अथ कबन्धी कात्यायन उपेत्य पप्रच्छ
प्रजानां प्रजननं कुतः ? इति कबन्धिप्रश्नः
उपनिषत्
अथ कबन्धी कात्यायन उपेत्य पप्रच्छ । भगवन् कुतो ह वा इमाः प्रजाः प्रजायन्त इति । तस्मै स होवाच । प्रजाकामो ह वै प्रजापतिः । स तपोऽतप्यत ॥ ३ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
अथ तदुक्तनियमानुष्ठानसमनन्तरम् । तेषां मध्ये कबन्धी कात्यायन उपेत्योपसदनं कृत्वा पिप्पलादं पप्रच्छ । पाठक्रमादर्थक्रमो बलीयानिति पश्चादुक्तस्यापि कात्यायनस्य प्रश्नः प्रतिवचनं च प्रथममुक्तम्। एवमन्यत्रापि द्रष्टव्यम् । तञ्च क्रमं तत्रैव दर्शयिष्यामः । किमिति? भगवन्, कुतो निमित्तकारणात् पुरुषादिमा देवाद्याः सर्वाः प्रजा उत्पद्यन्त इति । ह वा इति प्रजानां प्रजननस्य सुप्रसिद्धताद्योतकौ निपातौ । सुप्रसिद्धं तावत् प्रजानां प्रजननम्। नचैतदन्तरेण कारणमुपपन्नम् । सर्वदाऽपि प्रसङ्गात् । नचाचेतनैरेव कारणैः । चेतनानधिष्ठितानां कार्यकरत्वादर्शनात् । नच जीवोऽधिष्ठाता । अस्वतन्त्रत्वात् । नापीश्वरः । तदनुपलम्भादिति प्रश्नाशयः । यद्यपि न भगवान् सर्वेषां प्रत्यक्षगोचरो वर्तमानः कुलाल इव घटं, प्रजा जनयति । तथाऽपि जगत्कारणीभूतान् प्राणादीनुत्पाद्य तेष्वाविश्य तान्निमित्तीकृत्य निखिलाः प्रजा जनयतीति न कश्चिद्विरोध इत्यभिप्रायवांस्तस्मै पृष्टवते कात्यायनाय स पिप्पलादः किलोत्तरमुवाच । किमिति ? प्रजानां ब्रह्मादीनां पतिः पालकः परमेश्वरः कल्पादौ किलाऽऽत्मनः प्रजाकामो देवादिप्रजावत्त्वमात्मन इच्छन्नवर्तत । अथ स सर्वज्ञोऽपि लोकविडम्बनाय तपोऽतप्यत कर्तव्यमन्वालोचयत् ॥ ३ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
'प्रजाकामो वै प्रजापतिः' इत्यादीनां कबन्धिप्रश्नपरिहारवाक्याना- मभिप्रायं तु 'प्रजानां पालनाद्विष्णुः' इत्यादिना प्रजापतिसंहितावाक्येन प्रदर्शयति । अत्र तपस्तपनम् । जगत् सृजामीत्यालोचनम् ॥ १-३ ॥
श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका
'पाठक्रमादर्थक्रमो ज्यायान्' इत्यत्र कबन्धी हि सृष्टिप्रकारं पृच्छति। तदन्ये तु ‘कत्येव देवाः प्रजाः विधारयन्त' इत्यादिना सृष्ट्युत्तर - कालीनपालनादिप्रकारान् पृच्छन्ति । अत एतत्प्रश्नप्रतिवचनयोरादित्वमित्यर्थः । 'किमिति' इत्यत्र किमिति पृष्टवानिति शेषः । 'चेतनानधिष्ठितानाम्' इत्यत्र चेतनेनापरिगृहीतानामित्यर्थः । अवर्ततेति योग्यक्रियाभिधानम्॥ ३ ॥
श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
ननु कुतो निमित्तकारणात् प्रजा जायन्त इति निमित्तकारणप्रश्नस्य किं बीजम् । कियन्ति च कारणानि कानि चात्र पक्षे बाधकानि यतः कुतः कस्मात्कारणादिति प्रश्नः सङ्गच्छत इत्यतः तदेतत्सर्वं प्रदृश्य प्रश्नार्थमाह- हवा इत्युपक्रम्य सुप्रसिद्धं तावदित्यादिना ॥ प्रजाकामो वै प्रजापतिरिति श्रुतौ आत्मनः प्रजाः देवादीन् यत्किञ्चिदर्थं कामयत इत्यर्थः प्रतीयते । नचासौ युक्तः । अद्यापि देवानामनुत्पन्नत्वेन यत्किञ्चित्प्रयोजनोद्देशेन तेषां कामनायोगादित्यतो व्याख्याति - देवादिप्रजावत्त्वमात्मन इच्छन्नवर्ततेति ॥ १-३ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
|| उपसदनमिति ॥ विनयपूर्वकं समीपेऽवस्थानमित्यर्थः । ननु 'सुकेशा च भारद्वाज' इति प्रथमोक्तस्य प्रश्नप्रतिवचनेऽनुक्त्वा अन्तिमोक्तस्य कात्यायनस्य प्रथमतः प्रश्नप्रतिवचनस्य कथने किं कारणमित्यत आह- पाठक्रमादिति ॥ पूर्वमीमांसायां पञ्चमाध्याये अर्थाच्चेत्यधिकरणे अग्निहोत्रं जुहोति यवागुं पचतीति विषयवाक्येऽयं न्याय उक्तः। तथाहि इतः अधिकरणे समिधो यजति, तनूनपातं यजतीत्युक्तपञ्चप्रयाजेषु एतद्वाक्यपाठक्रमेणैव क्रमः प्रतिपादितः। वाक्यक्रमेण क्रमेणैव बुद्ध्यारूढानां प्रयाजानां प्राप्तक्रमस्य त्यागे कारणाभावात्। तथाग्नि-होत्रहोमयवागूपाकयोरपि वाक्यक्रमेण क्रमः प्राप्नोति उक्तन्यायसाम्यादिति पूर्वपक्षिते अर्थाच्चेति जैमिनिना सिद्धान्ततितम् । अर्थात् प्रयोजनवशादित्यर्थः । अग्निहोत्रहोमस्य द्रव्यसापेक्षत्वेन यवागूपाकस्य प्रतिपत्तिसापेक्षत्वेन अग्निहोत्रहोमे द्रव्यान्तरकल्पनाप्रसङ्गात् । यवागूपाकस्य अपूर्वार्थकत्वकल्पनाप्रसङ्गाद्वरं पूर्वं यवागूपाकः पश्चादग्निहोत्रहोम इति कल्पनम्। एवं पञ्चमादिप्रश्नानां षष्ठप्रश्न - प्रतिवचनादिसापेक्षत्वात् प्रथमतः वेदपुरुषेण षष्ठप्रश्नप्रतिवचनाद्यनुवादः कृत इति भावः ।। एवमन्यत्रापीति ॥ भार्गववैदर्भ्यादि- प्रश्नादिषु षट्सु उक्तसापेक्षत्वं वक्ष्यमाणटीकाकारोक्तरीत्या ज्ञेयम्। तञ्च क्रमं सापेक्षिकत्वरूपार्थिकक्रमं तत्र तत्तत्सापेक्षकत्वरूपार्थिकादिक्रमं तत्र सङ्गतिकथनसमय इत्यर्थः ॥ १-३ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
देवादिप्रजा अन्यार्थं कामयतीति प्रजाकाम इत्युक्तम् । अद्याप्यनुत्पन्नदेवानां यत्किञ्चिदर्थं कामनायोगादित्यतो व्याचष्टे - देवादिप्रजा- वत्त्वमिति ॥ १३ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
|| उपसदनमिति ॥ विनयपूर्वकं समीपेऽवस्थानमित्यर्थः । ननु सुकेशा च भारद्वाज इति प्रथमोक्तस्य ऋषेः प्रश्नप्रतिवचनेऽनुक्त्वान्तिमस्य कात्यायनस्य प्रथमतः प्रश्नप्रतिवचनकथनं किमर्थं कृतमित्यत आह- पाठ- क्रमादिति ॥ पूर्वमीमांसायां प्रथमेऽध्याये अर्थाच्चेत्यधिकरणेऽग्निहोत्रं जुहोति यवागूं पचति इत्युदाहृत्यायं न्याय उदाहृतः । तथाहि — क्रमेण वा नियम्येत क्रत्वैकत्वे तद्गुणत्वादित्यधिकरणे 'समिधो यजति' 'तनूनापातं यजति' 'इडो यजति' 'बर्हिर्यजति' ‘स्वाहाकारं यजति' इत्युक्तपञ्चप्रयाजेषु वाक्यपाठक्रमेणैव क्रमः प्रदर्शयिष्यते । वाक्यक्रमेणैव बुद्ध्यारूढानां प्राप्तक्रमस्य त्यागे कारणा- भावात्। तथाग्निहोत्रहोमयवागूपाकयोरपि वाक्यक्रमेणैव क्रमः प्राप्नोति । उक्त- न्यायसाम्यादिति पूर्वपक्षं प्रापय्यार्थाच्चेति जैमिनिना राद्धान्तितम्। अर्था- त्प्रयोजनवशादित्यर्थः। अग्निहोत्रहोमस्य द्रव्यसापेक्षत्वेन यवागूपाकस्य प्रति- पत्तिसापेक्षत्वेनाग्निहोत्रहोमे द्रव्यान्तरकल्पनाप्रसङ्गाद्यवागूपाकस्यापूर्वार्थत्व- कल्पनाप्रसङ्गाच्च वरं पूर्वं यवागूपाकः पश्चादग्निहोत्रहोम इति । एवं पञ्चमादि- प्रश्नानां षष्ठप्रतिवचनादिसापेक्षत्वात्प्रथमतो वेदपुरुषेण षष्ठप्रश्नप्रतिवचनानु- वादः कृत इति भावः ॥ एवमन्यत्रापीति ॥ भार्गववैदर्भ्यादिप्रश्नादिष्वि- त्यर्थः ॥ तं च क्रममिति ॥ सापेक्षत्वरूपार्थक्रमम् । तत्र तत्र तत्तत्प्रश्नसङ्गति- कथनावसर इत्यर्थः ॥ किमितीति ॥ किं पप्रच्छेत्याकाङ्क्षायामाहेत्यर्थः। ननु कुतो निमित्तकारणात्प्रजा जायन्त इति निमित्तकारणप्रश्नस्य किं बीजं कियन्ति च कारणानि कानि च तत्पक्षे बाधकानि येन कुतः कस्मात्कारणादिति प्रश्नः सङ्गच्छेतेत्यतस्तदेतत्सर्वं प्रदर्श्य प्रश्नार्थमाह- हवा इत्युपक्रम्य सुप्रसिद्धं तावदित्यादिना ॥ नचाचेतनैरेव कारणैरुपपन्नमित्यन्वयः । तेष्वाविश्य स्वयमेव जनयति चेत् प्राणादीनां पराधीनमपि जगत्कर्तृत्वं न स्यात् । जीवाधिष्ठित- शरीरवदित्यतः तान्निमित्तीकृत्येत्युक्तम् । हेत्यस्यार्थः किलेति । किमितीति ।
किमुवाचेत्याकाङ्गायामाहेत्यर्थः । 'प्रजाकामो ह वै प्रजापतिः' इति श्रुतौ आत्मनः प्रजाः देवादीन् यत्किञ्चिदर्थं कामयत इत्यर्थः प्रतीयते नचासौ युक्तः । अद्यापि देवादीनामनुत्पन्नत्वेन यत्किञ्चित्प्रयोजनोद्देशेन तेषां कामनायोगादि- त्यतो व्याख्याति - देवादिप्रजावत्त्वमात्मन इच्छन्नवर्ततेति ॥ १३ ॥
अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
तेष्वाविश्य स्वयमेव जनयति चेत्प्राणादीनां पराधीनमपि जगत्कर्तृत्वं न स्यात् जीवाधिष्ठितशरीरवदित्यतस्तान्निमित्तीकृत्येत्युक्तम्॥ १-३ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
अथोक्तनियमसमनुष्ठानानन्तरं तेषां मध्ये कबन्धी कात्यायन उपेत्यो- पसदनं कृत्वा पिप्पलादं पप्रच्छ । पाठक्रमादर्थक्रमो बलीयानिति पश्चादुक्तस्यापि कात्यायनस्य प्रश्नप्रतिवचनं प्रथममुक्तम् । एवमन्यत्रापि द्रष्टव्यम् । तञ्च क्रमं तत्रैव दर्शयिष्यामः । किमिति ? भगवन् कुतो निमित्तकारणात् पुरुषादिमा देवाद्याः सर्वाः प्रजाः प्रजायन्त उत्पद्यन्त इति । ह वा इति प्रजानां प्रजननस्य सुप्रसिद्धता-द्योतकौ निपातौ । सुप्रसिद्धं तावत् प्रजानां प्रजननम् । न चैतदन्तरेण कारणमुपपन्नम् । सर्वदाऽपि प्रसङ्गात् । न चाचेतनैरेव कारणैः। चेतनानधिष्ठितानां तेषां कार्यकर्तृत्वादर्शनात् । न च जीवोऽधिष्ठाता, अस्वतन्त्रत्वात् । नापीश्वरः, तदनुपलम्भादिति प्रश्नाभिप्रायः । यद्यपि भगवान् सर्वेषां न प्रत्यक्षगोचरो वर्तमानः कुलालादयो घटादिकमिव प्रजाः प्रजनयति । तथाऽपि जगत्कारणीभूतान् प्राणादीनुत्पाद्य तेष्वाविश्य तान्निमित्तीकृत्य निखिलाः प्रजाः जनयन्तीति न कश्चिद् विरोध इत्याशयवान् तस्मै पृष्टवते कात्यायनाय स पिप्पलादः किलोत्तरमुवाच । किमिति ? प्रजानां ब्रह्मादीनां पतिः पालकः परमेश्वरः कल्पादौ किलाऽत्मनः प्रजाकामो देवादिप्रजावत्त्वमात्मन इच्छन्नवर्तत । अथ सर्वज्ञोऽपि लोकविडम्बनाय तपोऽतप्यत । कर्तव्यमन्वालोचयत् ॥ १-३ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
अथ तदुक्तनियमानुष्ठानसमनन्तरं तेषां मध्ये कबन्धी कात्यायन उपेत्य गुरूपसत्तिं कृत्वा पिप्पलादं पप्रच्छ । पाठक्रमादर्थक्रमो बलीयानिति पश्चा- दुक्तस्यापि कात्यायनस्य प्रश्नप्रतिवचनञ्च पूर्वमुक्तम् । एवमुत्तरत्रापि ज्ञातव्यम्।
तञ्च क्रमं तत्रैव दर्शयिष्यामः । किमिति ? भगवन् कुतो निमित्तकारणात् पुरुषादिमा देवाद्याः प्रजाः सर्वा उत्पद्यन्त इति । हवा इति प्रजानां प्रजननस्य सुप्रसिद्धताद्योतकौ निपातौ । प्रजननस्य कर्तृसापेक्षत्वादस्मदादीनां चेतनानां अस्वतन्त्रत्वादीश्वरस्यादर्शनादिति प्रश्नाभिप्रायः । प्रत्यक्षागोचरत्वेऽपि स्वसृष्ट- प्राणादीन् निमित्तीकृत्य ईश्वर: सृजतीति श्रुतिस्मृतिसिद्धार्थाङ्गीकारे न कोऽपि विरोध इत्याशयवान् तस्मै पृष्टवते कात्यायनाय स पिप्पलाद उवाच किल किमिति ? प्रजानां ब्रह्मादीनां पतिः पालकः परमेश्वरः किलात्मनः प्रजाकामः देवादिप्रजावत्त्वं आत्मनः इच्छन्नवर्तत । अथ सर्वज्ञोऽपि लोक - विडम्बनाय स तपोऽतप्यत कर्तव्यं अन्वालोचयत् ॥ १-३ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
गुरुणा आज्ञापितास्ते किमकार्षुरित्यत आह- अथेत्यादिना ॥ अथ तदुक्तनियमानन्तरं तेषु कबन्धी कात्यायनः उपेत्य समीपमागत्य गुरुं पप्रच्छ प्रश्नं कृतवान् । पाठक्रमापेक्षया अर्थक्रमस्य बलीयस्त्वेन पश्चादुक्तस्यापि प्राथम्योक्तिर्युक्ता । एवमुत्तरत्रापि ज्ञेयम् । प्रश्नमेवाह - भगवन्निति॥ हे भगवन् पूज्य । कुतः कस्मान्निमित्तकारणात् पुरुषात् । इमा देवाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते। प्रजाजननं च सुप्रसिद्धमिति हवेत्येताभ्यामाह । उत्पत्तिश्च विना कारणमसम्भाविनी केवलाचेतनानां कारणत्वादर्शनात् । जीवस्य चास्वातन्त्र्यात् । ईश्वरस्य चानुपलब्धेरिति प्रश्नाशयः । एवं पृष्टवते तस्मै कात्यायनाय स मुनिः ति सहर्षमुवाच उत्तरं दत्तवान् । यद्यपि भगवान् न प्रत्यक्षगोचर: कुलाल इव | तथापि जगत्कारणीभूतान् प्राणादीनुत्पाद्य तेष्वाविश्य तान्निमित्तीकृत्य प्रजा उत्पादयतीति न कश्चिद्विरोध इत्याशयेन प्रतिवचनमाह गुरुः - प्रजाकाम इति । प्रजानां ब्रह्मादीनां पतिः पालकः भगवान्, कल्पादौ, प्रजाकामः प्रजासु कामो यस्येति देवादिप्रजावत्त्वमात्मन इच्छन् इत्यर्थः । अवर्तत इति शेषः । ह वै प्रसिद्धम् । स सर्वज्ञोऽपि भगवान् लोकविडम्बनार्थं तपोऽतप्यत कर्तव्य- मन्वालोचयत् । आलोचनं च तज्ज्ञानात्मकमेव ॥ १-३ ॥