यग्रे व्यक्तमतो नैवमिति भावः । मोक्षेतरस्वर्गादिफले ज्ञानशेषत्वकर्मशेषत्वयोः जैमिनिव्यासमतयोः मनुष्यदेवरूपाधिकारिभेदेन वा, देवेष्वपि प्रबलकर्मप्रतिबद्धाप्रतिबद्धज्ञानिभेदेन वा अविरोधो बोध्यः ।
नन्वेवं शेषत्वादिषट्सूत्र्या ज्ञानिमनुष्याणां प्रतिबन्धयुतदेवानां च मोक्षान्यपुमर्थो ज्ञानशेषिकर्मणा प्रतिबन्धहीनदेवानां तु कर्मशेषिज्ञानेन भवतीत्यर्थस्य अधिकेत्यादियोगाभ्यामेव सिद्धेराद्यो योग: शक्योऽवक्तुम् । तदर्थस्याप्येतदर्थद्वये एव स्थाप्यत्वात्, सामान्यस्य विशेषनिष्ठत्वावश्यंभावादिति चेन्मैवम् ।
सामान्यतो ज्ञानस्य पुमर्थमात्र हेतुत्वसिद्धावेव केषाञ्चित् कर्मशेषत्वेन केषाञ्चित् कर्मशेषित्वेन अन्यफलहेतुत्वमिति विशेषविचारावसरात्। अन्यथा अस्यानवसरदुःस्थत्वेनानुत्थानात् । उक्तं च पूर्वमीमांसायां सामान्यविशेषवता लक्षणेनेत्यादि। एवमन्यत्रापि ध्येयम् ॥ १ ॥