रथिर्वा एतत् सर्वं यन्मूर्तं चामूर्तं च
रयिप्राणयोः मूर्तामूर्तप्रेरकत्वम्
उपनिषत्
रथिर्वा एतत् सर्वं यन्मूर्तं चामूर्तं च । तस्मान्मूर्तिरेव रयिः । अथाऽदित्य उदयन् यत् प्राचीं दिशं प्रविशति तेन प्राच्यान् प्राणान् रश्मिषु सन्निधत्ते । यद् दक्षिणां यत् प्रतीचीं यदुदीचीं यदधो यदूर्ध्वं यदन्तरा दिशो यत् सर्वं प्रकाशयति तेन सर्वान् प्राणान् रश्मिषु सन्निधत्ते ॥ ५ ॥
भाष्यम्
अमूर्तस्थ: स वायुस्तु मूर्तसंस्था सरस्वती
आदित्यस्थः स वायुस्तु प्राणानात्मनि सन्नयेत् ।
प्राच्याः प्राणास्तथेन्द्राद्या दक्षिणाश्च यमादयः ॥
प्रतीच्या वरुणाद्यास्तु सोमाद्या उत्तराः स्मृताः ।
शेषमित्राववाचीनौ वीन्द्रकामावुदक्तनौ ।
सभार्या : कोणपैः सार्धं चत्वरो दिशि दिश्यपि ॥ ५ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
प्रकारान्तरेण तयोः प्रजोत्पत्तिनिमित्तत्वमुच्यते - रयिर्वा इत्यादिना ।। एतत्सर्वं रयिर्वै प्रमाणप्रसिद्धमेतत् । किं तत्सर्वम् । मूर्तं तेजोऽबन्नलक्षणम्, अमूर्तं च प्रकृत्यादिकमिति यदुपादानकारणं राशिद्वयं तस्माद्राशिद्वयात् प्रविभक्ता या मूर्तिः यन्मूर्तं सैव रयिः । सप्तम्यर्थे वा पञ्चमी । अमूर्तं प्राण इति शेषः । प्रकृत्यादिषु स्थित्वा तेषामुपादानत्वशक्तिं प्रेरयन्तौ तौ प्रजापतेः प्रजोत्पत्तौ निमित्तं भवत इति यावत्। तदिदमाह– अमूर्तस्थ इति ।। तावाविश्येति सर्वत्र सम्बध्यते । आदित्ये स्थित्वा प्राणः प्रजोत्पत्तिनिमित्तं भवतीत्युक्तम्। तत्कथमित्युच्यते- अथेत्यादि॥ अथशब्दः प्रकृतमूर्तादिप्रसङ्गादर्थान्तरद्योतकः । आदित्यः आदित्यस्थः प्राणः उदयन् उद्गच्छन् प्राचीं दिशं प्रकाशेन प्रविशतीति यत्तेन प्राच्यान् प्राणान् स्वरश्मिषु सन्निधत्ते संनिवेशयति । स्वरश्मिभिस्तान् व्याप्नोतीति यावत् । एवं दक्षिणां दिशं प्रविशतीति यत्तेन दक्षिणान् प्राणान् स्वरश्मिषु सन्निधत्त इत्यादि योज्यम् । दिशोऽन्तरा दशदिशां मध्ये | अवान्तरदिशां प्राच्यादिग्रहणेनैव गृहीतत्वात् । अन्यथा प्राच्यान् प्राणानित्यादिबहुवचनायोगात् । यत्सर्वमिति निगमनम् ॥ ५ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
तौ रयिप्राणौ मूर्तामूर्तदेवते इत्यभिप्रायेणाह — रयिर्वा एतदिति । । यन्मूर्तं चामूर्तं चेत्युक्त्वा तस्मान्मूर्तिरेव रयिरित्यवधारणा- दमूर्तिर्वायुरिति सिद्ध्यति। तत्स्थौ तावित्यभिप्रायः । तदेतदाह- अमूर्तस्थः स इत्यादिना || मूर्तं पृथिव्यादित्रयम् । अमूर्तं वाय्वादिद्वयम् । एवं भूतपञ्चकसंस्थौ वाक्प्राणौ प्रविश्य स्वयमेव भगवान् सर्वसृष्ट्यादिकृद्भवतीति भावः । अथादित्य उदयन्नित्यादे-रभिप्रायमादित्यस्थ इत्यादिना दर्शयति । स भगवान् वायुस्थ एवादित्ये स्थित्वा प्राच्यादिप्राणान् स्वरश्मिषु प्रवेशयति । उदक्तनौ उपरितनौ ।इन्द्राद्या इत्यादिष्वाद्यशब्दात् के कति च इत्याकाङ्गायामाह - सभार्या इति ॥ इन्द्राद्याः कोणपैः सार्धं सभार्या इत्यन्वयः । दिशि दिशि चत्वार इत्युक्तत्वात् । अपरथा चतुष्ट्रासिद्धेः । अवाचीनावपिं सभार्यत्वाच्चत्वार एव तथैवान्त्या - वपीति सर्वे चतुर्विंशतिः ॥ १-५ ॥
श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका
रयिर्वा एतत्सर्वमिति श्रुतिवाक्ये रयिपदेन प्राणोऽप्युपलक्ष्यते । एवञ्च तावुभौ सूर्याचन्द्रमसोः स्थित्वा सृष्टिकरणात् पूर्वमिदं सर्वं जगत् ससृजतुरित्यर्थः । सूर्ये स्थित्वा शोषणपाचनादीनां या सृष्टिः, चन्द्रे स्थित्वौष - ध्यादीनां च या सृष्टिः सा सर्वाऽपि मूर्तामूर्तात्मकप्रपञ्चसृष्टिं विनाऽनवसर- दुस्थेत्यतः सर्वोपयुक्तपञ्चभूतसृष्टिः महदव्यत्ताख्यतत्त्वाभिमानिनि जडरूपेणैव प्रकृतेति भावः । तस्मान्मूर्तिरेव रयिः' इत्यत्र तस्मिन् राशिद्वय इति सप्तम्यर्थे पञ्चमीति भावेनोक्तम्- सप्तम्यर्थ इति ॥ मूर्तमूर्तयोः प्रस्तुतत्वात्तत्र मूर्तस्य रयित्वोक्तावमूर्तस्य प्राणत्वमपि प्रकरणवशाल्लभ्यते । तथाऽपि स्पष्टीकरणायामूर्तं प्राण इति शेष इत्युक्तम् । 'अन्यथा प्राच्यान् प्राणान्' इत्यत्रान्यथाऽवान्तरदिशां प्राच्यादिष्वसङ्घहे प्राच्यान् दक्षिणानित्यादिबहुवचनं न स्यात् । प्राचीनप्राणस्य स्वभार्यया सह द्वित्वसम्भवेऽपि बहुवचनायोगात् । कोणाभिमानिस्वभार्या- सहिताग्नेरपि सङ्घहे चतुर्णामपि लाभाद्बहुवचनोपपत्तिरिति भावः । दशदिशा- मवान्तरप्रदेशस्य च प्रागेवोक्तत्वात्पुनः सर्वपदवाच्यस्यान्यस्यायोगान्निगमन- मित्युक्तम् ॥ ५ ॥
श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
-'अमूर्तस्थः स वायुस्तु' इत्यादि भाष्ये । 'तस्मान्मूर्तिरेव रयिः' इत्यादि श्रुतौ च । रयिप्राणयोर्मूर्तादिस्थत्वकथनमत्रासङ्गतम् । प्रजापतेः प्रजसर्गे तयोर्निमित्तत्वा-प्रतिपादनादित्यतः 'तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः' इत्यस्य अमूर्तस्थः स वायुस्तु इत्यादावनुवृत्त्या योज्यमित्याह - तावाविश्येति सर्वत्र सम्बद्ध्यत इति ॥ सर्वत्र संवत्सरस्थो भगवानित्यादौ सर्वत्रेत्यर्थः उदयन्नुद्गच्छन्नित्यनेन श्रुतौ उदयन्निति अय पय गतावित्ययते रूपं नतु यातेः । तथात्वे उद्यन्निति श्रुतौ प्रयोगः प्रसज्येतेत्युक्तं भवति- बहुवचनायोगादिति ॥
अवान्तरदिशां प्रच्यादिशब्देन ग्रहणे तु 'सभार्यैः कोणपैः सार्धम्' इत्युक्तन्यायेन बहुवचनमुपपद्यत इति भावः ॥ यत्सर्वमिति निगमनमिति । तेन आदित्य उदयन्नित्यादीनां न पौनरुक्त्यमिति भावः ॥ १-५ ॥
श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
अवान्तरदिशां आग्नेयादिकोणानाम् ॥ बहुवचनेति ॥ प्राच्य- प्राणस्येन्द्रस्यैकत्वात् । तत्स्त्रीग्रहणेऽपि द्वित्वापत्त्या बहुवचनमयुक्तमित्यर्थः ॥ १-५ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
|| मूर्तं तेजोऽबन्नलक्षणमिति ॥ 'मूर्तं सदिति सम्प्रोक्त- ममूर्तमसदुच्यते' 'यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सद्' इति श्रुतिद्वयात् । तत्रान्तिमश्रुतौ पञ्चमहाभूतानां मध्य इति शेषोक्त्या मूर्तशब्दार्थभूतसच्छब्दस्य तेजोऽबन्नार्थकत्वेन मूर्तशब्दस्यापि तदर्थकत्वात् । अमूर्तशब्देन तेजोऽबन्नव्यतिरिक्तकारणप्रसङ्गात्। कारणत्वावच्छिन्नकारणमात्रं विवक्षितमिति भावेनाह- अमूर्तं च प्रकृत्या- दिकमिति । तस्माद्राशिद्वयात्प्रविभक्तेति ॥ तस्मादिति शब्देन मूर्तामूर्तराशि- द्वयग्रहणात्पञ्चम्याश्च पञ्चमीविभक्तेरिति सूत्रेण जातत्वात्। अनया पञ्चम्या प्रकृतराशिद्वयमध्ये एकराशेः राश्यन्तरात्पृथक्करणरूपविभागबोधनातू मूर्तमूर्त- राशिद्वयान्तर्गतामूर्तभिन्नं मूर्त रविरिति श्रुत्यर्थः । सूत्रार्थस्तु जात्यादिभिर्निर्धार्य- माणस्य पृथक्कारणे द्योत्ये पञ्चमी स्यादिति । उदाहरणं तु क्षत्रियाद् ब्राह्मणः पूज्य इति। उपक्रमानुरोधात् मूर्तिर्मूर्तमिति । सप्तम्यर्थे पञ्चमीति वा । तथाच तस्मात् तस्मिन् कारणसमुदायमध्ये मूर्तिर्मूर्तत्वगुणावच्छिन्नं तेजोऽबन्नाख्यं रयिः सरस्वत्य- धिष्ठानमित्यर्थः। श्रुतौ न्यूनत्वशङ्काया व्यावृत्त्यर्थमाह- अमूर्तं प्राण इति शेष इति ॥ तस्मादिति अत्रापि सम्बद्ध्यते । अर्थः पूर्ववदेव । समुदायार्थमाह- प्रकृत्यादिष्विति ॥ सर्वत्र सम्बद्ध्यत इति । मूर्तमूर्तस्थसरस्वतीवाय्वोः संवत्सरावयवदक्षिणोत्तरायणस्थसरस्वतीवाय्वोः मासावयवशुक्लकृष्णपक्षस्थ- वायुसरस्वत्योस्तदुत्तरमपीत्यर्थः । ननु आदित्य उदयन्नित्यादिनोक्तं प्रमेयं यत्सर्व- मित्यनेन पुनः किमर्थमुच्यत इत्यत आह- यत्सर्वमिति निगमनमिति ॥ १- ५ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
तस्मादिति पञ्चम्यपादाने विवक्षितेति व्याचष्टे- तस्मा- द्राशिद्वयादिति ॥ सप्तम्यर्थ इति ॥ तस्मिन्राशिद्वये यन्मूर्तमित्यर्थः॥ उदयन् उद्गच्छन्निति । अनेन श्रुतावुदयन्निति 'अय पय गतौ' इत्ययते रूपम् । नतु यातेः। तथात्वे उद्यन्निति श्रुतौ प्रयोगः प्रसज्येतेत्युक्तं भवति ॥ अन्यथेति ॥ अवान्तर - दिशां प्राच्यादिग्रहणेन ग्रहणे प्राच्यान् प्राणानिति बहुवचनं न सम्भवति । ग्रहणे तु 'सभार्याः कोणपैः सार्धं चत्वारो दिशि दिश्यपि ' इत्युक्तरीत्या बहुवचनं युज्यत इति भावः ॥ यत्सर्वमिति निगमनमिति ॥ तेन यत्प्राचीदिशं जयतीत्यादिनोक्तत्वात्पौनरुक्त्यमिति न शङ्कनीयमिति भावः ॥ १-५ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
रयिप्राणयोः सूर्याद्यधिष्ठानेन प्रजोत्पत्तिनिमित्तत्वस्योक्तत्वा- त्प्रकारान्तरेणेत्युक्तम् । वा इत्यस्य व्याख्यानं प्रमाणसिद्धमेतदिति। किं तत्सर्व- मिति मूर्तिरेव रयिरित्यन्तस्यावतारिका ॥ मूर्तं तेजोऽबन्नलक्षणमिति ॥ 'मूर्त सदिति सम्प्रोक्तममूर्तमसदुच्यते' इति श्रुतौ मूर्तामूर्तशब्दयोः सदसच्छब्द- पर्यायत्वोक्त्या ‘यदन्यद्वायोश्चान्तरिक्षाच्चैतत्सत्' इति सच्छब्दस्य पञ्चभूतानां मध्ये वाय्वन्तरिक्षातिरिक्ततेजोऽबन्नपरत्वकथनेन मूर्तं तेजोऽबन्नलक्षणमिति व्याख्यातम्। वाय्वन्तरिक्षपरेणामूर्तशब्देन कारणप्रसङ्गात्तेजोऽबन्नव्यतिरिक्त- कारणत्वावच्छिन्नकारणमात्रं विवक्षितमिति भावेनाह- अमूर्तं च प्रकृत्या - दिकमिति ॥ यन्मूर्तं चेति यच्छब्दस्य तस्मादित्युत्तरतच्छब्दान्वयं दर्शयति- इति यदुपादानकारणं राशिद्वयमिति ॥ तेजोऽबन्नलक्षणं तदतिरिक्तं प्रकृत्या- दिकमिति यद्राशिद्वयं तस्मादित्यर्थः । प्रविभक्ता या मूर्तिरिति ॥ प्रविभक्तेति पञ्चम्यर्थकथनम्। ‘पञ्चमी विभक्ते' इति सूत्रेण जात्यादिभिर्निर्धार्यमाणस्य पृथक्करणे द्योत्ये पञ्चमी स्यात् । यथा क्षत्रियाद् ब्राह्मणः पूज्य इत्यर्थकेन जातयाऽनया पञ्चम्या प्रकृतराशिद्वयमध्ये एकराशेः पृथक्करणरूपविभाग- बोधनात्। ततश्च मूर्तामूर्तराशिद्वयान्तर्गतामूर्तभिन्नं मूर्तं रयिरिति श्रुत्यर्थो भवति । उपक्रमानुरोधान्मूर्तिरित्यस्य मूर्तमिति व्याख्यानम् । नन्वनेन सूत्रेण पञ्चमी न युक्ता । निर्धार्यमाणस्य सामान्यशब्दोपात्तन यत्र सामान्याकारेणापि अभेदो नास्ति
तत्रैवानेन पञ्चम्या विधानात् । यथा 'माधुराः पाटलिपुत्रेभ्य आढ्यतरा' इति 'गवां गोषु वा बहुक्षीरा कृष्णा' इतिवन्निर्धार्यमाणस्योपादानराशिद्वया- त्सामान्याकारेणाभेदस्यैव विद्यमानत्वात् । यतश्च निर्धारणम्' इत्यनेन षष्ठी- सप्तम्योरन्यतरस्या एव न्याय्यत्वादित्यस्वरसादाह - सप्तम्यर्थे वा पञ्चमीति ॥ तथाच तस्मान्मूर्तमूर्तरूपकारणसमुदायमध्ये मूर्तिर्मूर्तं रयिः सरस्वत्यभिमन्य- मानमित्यर्थ उक्तो भवति। श्रुतौ न्यूनतामाशङ्कयाह- अमूर्तं प्राण इति शेष इति ॥ तस्मादित्येतदत्रापि सम्बद्ध्यते । अर्थस्तु पूर्ववदेव । समुदायार्थमाह- प्रकृत्यादिष्विति || 'अमूर्तस्थः स वायुस्तु' इत्यादिना भाष्ये 'तस्मान्मूर्तिरेव रयिः' इत्यादिना श्रुतौ च रयिप्राणयोर्मूर्तादिस्थत्वकथनमात्रमसङ्गतम्। प्रजापतेः प्रजासर्गे तयोर्निमित्तत्वाप्रतिपादनादित्यतः 'तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः' इत्येतदमूर्तस्थः स वायुरित्यादावनुवृत्त्या योज्यमित्याह— तावा- विश्येति सर्वत्र सम्बद्ध्यत इति ॥ सर्वत्र अत्र संवत्सरस्थो भगवानित्यादौ । भर्तृस्थः स स्वयं वायुरेवमित्यन्ते सर्वत्रेत्यर्थः ॥ आदित्ये स्थित्वेति || आदित्यो ह वै प्राण इत्यत्रेत्यर्थः ॥ तत्कथमित्युच्यत इति ॥ तत्कथमित्यत उच्यत इत्यर्थः। उक्तविवरणत्वेऽथशब्दोऽनुपपन्न इत्यत आह- अथशब्द इति ॥ सन्निधत्त इत्येतदन्तर्णीतणिच्त्वमित्यभिप्रेत्य सन्निवेशयतीत्युक्तम् ॥ इत्यादि योज्यमिति ॥ यत्प्रतीचीं दिशं प्रविशति तेन प्रतीच्यान्प्राणान् स्वरश्मिषु सन्निधत्ते। यदधो दिशं प्रविशति तेनाधःस्थान्प्राणान् स्वरश्मिषु सन्निधत्ते । यदूर्ध्वं प्रविशति तेनोर्ध्वस्थान् प्राणान् स्वरश्मिषु सन्निधत्ते । यदन्तरा दिशः प्रविशति तेनान्तरास्थान् प्राणान् स्वरश्मिषु सन्निधत्त इति योज्यमित्यर्थः। आग्नेयादीनां दिशां अन्तरा दिश इत्यनेन ग्रहणं किं न स्यादित्यत आह- अवान्तर- दिशामिति ॥ नन्वथादित्य उदयन्नित्यादिनोक्तमेव प्रमेयं यत्सर्वमित्यादिना पुनः किमर्थमुच्यत इत्यत आह- यत्सर्वमिति निगमनमिति ॥ १-५ ॥
अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
यन्मूर्तं चेति यच्छब्दस्य तस्मान्मूर्तिरिति तच्छब्देना- न्वयाद्रयिर्वा एतत्सर्वमित्येतच्छब्दस्य प्रमाणप्रसिद्धमित्यर्थ उक्तः । किं तत्सर्व- मिति मूर्तिरेव रयिरित्यन्तस्यावतारिका । उक्तविवरणत्वेऽथशब्दोनुपपन्न इत्यत आह- अथशब्द इति । पौनरुक्त्याद्विभ्यता यत्सर्वमिति वाक्यं ग्रन्थ- व्याख्येयमित्यत आह- यत्सर्वमिति ॥ १-५ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
प्रकारान्तरेण प्रजोत्पत्तिनिमित्तत्वमुच्यते- रयिर्वा इत्यदिना ॥ एतत्सर्वं रयिर्वै प्रमाणसिद्धमेतत् । किं तत्सर्वम् ? तेजोबन्नलक्षणमूर्तममूर्तःञ्च प्रकृत्यादिकमिति यदुपादानकारणराशिद्वयं तस्माद्राशिद्वयात् प्रविभक्ता या मूर्तिः यन्मूर्त सैव रयिः । सप्तम्यर्थे चेयं पञ्चमी । अमूर्त प्राण इति शेषः । रयि प्राणी जगदुपादानेषु पञ्चभूतेषु प्रकृत्यादिषु च स्थित्वा तेषामुपादानत्वशक्तिं प्रेरयन्ती प्रजापतेः प्रजोत्पत्तौ निमित्तं भवत इति यावत् । आदित्ये स्थित्वा प्राणः प्रजोत्पत्तिनिमित्तं भवतीत्युक्तं तत् कथमित्यत उच्यते - अथेत्यादिना ॥ अथशब्दः प्रकृतमूर्तादिप्रकारादर्थान्तरद्योतकः । आदित्यः आदित्यस्थः प्राणः उदयन् उद्गच्छन् प्राचीं दिशं प्रकाशेन प्रविशतीति यत्तेन प्राच्यान् प्राचीदिक्पालान् तद्दिग्गतप्राणिप्रणयनात् प्राणशब्दोदितान् सभार्येन्द्राग्निरूपांश्चतुरो देवान् रश्मिषु सन्निधत्त इत्यादि योज्यम् । यद्दक्षिणां प्रविशति तेन दक्षिणदिक्पालान् प्राणान् सभार्ययमनिर्ऋतिरूपांश्चतुरो देवान् रश्मिषु सन्निधत्ते । यत् प्रतीचीं प्रविशति तेन प्रतीच्यान् प्राणान् सभार्यवरुणवायुरूपचतुरो देवान् रश्मिषु सन्निधत्ते । यदुदीचीं प्रविशति तेनोदीच्यान् सभार्यसोमेशानरूपचतुरो देवान् रश्मिषु सन्निधत्ते । यदधः प्रविशति तेनाधस्तनान् सभार्यशेषमित्ररूपांश्चतुरो देवान् रश्मिषु सन्निधत्ते । यदूर्ध्वं प्रविशति तेनोर्ध्वान्प्राणान्सभार्यवीन्द्रकामरूपान् चतुरो देवान् रश्मिषु सन्निधत्ते । यदन्तरा दिशः दशदिशां मध्यं यत्प्रविशति तेन तत्रत्यान् प्राणान् रश्मिषु सन्निधत्ते । यदन्तरा दिश इति नावान्तरदिगुक्तिः, अग्न्यादिकोणपालानां प्राच्यादिग्रहणेनैव गृहीतत्वात् । तथोक्तं भाष्ये-
'प्राच्याः प्राणास्तथेन्द्राद्या दक्षिणाश्च यमादयः ।
प्रतीच्या वरुणाद्यास्तु सोमाद्याश्चोत्तराः स्मृताः ।
शेषमित्राववाचीनौ वीन्द्रकामावुक्तौ ।
सभार्याः कोणपैः सार्धं चत्वारो दिशि दिश्यपि ॥' इति ।
'दिङ्घध्यस्था अपि केचिज्ज्ञातव्या' इति टीकाकृतः । यत्सर्वमिति निगमनम्।
अनेनाशेषजगत्प्रकाशकतया प्रजोत्पत्तिनिमित्तत्वमुक्तम् ॥ १-५ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
प्रकारान्तरेण तयोः प्रजोत्पत्तिनिमित्तत्वमुच्यते - रयिर्वा इति ॥ एतत्सर्वं रयिर्वै प्रमाणप्रसिद्धमेतत् । किं तत्सर्वं मूर्तं तेजोऽबन्नलक्षणम्। अमूर्तं प्रकृत्यादिकम्। परस्परसमुच्चये चशब्द इति यावत् । उपादानकारणं राशिद्वयं तस्माद्राशिद्वयाद्विभक्ता या मूर्तिः यन्मूर्तं सैव रयिः । निर्धारणसप्तम्यर्थे वा पञ्चमी । अमूर्तं प्राण इति शेषः । प्रकृत्यादिषु स्थित्वा तन्नामानौ तेषां उपादानत्वशक्तिं प्रेरयन्तौ प्रजापतेः प्रजोत्पत्तौ निमित्तौ भवत इति यावत् । तावाविश्य प्रजापतिः प्रजाः सृजति। आदित्ये स्थित्वा प्राणः प्रजोत्पत्तिनिमित्तं भवतीत्युक्तम् । तद्विशदयति- अथेति ॥ अथशब्दो मूर्तादिप्रसङ्गादर्थान्तरद्योतकः आदित्यः आदित्यस्थः धः प्राणः उदयन् उद्गच्छन् प्राचीं दिशं प्रकाशयति तत्प्रविशति यत् तेन प्रवेशेन प्राच्यान्सकोणपान् दिशि पालकत्वेन स्थितान्प्राणान् एतद्दिग्गत- प्राणिप्रणयनात् प्राणशब्दवाच्यान् इन्द्रतद्भार्याग्नितद्भार्याख्यान् चतुरः दिक्पालान् स्वरश्मिषु सन्निधत्ते सन्निवेशयति । एवमुत्तरत्रापि योज्यम् । अधो दिक्प्राणा- श्चत्वारः शेषमित्रतद्भार्याः, ऊर्ध्वदिक्प्राणाश्चत्वारः वीन्द्रकामतद्भार्याः, यदन्तरा दिशो दिशां मध्यं तत्रत्याश्चत्वारः प्राणाः तत्समीपवर्तिनः इन्द्राद्याः अन्ये केचिद्विघ्नेशविरिञ्चाद्या वा ज्ञातव्याः । सर्वमिति निगमनम् । अनेन अशेषजग- त्प्रकाशकतया प्रजोत्पत्तिनिमित्तकारणत्वमुक्तम् ॥ १-५ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
प्रकारान्तरेण तयोः प्रजोत्पत्तिनिमित्तत्वमाह - रयिर्वेति ॥ एतत्सर्वं रयिर्वै प्रसिद्धमेतत् । किं तत्सर्वमित्यत आह— यन्मूर्तमिति ॥ वाय्वन्तरिक्षादन्य- द्यन्मूर्तं । अमूर्तं प्रकृत्यादिकञ्च । तस्मात् तस्मिन् । सप्तम्यर्थे पञ्चमी। मूर्तिः मूर्तं सैव रयिः । अमूर्तं प्राण इति शेषः । मूर्तामूर्तद्रव्येषु स्थित्वा तेषामुपादानत्वशक्तिं प्रेरयन्तौ प्राणौ प्रजोत्पत्तौ निमित्तं भवत इत्यर्थः । आदित्ये स्थित्वा प्राणः प्रजोत्पत्तिनिमित्तं भवतीत्युक्तम् । तत्कथमित्यत आह- अथेति ॥ अथशब्दः प्रसङ्गविशेषसूचकः । आदित्यः आदित्यस्थः प्राणः उदयन् उद्गच्छन् “अय पय गतौ” इति धातोः शतृप्रत्ययः । इण्धातोर्वा । प्राचीं दिशं प्रकाशेन प्रविशति ।तेन कारणेन प्राच्यान् प्राणान् दिक्पालान् इन्द्रादीन् रश्मिषु सन्निधत्ते सन्निवेशयति । स्वरश्मभिस्तान् प्राप्नोतीत्यर्थः । एवं दक्षिणां दिशं प्रविशति तेन वरुणादीन् सन्निवेशयति यदुदीचीं दिशं प्रविशति तेन सोमादीन् सन्निवेशयति । यदधोदिशं प्रविशति तेन शेषमित्रौ सन्निवेशयति । यदूर्ध्वादिदिशं प्रविशति तेन इन्द्रकामौ सन्निवेशयति । यद्दिशोऽन्तरा दिशां मध्ये प्रविशति तेन कोणपैः सार्धमिन्द्रादीन् सभार्यान् सन्निवेशयति। यत् सर्वं विश्वं प्रकाशयति तेन सर्वान् प्राणिसमूहान् सन्निवेशयति । अनेनाशेषजगत्प्रकाशकतया प्रजोत्पत्तिनिमित्तत्वं प्राणस्योक्तं भवति । एवमेव चन्द्रस्थिताया देव्या अपि सकलौषधिजननद्वारा प्रजोत्पत्ति- निमित्तत्वं ज्ञातव्यम् ॥ १-५ ॥