मासो वै प्रजापतिः
मासाहोरात्रादिरूपकालविशेषनियामकत्वम्
उपनिषत्
मासो वै प्रजापतिः । तस्य कृष्णपक्ष एव रयिः । शुक्लः प्राणः । तस्मादेते ऋषयः शुक्ल इष्टिं कुर्वन्ति । इतर इतरस्मिन् । अहोरात्रे वै प्रजापतिस्तस्याहरेव प्राणो रात्रिरेव रयिः । प्राणं वा एते प्रस्कन्दन्ति ये दिवा रत्या संयुज्यन्ते । ब्रह्मचर्यमेव तद् यद् रात्रौ रत्या संयुज्यन्ते ॥ ९ ॥
भाष्यम्
'मासस्थितः स भगवान् पक्षयोर्वाक् च मारुतः ।
अहोरात्रे तु भगवान् प्राणो ह्यहनि वाङ् निशि ॥
दम्पत्योर्भगवान् विष्णुर्भार्यास्था तु सरस्वती ।
भर्तृस्थः स स्वयं वायुरेवं जानन्विमुच्यते ।।'
इति प्रजापतिसंहितायाम् ॥ ९ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
किञ्च मासो वै प्रजापतिः । मासलक्षणं कालमधिष्ठाय प्रजाः सृजतीति यावत्। तस्य मासस्यावयवभूतः कृष्णपक्ष एव रयिः । शुक्लपक्षः प्राणः । पक्षद्वये स्थित्वा प्रजापतेः प्रजोत्पत्तौ निमित्तीभवत इति यावत् । कुत एतत् ? यस्मात् खल्वादित्योत्तरायणाधिष्ठाता प्राणः शुक्लपक्षे स्थितः तस्मादेव ह्येते उत्तरायणेनाऽऽदित्यं जिगमिषन्तः ऋषयः शुक्लपक्षे इष्टिं यजनं निष्कामं प्राणपूजात्मकं कुर्वन्ति । यस्माच्चन्द्रदक्षिणायनाधिष्ठात्री रयिः कृष्णपक्षे स्थिता तस्मादेव हीतरे दक्षिणायनेन चन्द्रमसं प्रेप्सन्त ऋषय इतरस्मिन् कृष्णपक्षे काम्यां रयिपूजारूपामिष्टिं कुर्वन्तीति यावत् । तदेतदाह- मासस्थित इति ।। किं चाहोरात्रे इत्यादि पूर्ववद् व्याख्येयम् । तदिदमाह - अहोरात्रे त्विति ॥ एकवद्भावस्य वैकल्पिकत्वेन श्रुतावहोरात्रे इति प्रथमा । भाष्ये तु सप्तमीति ज्ञातव्यम्। ‘प्राणं वा' इत्यादिवाक्यं न साक्षात्प्रकृतेन सम्बध्यते । अतो मध्ये किमपि वक्तव्यं तदाह - दम्पत्योरिति । एवं सति तदुपपादकत्वेनास्य सम्बन्धः। ये दिवा रत्या रतिहेतुभूतया स्त्रिया संयुज्यन्ते संयोगमाचरन्ति त एते प्राणं स्कन्दन्ति निर्गमयन्ति । यत्र क्वचन परित्यजन्ति । यद्रात्रौ रत्या संयुज्यते तदिदं ब्रह्मचर्यसममेवेति तावत्प्रसिद्धम् । तेन ज्ञायते रात्र्यधिष्ठात्री रयिः स्त्रियां वर्तते, अहरधिष्ठाता प्राणः पुंसीति । तथा हि । दिवा पुरुषरेतसि प्राणस्याधिकं सन्निधानम्। न तदा देव्याः स्त्रियां तावत् । ततश्च दिवा पुरुषरेतसि स्थिते प्राणे स्त्रियं प्राप्ते यत्र क्व चासावनेन त्यो भवति । रात्रौ तु स्त्रियां देव्या अधिकं सन्निधानमिति । तदा प्राणः स्वभार्यामेव प्राप्तो वर्तत इत्युपपद्यत इति ॥ ९ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
संवत्सरादिषु दम्पत्यन्तेषु स्थितो भगवानयनादिविभागस्थौ वाक्प्राणा-वाविश्य तद्द्वारा रेतो रक्तं च जनयति । तत्संयोगादिमाः प्रजाः प्रजायन्ते । एवं रयित्राणावाविश्य विष्णुः स्वयमेव सर्वसृष्टिं करोति । नच सर्वनियन्तुर्विष्णोः कुतश्चिदुत्पत्तिः शङ्कया । नित्यमुक्तत्वश्रुतेः। अत्राप्यज इति दत्तोत्तरत्वात्। एवम्भूतं भगवन्तं जानन् विमुच्यते॥१-९॥
श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
एकवद्भावस्य वैकल्पिकत्वेनेति ॥ समासान्तविधेरनित्यत्वादिति भावः ॥ १-९ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
|| पूर्ववद् व्याख्येयमिति ॥ अहोरात्र्याख्यकालमधिष्ठाय प्रजापतिः प्रजाः सृजति । तस्यावयवभूतं अहरेव प्राणः रात्रिरेव रयिः । अहोरात्रभागद्वये स्थित्वा प्रजापतेः प्रजोत्पत्तौ निमित्तीभवत इति यावदिति पूर्ववदित्यर्थः । नचाहोरात्र इत्यत्र अहश्च रात्रिश्चेति विग्रहे प्राणितुर्याद्यन्तर्गतत्वाभावात्समाहारद्वन्द्वासम्भवः। इतरेतरयोगे तु द्विवचनेन भाव्यम् । नचेष्टापत्तिः । अहः पूर्वकरात्रिशब्दात् 'अहः सर्वैकदेशसङ्ख्यातपुण्याच्च रात्रेः' इति सूत्रेण समासान्ते टचि 'यस्येति च' इति टिलोपे 'रूपरात्रिरथन्तरेषु रुत्वं वाच्यम्' इति वार्तिकेन अहन्शब्दनकारस्य कत्वे हशि चेत्युत्वे गुणे च निष्पन्नादकारान्तादहोरात्रशब्दात्प्रथमाद्विवचनस्य 'नपुंसकाच्च' इति स्यादेशे गुणे अहोरात्र इति रूपसिद्धेरिति वाच्यम् । श्रुतौ संवत्सरो वै प्रजापतिरिति प्रथमान्तोपक्रमात्प्रथमाद्विवचनोपपत्तावपि भाष्ये संवत्सरस्थो भगवानित्यादिपूर्वग्रन्थानुसारेण सप्तम्यन्तत्वस्यापेक्षितत्वेन तत्र सप्तमीद्विवचने अहोरात्रयोरिति स्यादित्यत आह- एकवद्भावस्य वैकल्पिक- त्वेनेति ॥ सर्वो द्वन्द्वो विभाषयैकवद्भवतीति परिभाषयेति शेषः । प्रथमाद्विवचनं इतरेतरयोगस्याश्रवणादिति भावः ॥ भाष्ये त्विति ।। अहोरात्रशब्दस्य समाहारार्थकत्वेन समाहारस्यैकत्वात् । सप्तम्यैकवचने द्वौ गुणे च अहोरात्रे इति रूपमिति भावः । ननु दम्पत्योरिति भाष्यस्योपनिषदर्थप्रतिपादकत्वा- भावादसङ्गतत्वप्रतीतिं वारयितुं भाष्यं सङ्गमयति- प्राणं वा इत्यादिवाक्यमिति ॥ न साक्षात्प्रकृतेनेति ॥ प्राणस्याहरभिमानित्वकथनेन सरस्वत्या रात्रि- स्वामित्वकथनेन च सम्बन्धाभावादिति भावः ॥ एवं सतीति ॥ अहोरात्रा- भिमानिप्राणसरस्वत्योर्भर्तृभार्यादेवतात्वे सति तदुपपादकत्वेन प्राणसरस्वत्यो- रहोरात्रदेवतात्वोपपादकत्वेन प्राणं वा एते प्रस्कन्दन्तीति वाक्यस्येत्यर्थः। उपपादकत्वप्रकारं दर्शयति- दिवा रत्येत्यादिना ॥ १-९ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
अहोरात्र इति न प्रथमाद्विवचनम् । समाहारद्वन्द्व एकवद्भाव- विधानात्। नापि सप्तमी । प्रायपाठविरोधादित्यत आह- एकवद्भावेति ॥ 'सर्वेऽपि विधयः छन्दसि विकल्प्यन्त' इति वैकल्पिकत्वेनेत्यर्थः । समासा- न्तविधेरनित्यत्वादेकवद्भावस्य वैकल्पिकत्वमिति केचित् ॥ न साक्षादिति ॥ रयिप्राणयोर्भार्याभर्त्रन्तर्गतत्वं विना साक्षात्केवलं तयोरहोरात्रान्तर्गतत्वोप- पादकतया न सम्बद्ध्यत इत्यर्थः ॥ तदुपपादकत्वेनेति ॥ रात्र्यधिष्ठात्री रयिः स्त्रियां वर्तत इत्याद्युपपादकत्वेनेत्यर्थः । ननु रविप्राणयोः सदापि स्त्रीपुरुषयोः सन्निहितत्वाद्दिवा रतावपि न प्राणस्यान्यत्र परित्याग इत्याशङ्कां प्रस्कन्दतीति वचनस्वारस्यकथनपूर्वकं परिहरति- तथाहीति ।। अधिकमिति ॥ रात्र्य- पेक्षयेत्यर्थः । तदा दिवा तावत्प्राणसन्निधानं पुंसि दिवा यावत्तावदित्यर्थः ॥ अधिकमिति ॥ अहरपेक्षयाधिकमित्यर्थः । ननु रात्र्यां स्त्रियां देव्या अधिकं सन्निधानं न तदा प्राणस्य पुंसि तावत्ततश्च रात्र्यां स्त्रियां विद्यमानायां देव्यां पुरुषं प्राप्तायां यत्र वचासौ देव्यनया त्यक्ता भवतीति दोषसाम्यमेवेति चेन्न । रात्र्यां प्राणस्य पुंसि दिवा सन्निधानापेक्षया सन्निधानस्यात्पत्वेऽपि रात्र्यां स्त्रियां देवीसन्निधानापेक्षयाल्पत्वाभावेनोक्तदोषानवकाशात् । अत एव टीकायां न तदा देव्यां स्त्रियां तावदित्युक्तिवत् न तदा प्राणस्य पुंसि तावदिति नोक्तदोष इति ध्येयम् । तथेति पाठेऽपि तथाहीत्येवार्थः । यथा पुरुषे तथा पुरुषरेतसीति वा ॥ १-९ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
'संवत्सरो वै प्रजापतिः' इत्युक्तत्वात्तत्समुच्चयार्थं किञ्चे- त्युक्तम् ॥ कुत एतदिति ॥ रयिप्राणयोः कृष्णशुक्लपक्षस्थितत्वं कस्मा- त्प्रमाणात्प्रतिपत्तव्यमित्यर्थः । रयिप्राणयोः कृष्णशुक्लपक्षस्थितत्वस्य लाभाय तस्मादेत इत्यत्रैवकारमध्याहृत्य व्याख्याति - तस्मादेव हीति ॥ 'मासो ह वै प्रापतिः' इत्युक्तत्वात् किञ्चेत्युक्तम् । न केवलमेतावदिति तस्यार्थः ॥ पूर्ववद्व्याख्येय-मिति ॥ अहोरात्रकालमधिष्ठाय प्रजापतिः प्रजाः सृजति। तस्यावयवभूतमहरेव प्राणो रात्रिरेव रयिः । अहोरात्राख्यभागद्वये स्थित्वा प्रजापतेः प्रजोत्पत्तौ निमित्तीभवत इति यावदिति पूर्ववदित्यर्थः । ननु श्रुतौ 'संवत्सरो वै मासौ वै' इत्यादिप्रथमान्तोपक्रमादहोरात्रमिति प्रथमान्ते वक्तव्ये कथं सप्तमीनिर्देश इत्यत आह- एकवद्भावस्येति ॥ अयं भावः । श्रुतावहोरात्रे इति इतरेतरयोगद्वन्द्वाश्रयणेन प्रथमाद्विवचनमेव । एकवद्भावस्य 'सर्वो द्वन्द्वो विभाषयैकवद्भवति' इति परिभाषया वैकल्पिकत्वादिति । एवमेव भाष्ये प्रथमाद्विवचनमिति न भ्रमितव्यमित्याह- भाष्ये त्विति ॥ एकवद्भावेनाहोरात्र इति सप्तम्येकवचनमेव । अह्नि निशीति सप्तम्यन्तप्रायपाठादित्यर्थः । ननु-
दम्पत्योर्भगवान् विष्णुर्भार्यास्था तु सरस्वती ।
भर्तृस्थः स स्वयं वायुः ............
इति भाष्यमुपनिषदर्थाप्रतिपादकत्वादसङ्गतमिति प्रतीतिं वारयितुं सङ्गमयति- प्राणं वा इत्यादि वाक्यमिति ॥ न साक्षात्प्रकृतेनेति ॥ प्राणस्याहरभिमानित्वकथनेन सरस्वत्या रात्रिस्वामित्वकथनेन च साक्षा- त्सम्बन्धाभावादिति भावः । न सम्बद्ध्यत इत्यनन्तरमत इति शेषः ॥ एवं सतीति ॥ अहोरात्राभिमानिप्राणसरस्वत्योर्भर्तृभार्यादेवतात्वे सतीत्यर्थः । तदुपपादकत्वेन अहोरात्राधिष्ठातृप्राणसरस्वत्योर्भर्तृभार्यादेवतात्वोपपादक-त्वेन । अस्य 'प्राणं वा एते प्रस्कन्दन्ति' इत्यादिवाक्यस्येत्यर्थः । तदुपपादकत्वप्रकारं दर्शयति- ये दिवा रत्येति ॥ ननु यद्दिवा स्त्रीसङ्गस्या- योग्यदेशे मुख्यप्राणनिर्यापनप्रत्यवायहेतुत्वं यच्च रात्रौ स्त्रीसङ्गस्य ब्रह्मचर्य - समपुण्यापादकत्वं तदन्यथानुपपत्त्या प्राणसरस्वत्योर्न साक्षादहोरात्रगतत्वं सेत्स्यति । किन्नाम भर्तृभार्यागतत्वमेवेति यदुक्तं तदयुक्तम्। वाक्प्राणयोः स्त्रीपुरुषस्थितत्वस्योक्तप्रमेयोपपादकत्वे सत्येव तत्सिद्ध्येत् । नच तदस्ति । तयोः सर्वदा स्त्रीपुरुषयोः सन्निधानात्। दिवासङ्गस्यापि पापापादकत्वायोगात् । एवमपि पापहेतुत्वे रात्रावपि तत्प्रसङ्गेन ब्रह्मचर्यसाम्यानुपपत्तेश्च । किञ्च प्राणस्य पुंस्थितत्वमात्रेणाहरधिष्ठातृत्वं भारत्याश्च स्त्रीगतत्वमात्रेण रात्र्यधिष्ठातृत्वं कथं सिद्धयेदित्यतोऽभिप्रायमाविष्करोति- तथाहीत्यादिना ॥ न वयं प्राणं प्रस्क- न्दन्तीत्याद्युपपत्त्या तयोर्दम्पतीगतत्वमात्रं ब्रूमः । किन्तु तत्तत्काले तत्र तत्र विशेषतः सन्निधानं च। यस्मादहरधिष्ठाता प्राणः पुंसि वर्तते तस्मादेव स स्वाभिमन्यमाने काले तत्र विशेषतः सन्निधत्ते । यस्माद्रात्र्यधिष्ठात्री रयिः स्त्रियां वर्तते तस्मादेव सा स्वाभिमन्यमाने काले तत्र विशेषतः सन्निधत्त इति । अतो न काचिदनुपपत्तिरिति भावः । रात्रौ स्त्रियां सरस्वत्या यावदधिकसन्निधानं तदनुगुणं पुरुषे प्राणस्यापि सन्निधानं विद्यते । दिवा तु प्राणस्य पुंसि ततोऽप्यधिकं सन्निधानमित्यत उक्तमुपपद्यते ॥ १-९ ॥
अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
ननु यद्दिवा स्त्रीसंयोगस्यायोग्यदेशे मुख्यप्राणनिर्यापणेन प्रत्यवायहेतुत्वम् । यच्च रात्रौ स्त्रीसंयोगस्य ब्रह्मचर्यसमपुण्यापादकत्वं, तदन्यथानुपपत्त्या प्राणसरस्वत्योर्न साक्षादहोरात्रगतत्वं सेत्स्यति । किन्नाम भर्तृभार्यागतत्वमेवेति यदुक्तं तदप्ययुक्तम् । वाक्प्राणयोः स्त्रीपुरुषस्थितत्व- स्योक्तप्रमेयोपपादकत्वे ह्येतत्सिद्धयेत् । नच तदस्ति । तयोः सर्वदा स्त्रीपुरुष- सन्निधानाद्दिवासङ्गस्यापि पापापादकत्वायोगात् । एवमपि पापहेतुत्वे रात्रावपि तत्प्रसङ्गेन ब्रह्मचर्यसाम्यानुपपत्तेश्च । किञ्च प्राणस्य पुंसि स्थितत्वमात्रेणा- हरधिष्ठातृत्वं वा कथं सिद्धयेदित्यत आशयमाविष्करोति- तथाहीत्यादिना ।। न केवलं प्राणं स्कन्दतीत्याद्यनुपपत्त्या तयोस्तयोर्दम्पतीगतत्वमात्रमुच्यते । किन्तु तत्तत्काले तत्र तत्र विशेषसन्निधानं चैवमेवोपपद्यते । यस्मादहरधिष्ठाता प्राणः पुंसि वर्तते तस्मादेव सः स्वाभिमन्यमानकाले तत्र विशेषतः सन्निधत्ते । एवं रात्र्यधिष्ठात्री रयिरपीति । अतो न काचिदनुपपत्तिरिति भावः । रात्रौ स्त्रियां सरस्वत्या यावदधिकसन्निधानं तदनुगुणं पुरुषे प्राणस्यापि । दिवा तु प्राणस्यात्यधिकं पुंसीत्यत उक्तमुपपद्यते ॥ १-९ ॥
गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी
अहोरात्र इति न प्रथमाद्विवचनं, एकवद्भावविधानात्। नापि सप्तमी । प्रायपाठविरोधादित्यत आह- एकवद्भावेति ॥ परित्यागशब्द- स्वारस्याय रयिप्राणयोः सदापि स्त्रीपुरुषयोः सन्निहितत्वात्परित्याग एव न सम्भवतीति शङ्कापरिहाराय चोपपादयति- तथाहीति । प्राणस्य दिवारात्रौ च पुरुषे सन्निधानमिति रात्रौ रय्या संयोगे भारतीप्रस्कन्ददोष इति न चोद्या- वकाशः। ननु न प्राणस्य रात्रौ विशेषसन्निधानं दिवा पुरुषरेतसि प्राणस्याधिकं सन्निधानमित्युक्तम् । अल्पसन्निधानं तु स्त्रियां देव्यां दिवाप्यस्ति न तदा देव्याः स्त्रियां तावदित्युक्तेः। तत्कथमिदं वैषम्यमिति चेत्, रयिप्राणयोर्दिवारात्रौ च स्त्रीपुरुषयोर्यद्यप्यल्पं सन्निधानं तथापि विशेषतः दिवा रयिसन्निधानाल्पता- निरूपकं प्राणसन्निधानं अत एव तावदित्युक्तम् । रात्रौ प्राणसन्निधानाल्पता- निरूपकं तु न रयिसन्निधानं किन्तु दिवाप्राणसन्निधानमेव । अत एव दिवापुरुषरेतसि प्राणस्याधिकं सन्निधानमित्युक्तम् । तथाच रात्रौ प्राण- सन्निधानस्य दिवा सन्निधानापेक्षयाल्पत्वेपि स्त्रियां भारतीसन्निधानादनूनत्वान्न भारतीप्रस्कन्ददोष इति । तथेति पाठे यथा पुरुषे सन्निधानं तथा रेतसीति व्याख्येयम् । नचोभयत्र सन्निधानकथनं व्यर्थम् । प्रस्कन्दतीत्यत्र द्वेधा विव- क्षितम् । प्राणस्यान्यभार्यया सह रतिं सम्पादयन्तीति । यत्र क्वचन परित्यजन्तीति च तदुभयलाभार्थमवैयर्थ्यादिति ॥ १-९ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
किञ्च मास वै प्रजापतिः मासलक्षणकालमधिष्ठाय प्रजाः सृजतीति यावत् । तस्य मासस्यावयवभूतः कृष्णपक्ष एव रयिः, शुक्लपक्षः प्राणः । पक्षद्वये स्थित्वा प्रजापतेः प्रजोत्पत्तौ निमित्तीभवत इति यावत् । कुत एतत् ? यस्मात् खल्वादित्योत्तरायणाधिष्ठाता प्राणः शुक्लपक्षे स्थितस्तस्मादेव ह्येते उत्तरायणेनाऽदित्यं जिगमिषन्तः शुक्लपक्ष इष्टिं यजनं निष्कामं प्राणपूजात्मकं कुर्वन्ति । यस्माच्चन्द्रदक्षिणायनाधिष्ठात्री रयिः कृष्णपक्षे स्थिता तस्मादेव हीतरे दक्षिणायनेन चन्द्रमसं प्रेप्सन्त ऋषयः । इतर इतरस्मिन् कृष्णपक्षे काम्यां रयिपूजारूपामिष्टिं कुर्वन्तीति । किञ्च 'अहोरात्रे' इत्यादि पूर्ववद्व्याख्येयम् । एकवद्भावस्य वैकल्पिकत्वेन श्रुतावहोरात्र इति प्रथमा । मासो वा इत्यादि - प्रायपाठात् । प्राणं वेत्यादिवाक्यं न साक्षादहरेव प्राण इत्यनेन सम्बद्ध्यते । अतो मध्ये 'दम्पती वै प्रजापतिः । पतिरेव प्राणो जायैव रयिः' इत्यध्याहार्यम् । एवं सति तदुपपादकत्वेनास्य सम्बन्धः । ये दिवा रत्या रतिहेतुभूतया स्त्रिया संयुज्यन्ते संयोगमाचरन्ति त एते प्राणं प्रस्कन्दन्ति निर्गमयन्ति । यत्र क्वचन परित्यजन्ति । यद्रात्रौ रत्या संयुज्यन्ते तदिदं ब्रह्मचर्यसममेवेति प्रसिद्धम् । तेन ज्ञायते रात्र्यधिष्ठात्री रयिः स्त्रियां वर्ततेऽहरधिष्ठाता प्राणः पुंसीति । तथा हि- दिवा पुरुषरेतसि प्राणस्यधिकं सन्निधानं, न तदा देव्यास्स्त्रियां तावत् सन्निधानम्। तथा च दिवा पुरुषरेतसि स्थिते प्राणे स्त्रियं प्राप्ते यत्र क्वचनासावनेन त्यक्तो भवति । रात्रौ तु स्त्रियां देव्या अधिकं सन्निधानमिति तदा प्राणः स्वभार्यामेव प्राप्तो भवति इत्युपपद्यत इति ॥ १-९ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
किञ्च मासौ वै प्रजापतिः मासलक्षणकालमधिष्ठाय प्रजापतिः प्रजाः सृजतीति यत् तस्य मासस्य अवयवभूतः कृष्णपक्ष एव रयिः, शुक्लपक्षः प्राणः । पक्षद्वये स्थित्वा प्रजापतेः प्रजोत्पत्तौ निमित्तीभवतीति यावत् । कुत एतत् ? यस्मत्खल्वादित्यो दक्षिणोत्तरायणयोरधिष्ठाता प्राणः शुक्लपक्षे स्थितः तस्मादेव ह्येते उत्तरायणेनादित्यं जिगमिषन्तो ऋषयः शुक्लपक्षे इष्टिं यजनं निष्कामं प्राणनाथपूजात्मकं कर्म कुर्वन्ति । यस्माच्चन्द्रः दक्षिणाधिष्ठात्री रयिः कृष्णपक्षे स्थित्वा तस्मादेव हीतरे दक्षिणायनेन चन्द्रमसं जिगमिषन्तः ऋषयः इतरस्मिन् कृष्णपक्षे काम्यां रयिगतभगवत्पूजारूपामिष्टिं कुर्वन्ति । किञ्चाहोरात्रे प्रजापतिः इत्यादि पूर्ववद्व्याख्येयम् । एकवद्भावस्य वैकल्पिकत्वादहोरात्रे इति प्रथमो- पपत्तिः। अह्नः प्राणस्य रात्र्याः भारत्याः अधिष्ठातृत्वमुपपादयति- ये दिवेति ॥ तस्य सम्यगुपपादकत्वसिद्धये पतिर्वै प्रजापतिः तस्य द्वन्द्वस्य पतिरेव प्राणो जाया रयिरिति ये दिवेत्यतः प्राक् शेषः । तथाच ये दिवेत्येतत् शेषस्याप्युपपादकं ज्ञातव्यम् । दिवा प्राणाधिष्ठाता । अह्नि प्राणाधिष्ठिताः पतयः रत्या रतिहेतुभूतया स्वस्त्रिया संयुज्यन्ते संयोगमाचरन्ति । त एव प्राणं प्रस्कन्दन्ति । स्वशरीरा- निर्गमयन्ति अल्पायुषो भवन्तीत्यर्थः । रात्रौ भारत्यधिष्ठितायां निशि ये रत्या संयुज्यन्त इति यावत् । तद्ब्रह्मचर्यसममेव ॥ १९ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
प्रकारान्तरेण प्रजापतेः प्रजासर्जनमाह- मास इत्यादिना ॥ मासः मासलक्षणकालमधिष्ठाय प्रजापतिर्भगवान् प्रजाः सृजतीति शेषः । वै प्रसिद्धमेतत् । तस्य मासस्यावयवभूतः कृष्णपक्ष एव रयिः शुक्लः शुक्लपक्षः प्राणः मुख्यः पक्षद्वये स्थित्वा प्रजोत्पत्तौ प्रजापतेः निमित्तीभवत इत्यर्थः । कथमेतत् ज्ञायत इत्यत आह- तस्मादित्यादिना ॥ यस्मात् आदित्योत्तरायणाधिष्ठाता प्राणः शुक्लपक्षे स्थितः । तस्मादेवैते ऋषयः ज्ञानिनः । उत्तरायणेन आदित्यं जिगमिषन्तः शुक्लपक्षे इष्टिं निष्कामयजनं प्राणपूजात्मकं कर्म कुर्वन्ति । इतरे काम्यकर्मिणः, इतरस्मिन् । चन्द्रदक्षिणायनाधिष्ठात्री रयिः कृष्णपक्षे स्थिता । अतो सकामां रयिपूजारूपां इष्टिं कुर्वन्तीत्यनुषङ्गः । प्रकारभेदेन प्रजापतेः प्रजासर्जनमाह- अहोरात्र इति ॥ एकवद्भावस्य वैकल्पिकत्वात् प्रथमाद्विवचनम् । प्रजापति- र्भगवान् वासुदेवाख्यः अहोरात्रे वै अहोरात्रलक्षणं कालमधिष्ठाय। प्रजाः सृजतीति शेषः । वै प्रसिद्धम् । तस्य प्रजापतेः अहरेव दिनमेव प्राणः मुख्यः । रात्रिरेव रयिः भारती । अहोरात्रे स्थित्वा प्रजोत्पत्तौ निमित्तीभवत इत्यर्थः । भारतीप्राणयोः अहोरात्राभिमानित्वेन तदानीं कर्तव्याकर्तव्यपुरःसरं दम्पतीस्थितत्वमप्यनयो- रस्तीत्याह-प्राणं वा एत इति । एनं प्राणं प्रस्कन्दन्ति यत्र कुत्रचित्परित्यजन्ति । यद्यस्मात् रात्रौ रत्या रतिसाधनभूतया स्त्रिया संयुज्यन्ते संयोगं कुर्वन्ति । तत्कर्म ब्रह्मचर्यमेव ब्रह्मचर्यसममेव । अहरधिष्ठातुः प्राणस्य पुंसि स्थितत्वं रात्र्यधिष्ठात्र्याः भारत्याः स्त्रियां स्थितत्वं चोक्तं भवति । अतो दिवा भार्यायां भारतीसन्निधानाभावात् पुरुषरेतः स्थितस्य प्राणस्य त्यागः यत्र कुत्रचित् कृते भवतीति दिवासंयोगो निषिद्ध इति भावः । रात्रौ तु देव्याः स्त्रियां वर्तमानत्वात् प्राणः स्वभार्यामेव गत इति तद् ब्रह्मचर्यमेवेति । तदेतत् भाष्यकृतोक्तं 'भार्यास्था तु सरस्वती' इत्यादि ॥ १-९ ॥