एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता ..
विज्ञानात्मनो वेदनस्य फलम्
उपनिषत्
एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः । स यो वैतदच्छायमशरीरमलोहितं शुभ्रमक्षरं वेदयते यस्तु सोम्य स सर्वज्ञः सर्वं भवति । तदेष श्लोक:-
विज्ञानात्मा सह देवैश्च सर्वैः
प्राणा भूतानि सम्प्रतिष्ठन्ति यत्र ।
तदेतदक्षरं वेदयते यस्तु सोम्य
स सर्वज्ञः सर्वमेवाविवेश ॥ इति ॥ ६ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
कथं सर्वस्य तदधीनतेत्युच्यते - एष हीति । चक्षुरादीनामेतेषामेष हि दर्शनादिशक्तिप्रदः । स्वयञ्च विज्ञानात्मा विज्ञानस्वरूपः सर्वज्ञ इति यावत् । पुरुष: पूर्णत्वात् । अतश्चोपपन्नं तस्य सर्वाश्रयत्वमिति । तदस्य विज्ञानात्मनो वेदनस्य फलमुच्यते - स य इति । स विज्ञानात्मा पुरुषो यो यादृशलक्षणमेवंविध- मच्छायमविद्यारहितमत एवाशरीरं, तस्मादेवालोहितं लोहितादिरूपरहितम्, शुभ्रं शुद्धं प्राकृतरूपाद्यभावेऽपि अप्राकृतशुभ्रादिरूपयुक्तं वा, अत एवाक्षरं, न क्षरतीति हे सोम्य यो वेदयते विजानाति, स सर्वज्ञः सर्वप्रधानस्य सर्वकारणस्य च परिज्ञानात्सर्वज्ञ इव। तत्सदृशत्वात्सर्वस्य सर्वज्ञ एव वा । सर्वस्यापि कर्मादेर्ज्ञानस्य फलं परमात्मज्ञानं प्राप्तमनेनेति वा ज्ञानी स्तूयते । सर्वं भवति सर्वं परिपूर्णं परं ब्रह्म तद्भवति। तद्भूत इव तत्प्रविशतीति यावत् । तदेष श्लोकः । विज्ञानात्मा विज्ञानस्वरूपो जीवः शरीरे सुखं भवतीति ह्युक्तः । प्राणाश्चक्षुरादयः तद्विषयाश्च रूपादयो भूतानि पृथिव्यादीनि तन्मात्राश्च सर्वैर्देवैरभिमानिभिः सूर्याद्यैस्सह यत्र यस्मिन्नक्षरे ब्रह्मणि सम्प्रतिष्ठन्ति सम्प्रतिष्ठन्ते, तदेतदक्षरं वेदयते विजानाति, यः पुरुषः सोम्येति कस्यचित्सम्बुद्धिः, स उक्तप्रकारेण सर्वज्ञः । सर्वं परं ब्रह्माऽविवेशै- वाविष्ट एव ध्रुवमाविशत्येवेति॥ ६ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
अथ पृथिवी चेत्याद्युत्तरवाक्यैरेतदेव सविस्तरमाह - एष हि द्रष्टेत्यादिना ॥ दर्शनादिस्वातन्त्र्यात् निमित्तात् पृथिव्यादिधारणं युक्तमेवा- स्येत्युपपादयति । विज्ञानात्मा पुरुषः विशिष्टज्ञानानन्ददेहो विष्णुः तद्वेत्ता सर्वज्ञः सर्वपुरुषार्थवान् भवति। तत्र एष श्लोकोऽस्ति | विज्ञानात्मेति ॥ स पूर्वोक्तः सर्वज्ञः सर्वमेवाविवेश। सर्वः परिपूर्णो विष्णुस्तमेव प्रविशतीत्यर्थः ॥ ४-६ ॥
श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
॥ तत्सदृशत्वादिति ॥ भगवत्सदृशत्वेन सर्वस्यापि सामा- न्यतो ज्ञातत्वात्सामान्येन सर्वज्ञ एवेत्यर्थः । यद्वा सर्वज्ञानफलस्य प्राप्तत्वा- त्सर्वज्ञ इत्युपचार इत्याशयेनाह - सर्वस्यापीति ॥ ननु जीवस्य कथं विज्ञानात्मकत्व-मित्यत उक्तम् | शरीर इति ॥ जीवे भगवच्छरीरसादृश्येन शरीरशब्दस्य प्रयुक्तत्वाज्जीवस्य विज्ञानात्मकत्वं श्रुतिभिरभिप्रैतीति गम्यत इति भावः ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
॥ सर्वप्रधानस्येति ॥ सर्वस्य कर्मदेवतादेः प्रधानस्य परमात्मनः परिज्ञानादप्रधानपरिज्ञानेन जायमानफलस्य तेन लाभात्सर्वज्ञ इति । तथा सर्वकारणस्य परिज्ञानात्सर्वमपि तत्स्रष्टृत्वादिरूपेण ज्ञायत एवेति सर्वजग- त्कारणत्वेन ब्रह्मज्ञानी उपदेशं तदर्थं विनाप्युपदेशेन सर्वज्ञ इवेति योज्यम्। सर्वज्ञ इवेत्येतदुत्तरेणापि सम्बद्ध्यते । सर्वस्य चेतनाचेतनप्रपञ्चस्य प्रामाणिकत्वेन भगवत्सदृशत्वात्सत्त्वेन भगवति ज्ञाते जगदपि तथा ज्ञायते । सर्वस्य मोक्षयोग्यस्य जनस्य चेतनत्वेन भगवत्सदृशत्वाज्ज्ञानानन्दादिरूपेण भगवति ज्ञाते सोऽपि तथा ज्ञायत एव। तथाच सर्वस्य तत्सदृशत्वाद्योऽक्षरं वेद स उपदेशं विनैव उपदेशेन सर्वज्ञ इवेति योज्यम् । एवं सर्वशास्त्रोपदेशेन सर्वजगत्कारणत्वेन सच्चिदा- नन्दरूपेण च भगवज्ज्ञानी ब्रह्मकार्यत्वादिना सत्यत्वज्ञानानन्दाद्यात्मकत्वेन च सर्वज्ञ इव शास्त्रेणैव सर्वं जानात्येव । शास्त्रोपदेशकार्यस्य ज्ञानस्य ब्रह्मज्ञानेनैव लाभादित्युक्तम् । अधुना सर्वजगत्कारणत्वेन सत्यज्ञानानन्दात्मकत्वेन च भगवज्ज्ञानी सर्वस्य तत्कार्यत्वं विना तस्य कारणत्वानुपपत्त्यनुमानेन सर्वं तत्कार्यतया जानात्येव । प्रामाणिकत्वं चेतनत्वसादृश्यलिङ्गेन सत्यज्ञानादिरूपेण जानात्येवेत्यानुमानिकं सार्वज्ञं मुख्यमित्याह- सर्वज्ञ एवेति ॥ प्रकारान्तरेण व्याचष्टे - सर्वस्यापीति ॥ सर्वज्ञ इत्यत्र मध्यमपदफले सस्य लोपः । 'ज्ञा अवबोधने' इत्यस्माद्भावे कप्रत्ययः । सर्वस्य कर्मादेः फलं ज्ञानं यस्य सर्वज्ञ इति विग्रहः । तथाच योऽक्षरं वेद स सर्वज्ञः सर्वस्य कर्मादेः फलभूतं यद्ब्रह्मज्ञानं तत्प्राप्तिमाने वायमिति न तदर्थकमवश्यकर्मादिशास्त्रनिष्ठा कार्येति मूलार्थ इति भावः ॥ तद्भूत इवेति ॥ यद्यपि भवतेः प्राप्त्यर्थत्वात् सर्वमेवाविवेशेति श्लोकानुगुण्याच्च सर्वं पूर्णं ब्रह्म प्रविशतीत्यर्थो युक्तः । तथापि भू प्राप्तावा- त्मनेपदीति वचनादात्मनेपदत्वे प्राप्त्यर्थत्वादत्र सत्तार्थकत्वमेवोपेत्य तद्भूत इवेत्युक्तम्। तद्भूतो यथा पृथङ् न दृश्यते । एवं प्रविष्टोऽपि सर्वमेव विषयजातं भवत्यनुभवतीति प्राचीनटीकायामिव व्याख्याने श्लोकानानुगुण्यमिति भावः ॥ ४-६ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
॥ इत्युच्यत इति ।। इति शङ्कायामिति शेषः । ननु द्रष्टा स्प्रष्टेत्यादिना द्रष्टृत्वाद्युक्तिप्रतीतेश्चक्षुरादीनामीश्वराधीनत्वोक्तिः कथमित्यतः द्रष्टेत्यादावन्तर्णीत- प्यर्थत्वमाश्रित्य चक्षुरादीनामित्यध्याहृत्येश्वराधीनत्वं दर्शयति- चक्षुरादीना- मिति ॥ तथाच द्रष्टा स्प्रष्टेत्यत्र चक्षुरादीनामिन्द्रियाणां तदभिमानिदेवानाञ्च दर्शितेत्यादि प्रतिपदं ज्ञेयम् । दर्शनादिशक्तिप्रद इति तु तात्पर्यार्थो बोध्यः । ननु तर्हि विज्ञानात्मेत्यत्रापि अन्तर्णीतण्यर्थत्वे द्रष्टेत्यादिना पुनरुक्तिः स्यादित्यत आह- स्वयमिति ।। विज्ञानात्मा पुरुष इत्यस्योपयोगं दर्शयति- अतश्चेति ॥ सर्वज्ञत्वात्पूर्णत्वाच्चेत्यर्थः ॥ तदस्य विज्ञानात्मन इति । स चासावयञ्च तदयं तस्य तदस्य तच्छब्देन पृथिव्याद्याधारत्वपरामर्शः । तथाच तदस्य पूर्वोक्तपृथिव्या- द्याधारस्य विज्ञानात्मनो वेदनस्य ज्ञानस्येत्यर्थः । एतमेवंविधमिति । एतदित्यस्य प्रतिपदमेवमिति । तद्व्याख्यानम् - एवंविधमिति ॥ अच्छायमविद्यारहित- मिति॥ ‘छाया त्वविद्या संप्रोक्ता' इति काठकभाष्योक्तेरिति भावः ॥ अत एवेति । संसारकारणीभूताविद्यारहितत्वादेवेत्यर्थः ।। वेदयते विजानातीति ॥ चुरादित्वा- त्स्वार्थे णिजिति भावः । सर्वप्रधानस्येति । सर्वो विष्णुस्तं जानातीति विग्रहः । विष्णोः सर्वत्वं नाम 'स्वातन्त्र्ये च विशिष्टत्वे' इत्युक्तेः सर्वप्राधान्यम् । तथाच सर्वं सर्वप्रधानं ब्रह्म जानातीति सर्वज्ञ इति तात्पर्यार्थः ॥ सर्वकारणस्येति ॥ सर्वशब्दस्य तत्कारणे ब्रह्मणि लक्षणेति भावः । यद्वा सर्वज्ञशब्दस्यैव गौणी- वृत्तिमाश्रित्याह- तत्सदृशत्वात्सर्वस्येति । ब्रह्मसदृशत्वाज्जगत इत्यर्थः । पक्षान्तरमाह - सर्वकर्मादेरिति ॥ तथाच सर्वं कर्मादिकं जानातीत्येव विग्रहः । ज्ञानिनः अशेषकर्मज्ञानस्य बाधितत्वात् सर्वशब्देनाशेषकर्मसाध्यज्ञानविषयीभूतं ब्रह्म गृह्यते। यद्यप्येकैकस्य ज्ञानिनः सर्वकर्मकरणं नास्ति तथापि बहूनां तत्कर्मजन्यज्ञानसम्भवात्सर्वकर्मजन्यज्ञानविषयत्वं ब्रह्मणः सम्भवति । तथाच सर्वज्ञत्वं नाम बह्वधिकारिकृतसर्वकर्मजन्यज्ञानविषयीभूतब्रह्मज्ञत्वमिति भावः ।प्राप्तमनेनेति ॥ ज्ञाधातोः 'आतोऽनुपसर्गे कः' इति कृतस्य कप्रत्ययस्याभिप्राय- कथनं बोध्यम् । ज्ञानिनः सर्वं भवतीति सर्वत्वकथनं बाधितमित्यतस्तत्सङ्गमयति- ज्ञानी स्तूयत इति ॥ सर्वं परिपूर्णमिति ॥ सर्वशब्दस्य विश्वशब्दपर्यायत्वात् ॥
'विश्वं पूर्णमिहोच्यते' इत्यभिधानात् सर्वशब्दस्य पूर्णार्थकत्वमिति भावः ॥ तद्भवतीति ॥ ‘स यो ह वै तदच्छायम्' इत्यादिनोक्तं परं ब्रह्म अत्र सर्वशब्देनोच्यत इत्यभिप्रेत्य तदित्यध्याहृतम् । तथापि ब्रह्मभवनस्य ब्रह्मैक्यरूपज्ञानिनः सर्वप्रमाण- बाधितत्वात् । उत्तरत्र प्रमाणवाक्ये सर्वमेवाविवेशेति व्याख्यातत्वाच्च तदनुसारेण व्याचष्टे - तद्भूत इव तत्प्रविशतीति यावदिति । तद्भूत इवेति भवतीति श्रौतपदस्य गौणीवृत्तिप्रदर्शनम् || विज्ञानात्मेति विज्ञानस्वरूपो जीव इति ॥ अत्र विशब्देन नित्यत्वोत्तमत्वरूपविशिष्टत्वं गृह्यते । आत्मशब्देन स्वरूपत्वं देहो जीवश्च गृह्यते। ज्ञानशब्दश्चानन्दाद्युपलक्षकः । तथाच नित्यं सर्वदा विद्यमानम् । दुःखाद्यसम्भिन्नम्। यत् ज्ञानानन्दादिकं स एवात्मा देहो यस्य स ज्ञानीत्यर्थः । एतस्य कुत्रोपयोग इत्यत आह- शरीरे सुखं भवतीत्युक्तमिति ॥ आविवेशेत्यस्य अतीतार्थत्वभ्रान्तिं निवारयति - ध्रुवमाविशत्येवेति || ' एष्यत्तु निश्चितं यत्तदतीतत्वेन भण्यते' इति वचनादिति भावः ॥ ४-६ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
|| कथं सर्वस्य तदधीनतेतीति ॥ कथं मुख्यप्राणद्वारा सर्वस्येश्वरनियम्यत्वं ज्ञातव्यमिति शङ्कायामित्यर्थः । ननु द्रष्टा स्प्रष्टेत्यादिना द्रष्टृत्वाद्युक्तिप्रतीतेश्चक्षुरादीनामीश्वराधीनत्वोक्तिः कथमित्यतो द्रष्टेत्यादावन्त- र्णीतण्यर्थत्वमाश्रित्य चक्षुरादीनामित्यध्याहृत्य ईश्वराधीनत्वं घटयति- चक्षु- रादीनामिति ॥ तथाच द्रष्टेत्यादौ चक्षुरादीनामिन्द्रियाणां तदभिमानिदेवतानां च दर्शयितेत्यादि प्रतिपदं बोध्यम् । दर्शनादिशक्तिप्रद इति तु तात्पर्योक्तिः । ननु विज्ञानात्मेत्यत्रापि अन्तर्णीतण्यर्थत्वे द्रष्टेत्यादिना पुनरुक्तिः स्यादित्यत आह- स्वयञ्चेति ॥ विज्ञानात्मा पुरुष इत्यस्योपयोगं दर्शयति- अतश्चेति ॥ सर्वज्ञत्वात्पूर्णत्वाच्चेत्यर्थः ॥ तदस्येति ॥ स चासावयं च तदयम् । तस्य तदस्य। तच्छब्देन पृथिव्याद्याधारत्वपरामर्शः । तथाच तदस्य पूर्वोक्तपृथिव्या-द्याधारस्यास्य विज्ञानात्मनो वेदनस्य ज्ञानस्येत्यर्थः । अच्छायमविद्यारहित- मिति || ' छाया त्वविद्या सम्प्रोक्ता' इति काठकभाष्योक्तेरिति भावः ॥ वेदयते विजानातीति ॥ चुरादित्वात्स्वार्थे णिजिति भावः ॥ सर्वप्रधानस्येति ॥ सर्वो विष्णुस्तं जानातीति विग्रहः । विष्णोः सर्वत्वं नाम 'स्वातन्त्र्ये च विशिष्टत्वे' इत्युक्तेः सर्वप्राधान्यमित्यर्थः ॥ सर्वकारणस्य चेति ॥ सर्वशब्दस्य तत्कारणे ब्रह्मणि लक्षणेति भावः । सर्वज्ञशब्दस्यैव गौणी वृत्तिमाश्रित्य पक्षान्तरमाह- तत्सदृशत्वादिति ॥ ब्रह्मसदृशत्वाज्जगत इत्यर्थः । पक्षान्तरमाह - सर्वस्यापि कर्मादेरिति ॥ तथाच सर्वं कर्मादिकं जानातीति विग्रहः । ज्ञानिनोऽशेष- कर्मज्ञानस्य बाधितत्वात्सर्वशब्देनाशेषकर्मसाध्यज्ञानविषयीभूतं ब्रह्म गृह्यते । यद्यप्येकैकस्य ज्ञानिनः सर्वकर्मकरणं नास्ति । तथापि बहूनां तत्तत्कर्मजन्य- ज्ञानसम्भवात्सर्वकर्मजन्यज्ञानविषयत्वं ब्रह्मणः सम्भवति । ततश्च सर्वज्ञत्वं नाम बह्वधिकारिकृतसर्वकर्मजन्यज्ञानविषयीभूतब्रह्मज्ञत्वमेवेति भावः ॥ प्राप्तमनेनेति ॥ ज्ञाधातोः ‘आतोऽनुपसर्गे कः' इति कर्तरि कप्रत्यय इति भावः । ज्ञानिनो ब्रह्मैक्यस्य बाधितत्वात् उत्तरत्र प्रमाणवाक्ये सर्वमेवाविवेशेति व्याख्यातत्वा- च्चेत्यत आह- तद्भूत इवेति ॥ विज्ञानस्वरूपो जीव इति ॥ अत्र विशब्देन नित्योत्तमत्वरूपविशिष्टत्वं गृह्यते । आत्मशब्देन स्वरूपं देहो जीवश्च गृह्यते । ज्ञानशब्दश्च आनन्दाद्युपलक्षकः । तथाच वि सर्वदा विद्यमानं दुःखाद्यसम्भिन्नं यज्ज्ञानानन्दादिकं स एवात्मा देहो यस्य स जीवो विज्ञानात्मेत्यर्थः । एतस्य कुत्रोपयोग इत्यत आह- शरीरे सुखं भवतीति ह्युक्तमिति ॥ सौर्यायणेर्गार्ग्यस्य प्रश्नोत्तरगतत्वात्सोम्येति तस्यैवाभिमुखीकरणमिति न भ्रमितव्यमित्याह- सोम्येति कस्यचित्सम्बुद्धिरिति ॥ अस्य श्लोकगतत्वादिति भावः। आवि- वेशेत्यस्य लिट्त्वाद्भूतार्थत्वमात्रत्वभ्रान्तिं वारयति - ध्रुवमाविशत्येवेति ॥ 'एष्यत्तु निश्चितं यत्तदतीतत्वेन भण्यते' इति वचनादिति भावः॥ ४-६ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
कथं सर्वस्य परात्मशब्दितविष्ण्वधीनत्वमित्यत उच्यते- एष हीति ॥ चक्षुरादीनामेतेषामेष हि दर्शनादिशक्तिप्रदः । स्वयञ्च विज्ञानात्मा विज्ञानस्वरूपः, सर्वज्ञ इति यावत् । पुरुष: पूर्णत्वात् । अतश्चोपपन्नं तस्य
सर्वाश्रयत्वमिति । तस्य विज्ञानात्मनो वेदनस्य फलमुच्यते - स य इति ॥ स विज्ञानात्मा पुरुषो यो यादृशलक्षणः एतमेवंविधं अच्छायमविद्यारहितम्, अत एवाशरीरं तस्मादेवालोहितं लोहितत्वादिरूपरहितम् । शुभ्रं शुद्धम् । प्राकृतरूपा - द्यभावेऽपि अप्राकृतशुभ्रादिरूपयुक्तं वा, अत एवाक्षरं, हे सोम्य यो वेदयते विजानाति सः सर्वज्ञः सर्वप्रधानस्य सर्वकारणस्य च परिज्ञानात् सर्वज्ञ इव, तत्सदृशत्वात् सर्वस्य सर्वज्ञ एव वा, सर्वस्यापि कर्मादेः ज्ञानस्य फलं परमात्मज्ञानं प्राप्तमनेनेति वा ज्ञानी स्तूयते । सर्वं भवति सर्वं परिपूर्णं परं ब्रह्म तद्भवति तद्भूत इव तत्प्रविशतीति यावत् । तदेष श्लोकः । विज्ञानात्मा विज्ञानस्वरूपो जीवः, शरीरे सुखं भवतीति ह्युक्तम् । प्राणाश्चक्षुरादयः तद्विषयाश्च रूपादयः भूतानि पृथिव्यादीनि तन्मात्राश्च सर्वैर्देवैरभिमानिभिः सूर्याद्यैः सहैव यत्र यस्मिन्नक्षरे ब्रह्मणि सम्प्रतिष्ठन्ते तदेतदक्षरं वेदयते विजानाति यः पुरुषः सोम्येति कस्यचित् सम्बुद्धिः । स उक्तप्रकारेण सर्वज्ञः सर्वं परं ब्रह्म आविवेशैवाऽविष्ट एव ध्रुवमाविशत्येवेति । ॥ ४-६॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
कथं सर्वस्य भगवदधीनतेत्यत आह- एष हीति ॥ चक्षुरादीनां एतेषां एष हि दर्शनादिशक्तिप्रदः। स्वयञ्च विज्ञानात्मा विज्ञानस्वरूपः पूर्णज्ञानस्वरूपः पूर्णज्ञानपुरुषः । ततश्चोपपन्नं तस्य सर्वाश्रयत्वम् । तज्ज्ञानफलमुच्यते - स इत्यादि ॥ स विज्ञानात्मा पुरुषो यो यादृशलक्षणः एवमेवंविधं अच्छाय- मविद्यारहितं अत एवाशरीरं प्राकृतभौतिकदेहरहितं तस्मादेवालोहितं लोहिता- दजातरूपरहितं, शुभ्रं शुद्धं जडरूपाभावेऽपि ज्ञानानन्दात्मकरूपयुक्तं वा, अत एवाक्षरं नित्यं हे सोम्य यो वेद जानाति सः सर्वज्ञः सर्वप्रधानपरिज्ञानात्सर्वज्ञ एव। सर्वं पूर्णं भवति। तदुद्भूत इव तत्प्रविशति । तदेष श्लोकः- विज्ञानात्मा विज्ञानस्वरूपो जीवः प्राणाः चक्षुरादयः तद्विषयाश्च भूतानि पृथिव्यादीनि तन्मात्राश्च सर्वैर्देवैरभिमानिभिः सूर्याद्यैः स यत्र यस्मिन्नक्षरे ब्रह्मणि सम्प्रतिष्ठितं तदक्षरं वेदयते विजानाति । यः पुरुषः सोम्येति कस्यचित्सम्बुद्धिः स उक्तप्रकारेण सर्वज्ञः सर्वं ब्रह्म आविवेशैव ध्रुवमाविशत्येवेति ॥ ४-६ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
सर्वस्यापि भगवदधीनता कथमित्यत आह— एष हीति ॥ द्रष्टा चक्षुषो दर्शनशक्तिप्रदः । स्प्रष्टा त्वचो स्पर्शनशक्तिप्रदः । एवं तत्तदिन्द्रिय- शक्तिप्रदः । स्वयं तु विज्ञानात्मा विज्ञानरूपः । सर्वज्ञ इत्यर्थः । पुरुषः पूर्णः । तस्मात् परमात्मनो भगवत एव सर्वाधारत्वं नान्यस्येति भावः। एवंवेत्तुः फलमाह— सयो हवा इति ॥ स विज्ञानरूपः पुरुषः यादृशलक्षणः । हवा निश्चयेन । एतद्गुणविशिष्टम् । अच्छायं अविद्यारहितम् । अशरीरं प्राकृतशरीररहितम् । अत एवालोहितं लोहितादिवर्णरहितम् । शुभ्रं निर्दोषम् । अक्षरं न क्षरति इति अव्ययमित्यर्थः। यस्तु अधिकार्येव हे सोम्य वेदयते व्यत्ययाद्विजानाति । स अधिकारी सर्वज्ञः सर्वप्रधानस्य भगवतो ज्ञानात्सर्वज्ञः भवति । सर्वं परिपूर्णं ब्रह्म भवति प्राप्नोति, तत्प्रविशतीत्यर्थः । स्वोक्ते श्रुत्यन्तरं प्रमाणयति - तदेष श्लोक इति ॥ तस्मिन् एषः श्लोकः मन्त्रः । प्रमाणमिति शेषः । विज्ञानात्मा जीवः । प्राणाः इन्द्रियाणि । भूतानि पृथिव्यादीनि । सर्वैः देवैः सह तत्तदभिमानिभिः सह यत्र यस्मिन्नक्षरे सम्प्रतिष्ठन्ति । तत् अक्षरं ब्रह्म । हे सोम्येति कस्यचित्सम्बुद्धिः । यस्तु अधिकारी वेदयते जानाति स सर्वज्ञः सन् सर्वं पूर्णं ब्रह्मैव आविवेश प्रविशति । तस्मात्स्वप्नादिकर्तृत्वं सर्वाधारत्वञ्च परब्रह्मणः एवेति सिद्धम् ॥ ४-६ ॥
॥ इति चतुर्थः प्रश्नः ॥ ४ ॥