प्राणाधिकरणम्
अथ द्वितीयाध्यायस्य चतुर्थः पादः
यावद्विकारन्त्वित्युक्तयुक्त्युपेतयाऽकाशादेरुत्पत्तिश्रुत्या अनुत्पत्तिश्रुतिर्गौणी चेत् तर्ह्युपादानाभावादियुक्त्युपेतया प्राणाद्यनुत्पत्तिश्रुत्या तदनित्यत्वश्रुतिर्गौणीति शङ्कां व्युदसितुमत्र पादे सयुक्तिकश्रुत्यविरोध उच्यते ।
प्राणाधिकरणम् - १
॥ ॐ तथा प्राणाः ॐ ॥ २-४-१
अत्र नये “ एतस्माज्जायते प्राणः " इतीन्द्रियजन्मश्रुतेः " प्राणा एवानादय " इति तदजन्मश्रुत्या “नोपादानं हीन्द्रियाणाम् " इति युक्त्युपेतया अविरोध उच्यते । तथेति प्रागुक्तयुक्त्यनुकर्षणार्थम् । यथा वियदादयो जातास्तथा प्राणा इन्द्रियाणि ईशादेवोत्पत्तिमन्ति । अश्रुतेरित्याद्युक्तहेतुभ्य इत्यर्थः । अत्र प्राणा इतीन्द्रियाणि तदभिमानिनश्च । जनिरपि पराधीनविशेषरूपैव । सा च यथायोगमुपमचयादिरूपा ध्येया । एवमग्रेsपि ।
ननु " प्राणा एव " इति श्रुतेरश्रुतेरिति कथमत आह-
॥ ॐ गौण्यसम्भवात् ॐ ॥ २-४-२
अनादित्वश्रुतिर्गौणी, अनादिसूक्ष्मेन्द्रियपरा | असम्भवात् मुख्यानादित्वासम्भवात् । तथा " एतस्माज्जायते " इत्यादिश्रुत्यसम्भवादित्यर्थः । निरुपादानत्वादित्यधिकाशङ्कानिरासाय गौणीति पुनर्योगः । प्रागुक्तगौणत्वादन्यादृशगौणत्वोक्त्यर्थमयं योग इति केचित् ॥
इतश्चैवमित्याह-
॥ ॐ प्रतिज्ञानुपरोधाच्च ॐ ॥ २-४-३
" इदं सर्वमसृजत " इति प्रतिज्ञानुसाराच्च प्राणा उत्पत्तिमन्त इत्यर्थ: ।“स प्राणमसृजत “,स प्राणान्”," एतस्माज्जायते प्राणः" इत्यादिविशेषश्रुतेः " प्राणा एवानादय " इति सयुक्तिक विशेषश्रुतितः प्राबल्यार्थं प्रागुक्तसामान्यश्रुतिस्मारणायायं योगः ॥ १ ॥