द्युभ्वाधिकरणम्
अथ प्रथमाध्यायस्य तृतीयः पादः
द्युभ्वाधिकरणम् १
अत्र पादे उभयत्र प्रसिद्धनामलिङ्गात्मकद्विविधशब्दसमन्वय उच्यते-
॥ ॐ द्युभ्वाद्यायतनं स्वशब्दात् ॐ ॥१-३-१
अत्र नये तादृशं सर्वाधारत्वलिङ्गं समन्वीयते । तत्वित्यस्ति । " यस्मिन् द्यौः पृथिवी चान्तरिक्षम्" इत्यादिनोक्तं द्युभ्वाद्यायतनं तत्तु ब्रह्मैव । न तु प्रधानं वायुरुद्रजीवा वा । स्वशब्दात् स्वेति शब्दः स्वशब्दस्तस्मात् । श्रुतौ स्वशब्दाभावात् तत्पर्यायात्मशब्दो ग्राह्यः । सभाराजेत्यत्र पाणिनीये राजशब्दवत् । तमेवैकं जानथात्मानमित्यात्मशब्दादित्यर्थः । आत्मशब्दादिति वाच्ये स्वेत्युक्तिः स्वस्य ब्रह्मण एव शब्द इत्यपि विग्रहेणासाधारण्यं ज्ञापयितुम् । तच्छब्दादित्युक्तावपि शब्द विशेषो न ज्ञापितः स्यादिति ।
जायमानत्वरूपजीवलिङ्गादात्मशब्दः अमुख्यः किं न स्यादित्यत आह-
॥ ॐ मुक्तोपसृप्यव्यपदेशात् ॐ ॥१-३-२
द्व्येकयोरित्यादाविव भावप्रधानोऽयम् । उपसृप्यत्वं प्राप्यान्तरशून्यत्वे सति प्राप्यत्वम् । तेनान्तरा प्राप्ये न व्यभिचारः । अमृतस्यैष सेतुः " इत्यमृतशब्दितमुक्तोपसृप्यत्वव्यपदेशात् नात्मशब्दोऽमुख्य इति योज्यम् । अमृतसेत्विति वाच्ये मुक्तेत्याद्युक्तिः तदर्थोक्त्यर्था । एवमन्यत्रापि ॥
रुद्रप्रकृती किं न स्याताम् । " रुद्रो वा व लोकाधारः भूतं च भवच्च भविष्यच्च इत्यादे: ।अत: आह-
॥ ॐ नानुमानमतच्छब्दात् ॐ ॥१-३-३
द्युभ्वाद्यायतनमित्यस्ति । अनुमीयत इत्यनुमानशब्देन वा अनुमानशब्दाच्छैषिकेऽणि कृते अनुमानशब्देन वा अनुमानप्रधानपाशुपत सांख्यसिद्धरुद्रप्रधाने ग्राह्मे । रुद्रः प्रधानं च न द्युभ्वाद्यायतनम् ।
अतच्छब्दात् । तयोः रुद्रप्रकृत्योर्भस्मधरोग्रत्वत्रिगुणत्वादिशब्दानामभावादित्यर्थः । रुद्रपिनाक्यादिशब्दानां " अन्यनाम्नां गतिर्विष्णुः " इत्यादेर्न तच्छब्दत्वमिति भावः । अतद्धर्मेतिवदयं निर्देशो बोध्यः । रुद्रप्रकृत्योर्द्वयोरुपादानाय वा टीकोक्तरीत्या पूर्वपक्षयुक्तिसूचनाय वा तदागमानाममानत्वसूचनाय वा वक्ष्यमाणदिशा वृच्यन्तरसूचनाय वा नानुमानमित्युक्तिः ।
जीववायू किमत्र वाच्यौ न स्यातां जायमान इति लिङ्गात् “वायुना वै गौतम” इत्यादे: ।अत आह-
॥ ॐ प्राणभृच्च ॐ ॥१-३-४
चशब्दान्नेति स्वशब्दादिहेतवश्चानुकृष्यन्ते । वायुश्च समुच्चीयते । आत्मशब्दमुक्तोपसृप्यत्वातच्छब्देभ्यो जीववायू न द्युभ्वाद्यायतनमित्यर्थः । जायमानादिशब्दोऽभिव्यक्त्यादिना विष्णौ युक्त इति भावः । जीव इति वाच्ये प्राणभृदित्युक्तिः सह प्राणैरित्युक्तप्राणभृत्त्वं तस्य युक्तमिति पूर्वपक्षयुक्तिसूचनाय । योगविभाग उत्तरार्थः । व्याकरणे रंजेश्चेत्यादिवत् । अत्र श्रुतौ जीवमात्रलिङ्गसत्त्वेन तदैक्यस्यैवाग्रे निरासात् । अत एवास्य स्वशब्देनोक्तिः ।
ननूभयप्रापकाबाधेन जीवब्रह्माभेदोऽस्त्वित्यत आह-
॥ ॐ भेदव्यपदेशात् ॐ ॥१-३-५
" जुष्टं यदा पश्यत्यन्यमीशम् " इतीहैव जीवब्रह्मभेदव्यपदेशान्नैक्यमित्यर्थः ।
ईशशब्दम् ब्रह्मेति कुतः १ येन जीवब्रह्मभेदोक्तिः स्यादित्यत आह-
॥ ॐ प्रकरणात् ॐ ॥१-३-६
“द्वे विद्ये वेदितव्ये " इति परविद्याविषयवस्तुन आरभ्याधीतत्वेन ब्रह्मप्रकरणादीशशब्दार्थो ब्रह्मेत्यर्थः ॥
न केवलं श्रुतिबलाद्भेदः, लिङ्गादपीत्याह-
॥ ॐ स्थित्यदनाभ्यां च ॐ ॥१-३-७
नैक्यमित्यस्ति । स्थितिः कर्मफलोपजीवनं विनाऽवस्थानम् । अदनं तदुपजीवनम् । ताभ्यां च जीवब्रह्मणोर्नैक्यमित्यर्थः । अन्यः पिप्पलं स्वाद्वत्यनश्नन्नन्यो अभिचाकशीति" इति जीवेशयोरदनतद्रहित स्थित्युक्तेरिति भावः । श्रुतावदनस्यादित्वेन अदनस्थितिभ्यामिति वाच्ये स्थितेरीशसम्बन्धित्वेनाभ्यर्हितत्वादल्पाक्षरत्वाच्च व्यत्यासः । अत्र नानुमानमतच्छब्दादित्यनुवृत्या अनुमानं भेदमिथ्यात्वे न मानम् । तद्विरुद्धमतत् भेदसत्यत्वम् । अतच्छब्दात् भेदसत्यत्वबोधकशब्दात् । अनुमानमूलभूतशब्दाभावाच्चेति वृच्यन्तरमुक्त्वा भेदमिथ्यात्वं निरसनीयमिति वदन्ति ॥ १ ॥