आवृत्त्यधिकरणम्

॥ अथ चतुर्थाध्याये प्रथमः पादः ॥ ॥ श्री गुरुभ्यो नमः ॥ हरिः ॐ ॥

एवमथ ब्रह्मजिज्ञासापादार्थान् निरूप्यात्राध्यायेऽतः शब्दोक्तं कर्मक्षयोत्क्रान्तिमार्गभोगात्मकमोक्षस्वरूपं निरूप्यते । आद्यपादे प्राथम्यात् कर्मक्षयाख्यं प्राधान्येन विचार्यते । तत्र सप्तभिर्नयैः अत्यन्तावश्यंभावि साधनं विचार्यते ।

. आवृत्त्यधिकरणम्

सूत्रम् : ४८४ ॥ ॐ आवृत्तिरसकृदुपदेशात् ॐ ॥ ४-१-१-१

अत्र श्रवणादेरावृत्तिः कार्येति साध्यते । ज्ञानार्थं श्रवणादेरावृत्तिः कार्येति शेषः । कुतः? 'स आत्मा तत्त्वमसि' इत्युद्दालकेन श्वेतकेतुं प्रति असकृत् अनेकवारं तत्त्वोपदेशादित्यर्थः । शिष्येण श्रवणाद्यावृत्तेरकर्तव्यत्वे असकृदु (द्गुरू) पदेशो व्यर्थः स्यादिति भावः ।

श्रवणावृत्तिकर्तव्यत्वमनेन सिद्धम् । त्रितयकर्तव्यत्वं च साधयति-

सूत्रम् : ४८५ ॥ ॐ लिङ्गाच्च ॐ ॥ ४-१-१-२

'स तपोऽतप्यत । पुनरेव वरुणं पितरमुपससार' इत्यादिना श्रुताद् भृगोः श्रवणादेरावर्तनरूपलिङ्गाच्च श्रवणादीनामावृत्तिः कार्येत्यर्थः ॥ १ ॥

Load More