तान् ह स ऋषिरुवाच

पिप्पलादेन तान् प्रति संवत्सरसंवासविधानम्

उपनिषत्

तान् ह स ऋषिरुवाच । भूय एव तपसा ब्रह्मचर्येण श्रद्धया संवत्सरं संवत्स्यथ । यथाकामं प्रश्नान् पृच्छत । यदि विज्ञास्यामः सर्वं ह वो वक्ष्याम इति ॥ २ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

तानागतान् ह किल ऋषिः पिप्पलाद उवाच । किमिति । यद्यपि यूयं प्रागेव तपआदिसम्पन्नास्तथाऽपि भूयः पुनरेव तपसा सर्वेन्द्रियनिग्रहलक्षणेन विशेषतोऽपि ब्रह्मचर्येण श्रद्धयाऽऽस्तिक्यनिष्ठया च युक्ताः संवत्सरमेक- मस्मान्परिचरन्तः संवत्स्यथ सम्यग्वसत। ततो यथेष्टं प्रश्नान् प्रष्टव्यार्थान् पृच्छत । युष्माभिः पृष्टश्च प्रतिवक्तुं यदि वयं विज्ञास्यामः तर्हि सर्वं वो युष्मभ्यं वक्ष्याम इति । नह्येवं सति अवचने कारणमस्तीति हशब्दः ॥ २ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

आ सम्यक् ब्रह्मचर्येणेत्यर्थमभिप्रेत्याऽह - विशेषतोऽपि ब्रह्मचर्येणेति ॥ २ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

एवं सतीति ॥ भवद्भिः संवत्सरब्रह्मचर्ये कृतेऽस्माकं तद्विषय- ज्ञाने च सति अवचने कारणं नास्तीत्यर्थः ।। १-२ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

॥ यद्यपि यूयं प्रागेव तपआदिसम्पन्ना इति ॥ इदं तु भूय एव तपसा' इत्याद्युक्तेः स्वारस्यं वचनं ज्ञेयम् ॥ १-२ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

न ह्येवं सतीति ॥ भवतामधिकारसम्पत्तौ सत्यां अवचने कारणं न ह्यस्तीत्यर्थः ॥ १-२ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

यद्यपि यूयं प्रागेव तपआदिसम्पन्ना इति ॥ एतद्भूय एव तपसेत्याद्युक्तेस्तात्पर्यवचनम् । इन्द्रियमात्रनिग्रहवाचिना तपः शब्देन गुह्येन्द्रिय- निग्रहरूपब्रह्मचर्यवाचिनो ब्रह्मचर्यशब्दस्यागतार्थत्वाय विशेषतोऽपीत्युक्तम् । उत्तरत्र पृच्छतेति लटो विद्यमानत्वात्तदनुसारेण संवत्स्यथेति लृडपि लडन्तत्वेन व्याख्यातः । 'सर्वं ह वो वक्ष्यामः' इत्यत्र हशब्दस्य तत्रैव सम्बन्धे किलार्थत्वा- सम्भवाद्व्यत्यस्तान्वये च तान्ह स ऋषिरुवाचेत्यत्र विद्यमानेन पौनरुक्त्यमित्यत आह- न ह्येवं सतीति ॥ १-२ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

"सर्वं ह वो वक्ष्यामः" इत्यत्र हशब्दस्य तद्वाक्य एव सम्बन्धे किलार्थकत्वासम्भवात् व्यस्तान्वये चतान्ह स ऋषिःइत्यत्र विद्यमानेन पौनरुक्त्यापत्तेरित्यत आह- न ह्येवं सतीति ॥ १-२ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

तानागतान् ह किल स ऋषिः पिप्पलाद उवाच । किमिति ? यद्यपि यूयं प्रागेव तपआदिसम्पन्नाः, तथाऽपि भूयः पुनरेव तपसा सर्वेन्द्रियनिग्रह- लक्षणेन विशेषतोऽपि ब्रह्मचर्येण श्रद्धायाऽस्तिक्यनिष्ठया युक्ताः संवत्सरमेकमस्मान् परिचरन्तः संवत्स्यथ सम्यग्वसत । ततो यथेष्टं प्रश्नान् प्रष्टव्यार्थान् पृच्छत । ततो युष्माभिः पृष्टं प्रतिवक्तुं यदि वयं विज्ञास्यामस्तर्हि सर्वं वो युष्मभ्यं वक्ष्याम इति । न ह्येवं सति अवचने कारणमस्तीति हशब्दः ॥ १-२ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

तानागतान्किल स ऋषिः पिप्पलाद उवाच, किमिति । यद्यपि यूयं प्रागेव तपआदिसम्पन्नाः तथापि भूयः पुनरेव तपसा सर्वेन्द्रियनिग्रहलक्षणेन, विशेषतोऽपि ब्रह्मचर्येण श्रद्धया आस्तिक्यनिष्ठया च युक्ताः संवत्सरमेक- मस्मान्परिचरन्तः संवत्स्यथ सम्यग्वसत। ततो यथेष्टं प्रश्नान् प्रष्टव्यार्थान् पृच्छत । युष्माभिः पृष्टं च प्रतिवक्तुं यदि वयं विज्ञास्यामः, तर्हि सर्वं वो युष्मभ्यं वक्ष्याम इति । न ह्येवं सत्यवचने कारणमस्तीति हशब्दः ॥ १-२ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

ततः मुनिः किमकार्षीदित्यत आह- तान्हेति ॥ तान् भरद्वाजादीन् हेत्यानन्दपूर्वकं स ऋषिः पिप्पलाद उवाच । किमित्याहेत्याह - भूय एवेति ॥ भूय एव पुनरेव अनेन पूर्वमेव तपआदिमत्वमस्तीति ज्ञायते । तपसा ब्रह्मचर्येण सर्वेन्द्रियनिग्रहलक्षणेन । श्रद्धया आस्तिक्यनिष्ठया युक्ताः सन्तः यूयं एकसंवत्सर- पर्यन्तमस्मान् परिचरन्तः संवत्स्यथ सम्यक् वसत । अनेन गुरुशुश्रूषावत्त्वं सूचयति । 'नासंवत्सरवासिने प्रब्रूयात्' इति श्रुतावुक्तत्वादिति भावः । न केवलं वसतिरेव ज्ञानसाधिकेत्यत आह- यथाकाममिति ॥ ततः यथाकामं यथेष्टम् । कमि- रिच्छार्थेऽव्ययीभावः । प्रश्नान् प्रष्टव्यान् 'अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते' इत्युक्तेः। पृच्छत मां प्रतीति शेषः । स्वगर्वपरिहारपूर्वमाह - यदीति ॥ युष्मत्पृष्टं प्रतिवक्तुं यदि वयं विज्ञास्यामः विज्ञानवन्तो भविष्यामः बहुवचनेन प्रतिवचने सामर्थ्यं द्योतयति। तर्हि युष्मत्पृष्टं सर्वं वो युष्मभ्यं युष्मान् वा वक्ष्यामः। हेति अवचने कारणाभावद्योतकम् ॥ १-२ ॥