वाङ्मनसाधिकरणम्
॥ अथ चतुर्थाध्यायस्य द्वितीयः पादः ॥
॥ श्री गुरुभ्यो नमः ॥ हरिः ॐ ॥
एवं ज्ञानभोगाभ्यां कर्मक्षयमुक्त्वाऽत्र पादे देहत्यागाख्यफलमुच्यते । तस्य देवतदन्यरूपाधिकारिभेदेन लयोत्क्रान्तिरूपेण भेदादादौ देवानां स्वोत्तमदेवेषु लय उच्यते ।
१. वाङ्मनसाधिकरणम्
सूत्रम् : ५०३ ॥ ॐ वाङ्मनसि दर्शनाच्छब्दाच्च ॐ ॥ ४-२-१-१
अत्र वाचो मनसि लयः साध्यते । वाक् वागभिमानिनी वारुणी सुपर्णी च मनसि मनोऽभिमानिनि शेषे च लीयत इति शेषः । अस्मिन्नेवार्थे सम्पत्स्यत इत्यनुवृत्तिर्वा । कुतः? दर्शनात् । वाचो मनोवशत्वस्य प्रत्यक्षत एव दर्शनात् । मनसा सङ्कल्पितस्यैव वाचा व्याहरणात् । तस्य 'यावन्न वाङ् मनसि सम्पद्यते ' इति शब्दाच्चेत्यर्थः ।
वाचो मनोवशत्वदृष्टावपि कुतस्तत्र लय इत्यतः शब्दोक्तिः । 'वाक् पूर्वरूपं मन उत्तररूपं', 'मनः पूर्वरूपं वागुत्तररूपं ' इति व्यामिश्रोक्तिः वाङ्मनसोः विष्णुनाम्नि पूर्वोत्तरवर्णदेवतात्वे गुणप्रधानत्वे च मुनिमतविमतिपरेति भावः । वारुणी शेष इत्यादिप्रसिद्धतत्तद्देवतावाचिपरे प्रयोज्ये वागित्याद्युक्तिः यथा मुच्यमानानां देवानामुत्तमेषु लयः एवं तदभिमन्यमानानां देहगानां वागादिवृत्तीनां मृतिकाले लयो भवतीति प्रसङ्गात् सूचयितुम् ।
वाचो लयनिश्चयेऽपि सर्वदेवानां कथं लयनिश्चय इत्यत आह-
सूत्रम् : ५०४ ॥ ॐ अत एव च सर्वाण्यनु ॐ ॥ ४-२-१-२
अत इति प्रस्तुतशब्दपरामर्शः । सर्वाणि दैवतानि अनु स्वनियम्यनियामकानुसारेण लीयन्त इत्यनुषङ्गः । कुतः ? अत एव 'अग्नौ सर्वे देवा विलीयन्ते' इत्यादिशब्दादेवेत्यर्थः ।
चः सर्वाण्यपीत्यर्थ इति टीकायां भाति । तत्त्वप्रदीपे तु चशब्दादिन्द्रियाणि च यथानुकूलं विलीयन्त इत्युक्तम् । नियामकानां बाहुल्याल्लयानिश्चय इत्यतः अत एवेति श्रुत्युक्तिः । एवेति निश्चयमाह । सर्वाणीति क्लीबोक्तिः 'अन्यानि दैवतानि यथानुकूलम्' इति श्रुत्यनुरोधेन ॥ १ ॥