अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ

अथ चतुर्थः प्रश्नः

सौर्यायणीकृतः स्वप्नविषयः प्रश्नः

उपनिषत्

अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ । भगवन्नेतस्मिन् पुरुषे कानि स्वपन्ति कान्यस्मिन् जाग्रति । कतर एष देवः स्वप्नान् पश्यति । कस्यैतत् सुखं भवति कस्मिन्नु सर्वे सम्प्रतिष्ठिता भवन्तीति ॥ १ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

॥ अथ हैनं सौर्यायणीति । उक्तं प्राणादेरखिलस्यापि जगतो भगवदधीनत्वम्। तन्न केवलं जाग्रदवस्थायाम् । किन्नाम, स्वप्नसुषुप्त्योरपीति दर्शयितुमुत्तरो ग्रन्थः । भगवन्, एतस्मिन् पुरुषे शरीरिणि स्वपति सति कानि दैवानि स्वपन्ति, स्वव्यापारादुपरमन्ते? भाव्यं हि केषाञ्चित् व्यापारोपरमेण । अन्यथा स्वापस्यैवासम्भवात्। कानि दैवान्यस्मिन् पुरुषे 'स्वपति जाग्रति स्वव्यापारं कुर्वन्ति ? सर्वेषामुपरमे शरीरावस्थानासम्भवात् । स्वापोऽपि द्विविधः । स्वप्न- सुषुप्तिभेदात् । तत्र स्वप्ने य एष देवः स्वप्नान्स्वप्नस्थान्पदार्थान्पश्यति स कतरः ? सर्वेन्द्रियाणामुपरतत्वात्केनेन्द्रियदेवेन जीवः स्वाप्नान् पदार्थाननुभवती- त्यभिप्रायः । सुषुप्तौ च यत् सुखं भवति तत्कस्य ? तदोपरतकरणस्य जीवस्य विषयसंसर्गाद्यभावेन कथं सुखानुभवो घटते इत्याशयः । एते च स्वपन्तो जाग्रतः स्वप्नाद्यवस्थावन्तश्च न तावत्स्वतन्त्राः । बहूनां तदयोगात् । नच जीवाधीनाः । क्वचिदतद्वशत्वस्यापि दर्शनात् । नच मुख्यप्राणाधीनाः । तस्यापि जीवत्वेना- नवस्थितेरसम्भवाच्च । अतः पराधीना एते सर्वे कस्मिन्सम्प्रतिष्ठिता भवन्ति ? परमेश्वरश्चेत्तदाश्रयः, तत्कुत इत्यभिप्रायः ॥ १ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

' कतर एष देवः' इत्यत्रैष जीवो यस्य बलात् स्वप्नान् स्वाप्नपदार्थान् पश्यति स कतर इत्यर्थः । टीकावाक्ये तु स्वाप्नस्थान् पदार्थान् पश्यति दर्शयतीत्यभिप्रेतम् । अत एवोत्तरवाक्ये केनेन्द्रि देवेनेत्युक्तम् । 'अनवस्थितेरसम्भवाच्च' इत्यत्र नियामकजीवपरम्पराग्रहणे अनवस्थितेः ।मुख्यप्राणस्यापि जीवत्वाविशेषेणासम्भवाच्चेत्यर्थः । ' तत्कुतः' इत्यत्र तत् परमेश्वराधीनत्वं कुतः कस्मात् प्रमाणाद्वेदितव्यम् । प्रत्यक्षेण तस्यादर्शनादिति भावः ॥ १ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

स्वेति ॥ स्वस्य मुख्यप्राणस्येत्यर्थः । तत्कस्येति ॥ अधि- करणप्रश्नः । कस्य विषयस्य सकाशात् । एतदुत्तरं परब्रह्मलिङ्गेन सुखं भवतीत्युक्त्या परब्रह्मरूपविषयसम्बन्धादिति भविष्यति । अतद्वशत्वस्य जीववशत्वाभावस्य। जीवस्य जीवान्तरनियामकत्वेनानवस्थितिः । सति राज्ञि मण्डलेशाधीनत्वं प्रजानामिव सतीश्वरे मुख्यप्राणाधीनत्वं तच्छक्त्या तेषां युक्तं स्यात्। न ह्येष ईश्वरस्त्वया अङ्गीकृतः । अत इतरजीवान् प्रति तत्सजातीयस्यापि प्राणस्य नियोजकत्वं सम्भवतीत्यसम्भवः । सुप्तिगस्य जीवस्येत्यर्थः ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

|| अथ हैनं सौर्यायणी ॥ स्वपतीति । इयं शेषोक्तिः । जाग्रदवस्थायां पुरुषशरीरे। इन्द्रियदेवतानामुपरमाभावात् येष्वप् शञि इत्यतः शतृप्रत्ययः । स्वापं प्राप्तवति सतीत्यर्थः । तत्त्वानीति तत्त्वाभिमानीनि दैवतानीत्यर्थः । जाग्रतीति ॥ जागृ निद्राक्षय इत्यतः शतृप्रत्यये प्रथमाबहुवनजसः नपुंसकत्वात्श्यादेशे 'जक्षित्यादयः षट्' इति अभ्यस्तसंज्ञकत्वात् 'नाभ्यस्ताच्छतुः' इति नुमुनिषेधात् 'नपुंसकस्य झलचः' इति न नुम् । ननु स्वापकाले गाढनिद्रायुतत्वेन पदार्थ-दर्शनाभावात् कथं स्वाप्नपदार्थदर्शनप्रश्न इत्यत आह- स्वापो द्विविध इति ।। ननु शरीरिणो जीवस्यैव स्वप्नद्रष्टुत्वादिन्द्रियदेवानां तदभावात् । कतर एष देवः स्वप्नान्पश्यतीति प्रश्नासम्भवमाशङ्क्य प्रश्नाभिप्रायमाह- सर्वेन्द्रियाणामिति ॥ तथा च पश्यतीत्येतदन्तर्णीतण्यर्थकमित्युक्तं भवति । योजना तु कतरः क इन्द्रियाभिमानी देव: स्वप्नावस्थापन्नं जीवं स्वाप्नान् स्वप्नपदार्थान् पश्यति दर्शयतीति ॥ बहूनां तदयोगादिति। एकस्मिन् शरीरे बहूनां स्वातन्त्र्ये एकस्मिन् क्षणे अनेक- विरुद्धादिक्रियाप्राप्त्या शरीरमुन्मथ्येतेति भावः ॥ क्वचिदतद्वशत्वस्यापीति ॥ निद्रारोगादिप्रतिबद्धेन्द्रियदेवानां जीवापेक्षितज्ञानाद्यकरणादिति भावः ।अनवस्थितेरिति जीवस्य मुख्यप्राणस्य जीवान्तरनियामकत्वे अस्येश्वरनियम्यत्वा- नङ्गीकारे जीवान्तरनियम्यत्वमङ्गीकार्यम् । तस्याप्येवमित्य - नवस्थानात् । मुख्यप्राणस्यापि जीवत्वाविशेषाज्जीवनियामकत्वासम्भवा - च्चेत्यर्थः ॥ ४-१ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

ननु स्वप्ने मनसोऽनुपरतत्वेन स्वाप्नार्थसंसर्गेण सुखसम्भवा- त्कस्यैतत्सुखं भवतीत्याक्षेपोपपत्तिरित्यतो नायमाक्षेपः स्वप्नविषयः किन्तु सुषुप्तिविषय इति भावेन कानि स्वपन्तीति स्वापपदेनोभयोरपि प्रकृतत्वेन क्रमेण स्वप्नसुषुप्तिविषये विशेषप्रश्नो घटत इत्याह- स्वापो द्विविध इति ॥ विषय- संसर्गादिति ॥ आदिपदेन मनः परिणामसुखाभावेन चेति गृह्यते ॥ क्वचिदिति ॥ जिघृक्षोर्ग्रहणाभावादस्वातन्त्र्यस्यानुभवसिद्धत्वादिति भावः ॥ ४-१ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

|| अथ हैनं सौर्यायणी ॥ नन्वत्र क्रियमाणाः प्रश्नाः सर्वेऽप्य- नुपपन्नाः । केषाञ्चिद्व्यापारोपरमः केषाञ्चिन्नेति सिद्धे कानि स्वपन्ति कानि जाग्रति चेति प्रष्टव्यत्वाज्जीवस्यैव स्वप्नदर्शनं सुखञ्चेत्यनुभवसिद्धत्वेन सिद्धार्थतापातात्। सर्वेषामन्याधीनत्वे सिद्धे किमधीना इति प्रष्टव्यत्वाद्दर्शन- श्रवणादीनां इन्द्रियव्यापाराणां जीवप्रयत्नानुविधायितादर्शनेन जीवाधीनत्वस्य वा कचिज्जीवप्रयत्नव्यतिरेकेऽपि तद्दर्शनेन तदनियमावगमेऽपि 'प्राणस्यैतद्वशे सर्वम्' इत्यादिपूर्वोक्तरीत्या मुख्यप्राणाधीनत्वस्य वा तस्यापि जीवत्वेन स्वातन्त्र्यासम्भवेयथैषा पुरुषे च्छाया' इति सर्वस्य परमेश्वरवशत्वस्योक्तत्वेन परमेश्वरवशत्वस्य वा सम्भवेन प्रश्नानवकाशाच्चेत्यतो वक्ष्यमाणपरिहारानुसारेण तदभिप्रायं वदंस्तत्र तत्रान्यथाप्रतीतिञ्च निराकुर्वन् व्याचष्टे - भगवन्नित्यादि ॥ स्वपति सतीति ॥ इयं शेषोक्तिः । जाग्रदवस्थायां पुरुषशरीरे इन्द्रियदेवानां उपरमाभावात्स्वापकाले गाढनिद्रायुतत्वेन स्वाप्नपदार्थदर्शनाभावात्कथं स्वाप्नपदार्थदर्शनप्रश्न इत्यत आह- स्वप्नो द्विविध इति ॥ ननु शरीरिणो जीवस्यैव स्वप्नद्रष्टृत्वात् इन्द्रियदेवानाञ्च तदभावात्कतर एष देवः स्वाप्ना न्पश्यतीति प्रश्नासम्भवमाशङ्कय तदभिप्रायमाह - सर्वेन्द्रियाणामिति ॥ तत्र तत्र पृथगेव वाऽवतारिका द्रष्टव्या । तथाच पश्यतीत्येतदन्तर्णीतण्यर्थकमित्युक्तं भवति । योजना तु कतर इन्द्रियाभिमानी देवः स्वप्नावस्थापन्नं जीवं स्वप्ना- स्वाप्नपदार्थान् पश्यति दर्शयतीति । विषयसंसर्गादीत्यादिशब्देन विषयानुभवो गृह्यते ॥ बहूनां तदयोगादिति ॥ एकस्मिन् शरीरे बहूनां स्वातन्त्र्ये एकस्मिन्नेव क्षणेऽनेकविरुद्धादिक्रियाप्राप्त्या शरीरमुन्मथ्येतेति भावः ॥ क्वचिदत- द्वशत्वस्यापीति ॥ निद्रारोगादिप्रतिबन्धे इन्द्रियदेवानां जीवापेक्षितज्ञानाद्य- करणदर्शनादिति भावः । ' अनवस्थितेरसम्भवाच्च नेतरः' इति सूत्रोक्तदूषण - माह - तस्यापीति ॥ तस्यापि जीवत्वेनेन्द्रियदेवादिवन्नियामकान्तरसापेक्षत्वे तस्याप्येवं तस्याप्येवमित्यनवस्थितिः। स्वातन्त्र्यञ्चदसम्भवः । अस्य जीवत्व- मेव न स्यादिति भाव इति केचित् । जीवभूतस्य मुख्यप्राणस्य जीवान्तरनिया- मकत्वेऽस्येश्वरनियम्यत्वानङ्गीकारे जीवान्तरनियम्यत्वमङ्गीकार्यम् । तस्याप्येवं तस्याप्येवमित्यनवस्थानात् । मुख्यप्राणस्यापि जीवत्वाविशेषाज्जीवनिया- मकत्वासम्भवाच्चेत्यर्थ इत्यपरे ॥ तत्कुत इति ॥ सर्वाश्रयत्वोपपादकं किमद्भुतं परमेश्वरस्य माहात्म्यमित्यर्थः ॥ ४-१ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

॥ अथ हैनं सौर्यायणी ॥ नन्वत्र क्रियमाणाः सर्वेऽपि प्रश्नाः अनुपपन्नाः । केषाञ्चिद्व्यापारोपरमः केषाञ्चिनेति सिद्धे के ते स्वपन्तो जाग्रतश्चेति प्रष्टव्यत्वात् जीवस्यैव स्वप्नदर्शनं सुखं चेत्यनुभवसिद्धत्वेन सिद्धार्थत्वापातात्। सर्वेषामन्याधीनत्वे सिद्धे किमधीना इति प्रष्टव्यत्वाद्दर्शन - श्रवणादीनामिन्द्रियव्यापाराणां जीवप्रयत्नानुविधायितादर्शनाज्जीवाधीनत्वस्य वा ।उपलब्धिवदनियमः' इति तदनियामकत्वागमेऽपि 'प्रणस्यैतद्वशे सर्वम्' इत्युक्तरीत्या मुख्यप्राणाधीनत्वस्य वा, तस्यापि जीवत्वेन स्वातन्त्र्याभावे 'यथैषा पुरुषे च्छाया' इति सर्वस्य परमेश्वरवशत्वस्योक्तत्वेन प्रश्नानवकाशा- च्चेत्यतो वक्ष्यमाणपरिहारानुसारेण तदभिप्रायं वदंस्तत्र तत्रान्यथाप्रतीतिं च पराकुर्वन्व्याचष्टे - भगवन्नित्यादिकेनेति । एष देव इत्यत्र प्रेर्यप्रेरकयो- रभेदोपचार इति भावः । विषयसंसर्गादीत्यादिपदेन विषयानुभवो गृह्यते । 'अवस्थितेरसम्भवाच्च नेतर' इति सूत्रोक्तदूषणमाह- तस्यापीति ॥ तस्यापि जीवत्वेनेन्द्रियदेवादिवन्नियामकान्तरसापेक्षत्वे तस्याप्येवं तस्याप्येवमनव-स्थितिः स्वातन्त्र्यं चेदसम्भवः । अन्यथा जीवत्वमेव न स्यादिति भावः ॥ तत्कुत इति ॥ सर्वाश्रयत्वोपपादकं किमद्भुतं परमेश्वरस्य माहात्म्यमित्यर्थः॥ ४-१ ॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

य एष देवः स्वप्नान्पश्यति कस्यैतत्सुखं भवतीति प्रश्नो न सम्भवति । स्वप्ने मनसोऽनुपरतत्वेन स्वाप्नार्थसंसर्गेण सुखोपपत्तेरित्यतः कस्यैतत्सुखं भवतीत्येतन्न स्वप्नविषयं किन्तु सुषुप्तिपरमिति भावेनाह - स्वाप इति ॥ क्वचिदतद्वशत्वस्यापि दर्शनादिति ।। जिघृक्षोर्ग्रहणाभावाद- स्वातन्त्र्यस्यानुभवसिद्धत्वादित्यर्थः ॥ ४१ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

॥ अथ हैनं सोर्यायणी ॥ उक्तं प्राणादेरखिलस्यापि जगतो भगवधीनत्वम्। तन्न केवलं जाग्रदवस्थायां किं नाम स्वप्नसुषुप्त्योरपीति दर्शयितुमुत्तरो ग्रन्थः । भगवन्नेतस्मिन् पुरुषे शरीरिणि स्वपति सति कानि दैवानि स्वपन्ति ? स्वव्यापारादुपरमन्ते । भाव्यं हि केषाञ्चिद्व्यापारोपरमेण। अन्यथा स्वापस्यैवा-सम्भावात्। कानि दैवान्यस्मिन् पुरुषे स्वपति सति जाग्रति, स्वव्यापारं कुर्वन्ति । सर्वेषामुपरमे शरीरावस्थानासम्भवात् । स्वापो द्विविधः स्वप्नसुषुप्ति- भेदात् । तत्र स्वप्ने य एष देवः स्वप्नान् स्वप्नस्थान् पदार्थान् पश्यति सः कतरः ? सर्वेन्द्रियाणामुपरतत्वात् केनेन्द्रियदेवेन जीवः स्वाप्नान् पदार्थाननुभवती- त्यभिप्रायः । सुषुप्तौ च यत्सुखं भवति तत्कस्य ? तदोपरतकरणस्य जीवस्य विषयसंसर्गाद्यभावेन कथं सुखानुभवो घटत इत्याशयः । एते च स्वपन्तो जाग्रतः स्वप्नाद्यवस्थावन्तश्च न तावत् स्वतन्त्राः । बहूनां स्वातन्त्र्यायोगात् । न च जीवाधीनाः, क्वचिदतद्वशत्वस्यापि दर्शनात् । न च मुख्यप्राणाधीनाः, तस्यापि जीवत्वेनानवस्थितेरसम्भवाच्च । अतः पराधीना एते सर्वे कस्मिन् सम्प्रतिष्ठिता भवन्ति ? परमेश्वरश्चेदाश्रयः तत्कुत इत्यभिप्रायः ॥ ४-१ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

चतुर्थप्रश्नप्रतिवचनमारभते - अथेति ॥ उक्तं प्राणादेरखिलस्यापि जगतो भगवदधीनत्वम् । तन्न केवलं जाग्रवदवस्थायां, किन्नाम ? स्वप्न- सुषुप्त्योरपीति दर्शयति- भगवन्निति । भगवन्नेतस्मिन्पुरुषे स्वपति सति कानि

तत्त्वदेवानि स्वपन्ति हि । भाव्यं हि केषाञ्चित् स्वव्यापारोपरमेण । अन्यथा स्वापस्यैवा-सम्भवात्। स्वप्नावस्थायां यो देवः स्वप्नान् स्वाप्नार्थान् पश्यति जीवाय दर्शयति । एष देवः कतरः । सुषुप्तौ यत्सुखं भवति तदेतत्कस्य भवति। उपरतकरणजीवस्य विषयभोगाभावेन सुखासम्भवात् । एते सर्वे स्वपन्तो जाग्रतः स्वाप्नाद्यवस्थावन्तश्च कस्मिन्प्रतिष्ठिता भवन्ति । इतरेषामस्वातन्त्र्याद्भवगवांश्चे- त्कथमित्याशयः॥ ४-१ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

एवं जाग्रदवस्थास्थितस्य प्राणादेरखिलजगतः आश्रयत्वं परमात्मनः प्रतिपाद्य, स्वप्नसुषुप्त्यवस्थे अपि परमात्माधीने इत्याह वेदपुरुषः- अथे- त्यादिना ॥ अथ तत्प्रश्नप्रतिवचनानन्तरं एनं ह गुरुमेव सौर्यायणी गार्ग्यः पप्रच्छ पृष्टवान् । हे भगवन् पूज्य गुरो एतस्मिन् पुरुषे जीवे स्वपति । सतीति शेषः । कानि दैवतानि स्वपन्ति । 'ञिष्वञ् शये' । स्वव्यापारादुपरमन्तीत्यर्थः । अस्मिन् पुरुषे स्वपति सति कानि जाग्रति स्वव्यापारं कुर्वन्तीत्यर्थः । 'जागृ निद्राक्षय' इति धातोः रूपम् । शरीरावस्थानार्थं केषाञ्चिदवस्थानमपेक्षितमिति भावः । यः स्वप्नान् स्वप्नपदार्थान् पश्यति । जीव इति शेषः । एष कतरः कः देवः केनेन्द्रियदेवेन जीवः स्वप्नाननुभवतीत्यर्थः । स्वापस्य स्वप्नसुषुप्तिरूपद्वैविध्यात् पूर्वं स्वप्नं पृष्ट्वा सुषुप्तिं पृच्छति । कस्येति । सुषुप्तौ यत्सुखं भवति एतत् सुखं कस्य भवति । सर्वेन्द्रियाणामुपरतत्वेन विषयसम्बन्धाभावात् कथं सुखानुभव इति भावः । सर्वे मुख्यप्राणादयः कस्मिन् सम्प्रतिष्ठिता आश्रिताः भवन्ति सर्वेषामस्वातन्त्र्यात् कस्य वशे तिष्ठन्तीत्यर्थः ॥ ४-१॥