पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते
प्राणापानसमानरूपेणावस्थानम्
उपनिषत्
पायूपस्थेऽपानं चक्षुः श्रोत्रे मुखनासिकाभ्यां प्राणः स्वयं प्रतिष्ठते । मध्ये तु समानः । एष होतद्भुतमन्नं समं नयति तस्मादेताः सप्तार्चिषो भवन्ति । हृदि ह्येष आत्मा ॥ ४ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
पृथक् पृथगित्युक्तं विव्रियते- पायूपस्थ इत्यादि ॥ पायुश्चोपस्थश्च पायूपस्थम्। तत्र मलादेरपनयनात् अपानं वायुमात्मनो रूपेणापानेनाधिष्ठितं सन्निधत्त इति सम्बन्धः। चक्षुश्च श्रोत्रञ्च चक्षुः श्रोत्रम् । तस्मिन् मुखनासिकाभ्यां सह मुखे नासिकायां चेति यावत्, प्राणः स्वयं मुख्य एव श्वासादिप्रणयनात् प्राणनाम्ना रूपेण प्राणवायुमधिष्ठाय प्रतितिष्ठति । समानस्तु समाननामानं वायुमधिष्ठाय मध्ये प्राणापानयोर्नाभिदेश इति यावत्, प्रतितिष्ठति । स चैष यस्मादेतद्भुतं भुक्तमन्नं समं यथाशरीरावयवं नयति तेन समाननामेति शेषः । किं तेन? तस्मादन्नस्य समीकरणादेताः सप्तार्चिषः सप्तज्ञानेन्द्रियवृत्तयो भवन्ति। नन्वात्मैव विषयसंसर्गेण ताननुभविष्यति । किमिन्द्रियवृत्तिभिरिति। मैवम्। हृदि ह्येष आत्मा जीवः स्वरूपेण वर्तते । अतः कथं तस्याणोर्विषयसङ्गतिः स्यादिति ॥ ४ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
आत्मानं प्रविभज्य कथं प्रतिष्ठित इत्यस्योत्तरमाह- पायूपस्थ इत्यादिना ।। अत्र द्वन्द्वसमासस्यैकवद्भावो विहितः । पायूपस्थयोरपानं प्रस्था- पयति। चक्षुःश्रोत्रयोर्मुखनासिकाभ्यां सहितयोः प्राणः स्वयं प्रतिष्ठते । मध्यदेशे समानस्तस्माद्धि जीवस्यैताः सप्तार्चिषः सप्तेन्द्रियजन्यानि ज्ञानानि भवन्ति । हृदि ह्येष परमात्मा तिष्ठति । तस्मात्समानस्तत्र वर्तते । अथवा हृदि हि जीव आत्मा तिष्ठति तस्मात्तस्य तत्रस्थात्सप्तज्ञानान्युत्पद्यन्ते ॥ ३-४ ॥
श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका
'सप्तज्ञानेन्द्रियवृत्तयः' इत्यत्र घ्राणरसनचक्षुः श्रोत्रत्वङ्गनो- बुद्धिभेदेन सप्तज्ञानेन्द्रियवृत्तयो भवन्तीत्यर्थः ॥ ४ ॥
श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
मोक्षदत्वादिलिङ्गस्य तन्नियोज्येषु मुख्यप्राणनियोज्येषु समानो नाभिदेश इति वाक्यमनुस्मृत्याह - नाभीति ॥ यथेति ॥ यस्य शरीरावयवस्य यावानन्नरसो अपेक्षितस्तावन्तमेव नयति न न्यूनं नाधिकमिति यावत् ॥ सप्तज्ञानेन्द्रियेति । मनोबुद्धिसहितानि चक्षुरादीनि पञ्चेति ज्ञानेन्द्रियाणां सप्तत्वम्। मनोबुद्धी तु द्वादशेत्युक्तेः ॥ ३-४ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
मुखनासिकाभ्यां सहेति । सहितेत्यर्थः । ततश्च मुखनासिका चक्षुः श्रोत्रञ्चेति चतुर्षु स्थलेषु प्राणस्तिष्ठतीत्यर्थः । अत्र श्रुतौ स्वयमित्युक्तेः एतच्चतुर्णामिन्द्रियाणां विशेषतो मोक्षोपयोगित्वं सूच्यते । चक्षुषः हरिप्रतिमार्शन- साधनत्वेन श्रोत्रस्य सच्छास्त्रश्रवणसाधनत्वेन मुखस्य स्वाध्यायप्रवचनकारणत्वेन नासिकायास्तुलस्यादिनिर्माल्याघ्राणनकारणत्वेन ज्ञानसाधनत्वात् । पायूपस्थयोस्तु शुद्धिकरणत्वेन साक्षाज्ज्ञानोपयोगित्वाभावेन स्वयमिति नोक्तम्। 'हृदि ह्येष आत्मा' इत्यस्य प्रकृतोपयोगादर्शनात्तत्सङ्गमयति- नन्विति ॥ ३-४ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
पायूपस्थमिति ॥ प्राण्यङ्गानां द्वन्द्वैकवद्भावविधानादिति भावः ॥ स्वयं मुख्य एवेति ॥ यद्यपि पायूपस्थेऽपि मुख्ये एव । अपानरूपेणा- पानमधिष्ठाय वर्तते। तथापि श्वासोच्छ्वासप्रवर्तकत्वं मुख्यस्यैव। दासस्य त्वदधिष्ठानत्वमात्रम्। पाय्वादौ तु मलादेरपनयनं दासकर्म । मुख्यस्य तु तन्नियामकत्वमिति भेदादेवमुक्तिः । अत एव तत्र मलादेरपनयनमपानवायुं आत्मनो रूपेणापानेनाधिष्ठितमित्युक्तम् । अत्र तु स्वयं मुख्य एव श्वासादि- प्रणयनात्प्राणनाम्ना रूपेणेत्युक्तम् । तार्किकमतावष्टम्भेन शङ्कते - नन्विति । व्याप्तत्वादिति भावः ॥ स्वरूपेणेति ॥ हस्तपादादिविशिष्टतया वर्तत इत्यर्थः ॥ अणोरिति ॥ ननु स्वरूपेणाणोरपि जीवस्य 'गुणाद्वालोकवत्' इति प्रकाशरूपेण व्याप्तत्वाद्विषयसङ्गतिर्भविष्यतीति चेत् । शरीर एव प्रकाशतो व्याप्तत्वेन विषयदेशे तदभावात् । बहिर्निर्गमनं तु स्वरूपप्रकाशस्य बाह्येन्द्रियेणेति भावः। सप्तज्ञानेन्द्रियवृत्तय इति । । चक्षुरादीनि पञ्च मनोबुद्धीत्येवं ज्ञानेन्द्रियाणि सप्तेति भावः ।। ३-४ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
| पायूपस्थमिति ॥ प्राण्यङ्गत्वादेकवद्भाव इति भावः ॥ तेन समाननामेति शेष इति ॥ कश्चैषां व्यापार इति प्रश्नपरिहारे समानोदानपदयोः प्रवृत्तिनिमित्तस्य श्रुतावुदितत्वात्तदनुसारेणापानादिपदेष्वपि तदुक्तिरिति ज्ञेयम् । किं तेनेति तस्मादित्यस्यावतारिका ॥ सप्त ज्ञानेन्द्रिवयवृत्तय इति ॥ चक्षु- रादिज्ञानेन्द्रियाणां मनोबुद्धिभ्यां सह सप्तत्वं द्रष्टव्यम् । 'हृदि ह्येष आत्मा' इत्यस्य प्रकृतोपयोगादर्शनात्तत्सङ्गमयितुं शङ्कते - नन्विति ॥ विषयसंसर्गेणेति ॥ तस्य ज्ञानरूपत्वादिति भावः ॥ ३-४ ॥
अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
कश्च तेषां व्यापार इति प्रश्नस्य परिहाराय समानोदानपदयोः प्रवत्तिनिमित्तस्य श्रुतावुदितत्वात्तदनुसारेणापानादिपदेष्वपि तदुक्तिरिति ज्ञेयम् ॥ आत्मैवेति ॥ तस्य ज्ञानस्वभावत्वादिति भावः ॥ ३-४ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
पृथक् पृथगित्युक्तं विव्रियते- पायूपस्थ इत्यादि । पायुश्चोपस्थश्च पायूपस्थम्, तत्र मलादेरपनयनादपानं वायुमात्मनो रूपेणापानेनाधिष्ठितं सन्निधत्त इति सम्बन्धः । चक्षुश्च श्रोत्रञ्च चक्षुः श्रोत्रं तस्मिन्, मुखनासिकाभ्यां सह मुखे नासिकायाञ्चेति यावत्, प्राणः स्वयं मुख्य एव श्वासादिप्रणयनात् प्राणनाम्ना स्वरूपेण वायुमधिष्ठाय प्रतिष्ठते प्रतितिष्ठति । समानस्तु समानवायुमधिष्ठाय मध्ये प्राणापानयोर्नाभिदेश इति यावत्, प्रतिष्ठिति । स एष यस्मादेतद्भुतं भुक्तमन्नं समं यथाशरीरावयवं नयति तेन समान इति शेषः । किं तेन ? तस्मादन्नस्य समीकरणाद्धेतोः सप्तार्चिषः सप्तज्ञानेनन्द्रियवृत्तयो भवन्ति । नन्वात्मैव विषयसंसर्गेण ताननुभविष्यति किमिन्द्रियवृत्तिभिरिति ? मैवम् । हृदि ह्येष आत्मा जीवः स्वरूपेण वर्तते । अतः कथं तस्याणोः विषयसङ्गतिः स्यादिति ॥ ३-४ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
पृथक् पृथगित्युक्तं विवृणोति – पायूपस्थ इति ॥ पायुश्च उपस्थश्च पायूपस्थं तत्र मलादेरपनयनादपानं स्वाधिष्ठितं संस्थापयति । चक्षुश्च श्रोत्रं च चक्षुःश्रोत्रं तत्र मुखनासिकाभ्यां सह मुखे नासिकायाञ्चेति यावत्। प्राणः स्वयं मुख्य एव श्वासादिप्रणयनात्प्राणनाम्ना रूपेण स्वपुत्रं प्राणवायुमधिष्ठाय प्रतितिष्ठति । समाननामा स्वपुत्रं समानवायुं अधिष्ठाय मध्ये प्राणापानयोः नाभिदेशे प्रतितिष्ठति । स चैष यस्मादेतद्भुतं भुक्तमन्नं समं यथा शरीरावयवं नयति तेन समाननामा । किं तेन तस्मादन्नस्य समीकरणादेताः सप्तार्चिषः सप्तज्ञाने- न्द्रियवृत्तयो भवन्ति । नन्वात्मैव विषयसंसर्गेण विषयाननुभविष्यति किं विषयीकरणलक्षणेन्द्रियवृत्तिभिरित्यत्राह - हृदीति ॥ एष आत्मा जीवः अणु- स्वरूपेण हृदि वर्तते अतः कथं तस्य विषयसङ्गतिः स्यात् ॥ ३-४ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
पृथक् पृथगित्युक्तं विवृणोति - पायूपस्थ इत्यादिना ॥ पायुश्च उपस्थश्च तत्र । प्राण्यङ्गत्वादेकवद्भावः । अपानं मलादेरपनयनादपानवायुम् । अपाननाम्न आत्मनो रूपेणाधिष्ठितं सन्निधत्त इति सम्बन्धः । चक्षुश्च श्रोत्रञ्च तस्मिन्। मुखनासिकाभ्याम् । छान्दसत्वात् । मुखे नासिकायां च, स्वयं प्राणः मुख्यप्राणः श्वासादिप्रणयनात् प्राणनाम्ना स्वरूपेण । प्राणवायुं अधिष्ठायेति शेषः । प्रतितिष्ठति । समानस्तु मध्ये समाननामा प्राणः समानवायुं अधिष्ठाय मध्ये नाभिदेशे प्रतितिष्ठति। समानशब्दप्रवृत्तिनिमित्तमाह - एष ह्येतदिति ॥ एषः समानः, हि यस्मात्, एतत् हुतं भुक्तमन्नम् । समं यथा शरीरावयवं नयति प्रापयति। तेन समान इत्यभिधानं तस्येत्यर्थः । तस्मादन्नसमीकरणादेताः सप्तार्चिषः सप्तानां ज्ञानेन्द्रियाणां अर्चिषः वृत्तयः भवन्ति । ज्ञानेन्द्रियाणि प्रज्वलितानि भवन्तीत्यर्थः। एष आत्मा जीवः हृदये स्वरूपेण वर्तते जीवस्य अणुत्वाद्विषयसम्बन्धाभावेन ज्ञानेन्द्रियवृत्तीनामपेक्षेति भावः ॥ ३-४ ॥