तद् यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते

देवकृता प्राणस्तुतिः  

उपनिषत्

तद् यथा मधुमक्षिका मधुकरराजानमुत्क्रामन्तं सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठमाने सर्वा एव प्रतिष्ठन्ते । एवं वाङ्मनश्चक्षुः श्रोत्रश्चेति ते प्रीताः प्राणं स्तुन्व- न्त्येषोऽग्निस्तपत्येष सूर्य एष पर्जन्यो मघवानेष पृथिवी रयिर्देवः सदसच्चामृतञ्च यत् ॥ ४ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

किमिव ? तत्तत्र लोके यथा मधुमक्षिकाः मधुकराः मधुकरराजानं प्रधानमधुमक्षिकां मधुस्थानादुत्क्रामन्तीमनु सर्वा एवोत्क्रामन्ति, तस्याञ्च प्रतिष्ठितायां सर्वा एव तत्र प्रतितिष्ठन्ति एवं वागादयो देवा इति इत्थमन्वय - व्यतिरेकाभ्यां प्राणस्य वरिष्ठत्वेऽवधारिते प्रीतास्ते देवास्त्वमेव सर्वदेवादिषु स्थित्वा तन्नामा तद्गुणक्रियादिप्रवर्तक इति प्राणं स्तुन्वन्ति अस्तुवन् । तदुच्यते- एषोऽग्निरित्यादि । एषः प्राण एवाग्निः संस्तपति । एष एव सूर्योऽपि संस्तपति । मघवानप्येष एवेति शेषः। पृथिवी रयिश्च यत् सदसत् मूर्तामूर्तं यच्चामृतं मुक्तजातं तदप्येष एव ॥ ४ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

अथ तस्योत्क्रमणोद्यमेन श्रद्दधानाश्च सन्तस्तमस्तुवन् एषोऽग्निरित्यादिना । अत्र हि मुख्यप्राणस्याग्निषु स्थित्वा तद्धारणादिरेवाभिप्रेयते नतु तदैक्यम्। अरा इत्यादिवाक्यशेषे सदृष्टान्तं व्यधिकरणत्वेन भेदोपदेशात् । रयिर्देवो वाक्पतिः। सदसद्भूतपञ्चकम्। अमृतं चेतनजातम्॥ २-४ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

|| एवं वागादयो देवा इति । अत्र धारकाः आकाशादयऽपि ग्राह्याः । ननु अभिमानेन प्रवृत्तानां देवानां कथं प्राणस्तावकत्वमित्यत- स्तत्सङ्गमयति- इत्थमिति ॥ स्तुन्वन्तीति ॥ ष्टु स्तुताविति धातोः लुग्विकरण- स्यापि व्यत्ययेन श्रुप्रत्यय इति भावेनाह- अस्तुवन्निति । अस्तुवन्निति लङा आख्यायिकाया अतीतार्थकत्वेन स्तुन्वन्तीति लडपि व्यत्ययेनेति सूचितमिति ज्ञातव्यम् ॥ २-४ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

कथमेतत्सर्वं प्राण इत्याक्षेपः उक्तं वक्ष्यमाणं विव्रियत इति परिहारः।एषोऽग्निस्तपत्येष सूर्य' इत्युक्तं प्रजापतिश्चरसि गर्भे त्वमेवेत्यादि वक्ष्यमाणञ्च विव्रीयत इत्यर्थः ॥ २-४ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

नन्वभिमानेन प्रवृत्तानां देवानां कथं प्राणस्तावकत्वमित्यत- स्तत्सङ्गमयति- इत्थमिति । प्रतीताः विश्वासवन्तः एष पृथिवी रयिरित्यत्र एष इति सकृच्छ्रवणात्समग्रमेकवाक्यतया योजयति-- पृथिवी रयिश्चेत्यादि ॥। २-४ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

'एष पृथिवी रयिः' इत्यत्रैष इति सकृच्छ्रवणात् समग्रमेक- वाक्यतया योजयति - पृथिवी वा रयिश्चेत्यादि ॥ २-४ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

तत् तत्र लोके यथा मधुमक्षिका मधुकरराजानं मधुकरप्रधानं मधुस्थानादुत्क्रामन्तमनु सर्वा एवोत्क्रमन्ते । तस्मिंश्च प्रतिष्ठिते सर्वा एव प्रतिष्ठन्ते । एवं वागादयो देवा इति । इत्थमन्वयव्यतिरेकाभ्यां प्राणस्य वरिष्ठत्वेऽवधारिते प्रीतास्ते देवाः त्वमेव सर्वदेवादिषु स्थित्वा तन्नामा तद्गुणक्रियादिप्रवर्तक इति प्राणं स्तुन्वन्ति, अस्तुवन् । तदुच्यते - एषोऽग्निरित्यादि । एष प्राण एवाग्निस्सन् तपति । एष एव सूर्योऽपि सन् तपति मघवानेष एवेति शेषः । पृथिवी रयिश्च यत् सदसन्मूर्तममूर्तममृतं मुक्तजातं तदप्येष एव ॥ २-४ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

किमिव तत् ? तत्र लोके यथा मधुमक्षिकाः मधुकरराजानं प्रधान- मधुमक्षिकां मधुस्थानादुत्क्रमन्तमनु सर्वा एवोत्क्रमन्ते तस्याञ्श्च प्रतिष्ठितायां सर्वा एव तत्र प्रतितिष्ठन्ति, एवं वागादयो देवा इत्यन्वयव्यतिरेकाभ्यां प्राणस्य वरिष्ठत्वेऽवधारिते प्रीतास्ते देवा: स्वयमेव सर्वदेवादिषु स्थित्वा तन्नाम- तद्गुणक्रियादिषु प्रवर्तक इति प्राणं स्तुन्वन्ति अस्तुवन् । तदुच्यते- एषोऽग्निरित्यादि । एषः प्राण एवाग्निप्रेरकत्वेन अग्नौ स्थितः अग्निनामा सन् तपति । एवमुत्तरत्र । यच्चामृतं मुक्तजातम् ॥ २-४ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

तत्र दृष्टान्तयति - तद्यथेति ॥ तत् तत्र लोके, यथा मधुमक्षिकाः मधुकराः, मधुकरराजानं प्रधानमक्षिकाम् । उत्क्रमन्तं मधुस्थानादुद्गच्छन्तम् । सर्वा मक्षिका एव, उत्क्रमन्ते । तस्मिन् तस्यां प्रतिष्ठमाने प्रतिष्ठमानायां सर्वा एव मक्षिकाः प्रतिष्ठन्ते प्रतितिष्ठन्ति । एवं प्रकारेण वाङ्गनश्चक्षुः श्रोत्रञ्च एतदभिमानिनो देवा अभवन्नित्यर्थः । एवं प्राणस्य स्वस्मात् श्रेष्ठ्यं ज्ञात्वा किं विदधुर्देवा इत्यत आह- ते प्रीता इति ॥ प्राणोत्क्रमणे स्वोत्क्रमणं तत्र प्रवेशे स्वप्रवेशमवधार्य, ते देवाः प्रीतास्तुष्टाः सन्तः । प्राणं मुख्यप्राणम् । स्तुन्वन्ति अस्तुवन्। सर्वदेवादिषु स्थित्वा तत्तन्नाम्ना तत्तद्गुणक्रियादिप्रवर्तकस्त्वमेवासीति स्तुतिं चक्रुरित्यर्थः । स्तुतिप्रकारमेवाह - एषोऽग्निरिति ॥ एषः प्राणः अग्निः सन् तपति । एषः सूर्यः सन् तपति । एषः पर्जन्यः वर्षति। एषः मघवान् इन्द्रः। एष वायुः भूतवायुः। एषः एषा पृथिवी पृथिव्यभिमानिनी देवता । रयिर्देवः क्रीडादिगुणविशिष्टा भारत्यपि । सत् मूर्तं असत् अमूर्तश्च । यच्चामृतं मुक्तजातं तदप्येषः प्राण एव ॥ २-४ ॥

Load More