सर्वगतत्वाधिकरणम्

प्रथमाध्यायस्य द्वितीयः पादः

सर्वगतत्वाधिकरणम् १

एवमन्यत्रप्रसिद्धाशेषनामसमन्वयमुक्त्वा अत्रपादे तादृशलिङ्ग समन्वय उच्यते-

॥ ॐ सर्वत्र प्रसिद्धोपदेशात् ॐ ॥ १-२-१

अन नये सर्वत्रावस्थितत्वरूपतादृशभावाख्यलिङ्गसमन्वयः क्रियते तत्त्विति वर्तते । उच्यमानमिति शेष: ।सर्वत्र “एतमस्यामेतं दिविइत्यादिना " सर्वेषु भूतेषु" इत्यन्तेन पृथिव्यादिषूच्यमानं तत्तु ब्रह्मैव । न त्वादित्यो जीवो वा । कुतः ? प्रसिद्धस्य ब्रह्मण्येव श्रुत्यादौ प्रसिद्धस्य ब्रह्मशब्दस्य एतमेव ब्रह्मेत्याचक्षते" इत्युपदेशादित्यर्थः । ब्रह्मशब्दादिति वाच्ये प्रसिद्धेत्युक्तिर्जीवादिग्रहणे प्रसिद्धिबाधसूचनाय ।

इतश्चैवमित्याह-

॥ ॐ विवक्षितगुणोपपत्तेश्च ॐ ॥ १-२-२

सर्वत्र तत्विति वर्तते । विवक्षितानां वक्तुं योग्यानां वक्ष्यमाणानामिति वा, उपसंहारस्थानामिति यावत्, तात्पर्यविषयाणामिति वा, गुणानां " स योऽतोऽश्रुत" इत्याद्युक्ताश्रुतत्वादिधर्माणामुपपत्तेश्च पृथिव्यादौ ब्रह्मैव । जीवादावनुपपत्तेरित्यर्थः । विवक्षितेत्युक्तिर्गुणानामुपसंहारस्थत्वादिना प्राबल्यसूचनाय | अनुव्याख्याने तु विवक्षित एतच्छ्रुत्यादावभिमतो दूरे शक्तस्यापि तत्तच्छक्तिप्रबोधनार्थं तत्र तत्रावस्थानरूपो यो गुणस्तस्य लीलयोपपत्तेर्दूरस्थस्थापि शक्तस्य तत्र तत्रावस्थानं व्यर्थमिति न चोद्यमिति वृत्त्यन्तरमभिप्रेतम् ॥

आदित्यश्रुतेरादित्यश्चक्षुर्मयत्वादिलिङ्गाश्च जीवो वा किं न स्यादित्यत आह-

॥ ॐ अनुपपत्तेस्तुन शारीरः ॐ ॥ १-२-

सर्वत्रोच्यमानमिति वर्तते । तुरेव । शारीरः शरीरसम्बन्धी आदित्यो जीवो वा न तथा । सर्वगतत्वानुपपत्तेरेवेत्यर्थः । अणुत्वस्य वक्ष्यमाणत्वात्तयोः सर्वगतत्वे कर्मणामपि सर्वसम्बन्धितापत्याभिमानस्याप्यापातेन सुखदुःखादिव्यवस्थायोगाच्चेति भावः । एवेत्यनुपपत्तेर्दार्ढ्यम् किं तत्र साधकोक्त्येति वा सूचयति । नेतर इति वाच्ये शारीर इत्युक्तिःस यश्चायमशरीरः " इति श्रुतावशरीरत्वानुपपत्तिं च जीवे सूचयितुम् ।

इतश्च न शारीरस्तथेत्याह-

॥ ॐ कर्मकर्तृव्यपदेशाच्च ॐ ॥ १-२-४

भावप्रधानोऽयम् । सर्वत्रोच्यमानस्येति शारीरस्येति च विपरिणम्यानुवर्तते । एतस्यामिति पृथिव्यादौ सर्वत्रोच्यमानस्य " आत्मानं परस्मै " इति कर्मत्वेन शारीरस्य शंसतीति कर्तृत्वेन व्यपदेशाच्च न शारीरस्तथेत्यर्थः । तथात्वे शारीरस्यैव शंसनक्रियायां कर्मत्वं कर्तृत्वं च स्यात् । तच्च विरुद्धमेकस्येति भावः ॥

चक्षुर्मयत्वादिप्रबलजीव लिङ्गात् प्रागुक्तं ब्रह्मशब्दादिकं सर्वमन्यथयितव्यमित्यत आह-

ॐ शब्दविशेषात् ॐ ॥१-२-

शब्दस्य ब्रह्मशब्दस्य । विशेषात् सावधारणत्वरूपविशेषाद् शब्दो न शारीरपर इत्यर्थः । " एतमेव ब्रह्मेत्याचक्षते " इति सावधारणब्रह्मशब्दत्वे मुख्यब्रह्मत्वं स्यात्तच्च जीवे न युक्तमिति भावः ॥

इतश्च सर्वत्रोच्यमानं ब्रह्मेत्याह-

ॐ स्मृतेश्च ॐ ॥ १-२-

" अहमात्मा गुडाकेश सर्वभूताशयस्थितः " इति स्मृतेश्च सर्वत्रतदेवेत्यर्थः । स्मृतेः स्ववचनत्वेऽपि परोक्तार्थानुवादरूपत्वात्तदुक्तिः । एवमग्रेऽपि ॥

उक्तमाक्षिप्य समाधत्ते-

॥ ॐ अर्भकौकस्त्वात्तद्वयपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च ॐ ॥ १-२-७

सर्वत्र तत्विति वर्तते । अर्भकमल्पमोकः स्थानं यस्य तस्य भावस्तत्त्वं तस्मात् । व्यपदेशादित्येतदवाप्यन्वेति । " सर्वेषु भूतेषु " इति सर्वप्राणिहृदय गुहास्थत्वरूपार्भकौकस्त्वव्यपदेशात् तद्व्यपदेशाच्च तस्य शारीरस्यादित्यश्रुत्या चक्षुर्मयत्वादिलिङ्गेन च व्यपदेशाच्च न सर्वत्र ब्रह्मैवेति युक्तम् । शास्तुरपि व्याप्तत्वेन शास्त्रदृष्ट्यापि नयनायोगादिति चेन्न । किं ब्रह्मणोऽल्पौकस्त्वाद्युक्तिर्व्यर्था अयुक्ता वा । नाद्य इत्याह-निचाय्यत्वादेवम् । अर्भकौकस्त्वचक्षुर्मयत्वादिनोपास्यत्वान्न व्यर्थेत्यर्थः । अन्त्ये आह-व्योमवत् । यथा व्याप्तस्यापि व्योम्न एकैकदेशेऽवस्थितिस्तथा ब्रह्मणोऽपि भृताशयादौ स्थितिर्युक्तेत्यर्थः । अत्र व्योमवैषम्यमल्पश्रुतेरित्यत्र समाधास्यते । उपासा त्रैविध्यादित्युक्तावपि निचाय्यत्वादिति पुनरुक्तिरुपासाया ज्ञानस्वरूपत्वप्रदर्शनाय ।चायृ दर्शने " इति धातोः । तेनोपासा मानसक्रियाऽर्थहीनापि युक्तेति तच्छ्रुतिरमानमिति न शङ्कथम् ॥

पुनरुक्तमाक्षिप्याह-

॥ ॐ सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् ॐ ॥ १-२-

समानो भोगः सम्भोगः । व्योमवत् सर्वजीवशरीरस्थत्वे तत्समानभोगप्राप्तिर्ब्रह्मण इति चेन्न । कुतः ? वैशेष्यात् सामर्थ्यातिशयादित्यर्थः । अन्तर्नये कतिपयान्तःस्थत्वमुक्तम् । अत्र तु सर्वान्तस्थत्वम् । व्याप्ते हरौ व्योमवदिति तस्योपपन्नता चोच्यत इति ॥

Load More