स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते ..
विष्णोरेव पृथिव्याद्याधारत्वम्
उपनिषत्
स यथा सोम्य वयांसि वासोवृक्षं सम्प्रतिष्ठन्ते एवं ह वैतत्सर्वं परे आत्मनि सम्प्रतिष्ठते । पृथिवी च पृथिवीमात्रा चाऽपश्चाऽपोमात्रा च तेजश्च तेजोमात्रा च वायुश्च वायुमात्रा चाऽकाशश्चाऽकाशमात्रा च । चक्षुश्च द्रष्टव्यञ्च श्रोत्रञ्च श्रोतव्यञ्च घ्राणञ्च घ्रातव्यञ्च रसनञ्च रसयितव्यञ्च त्वक् च स्पर्शयितव्यञ्च वाक् च वक्तव्यञ्च हस्तौ च दातव्यं च पादौ च गन्तव्यञ्च पायुश्च विसर्जयितव्यं चोपस्थश्चानन्दयितव्यञ्च मनश्च मन्तव्यञ्च बुद्धिश्च बोद्धव्यं चाहङ्कारश्चाहङ्कर्तव्यञ्च चित्तञ्च चेतयितव्यञ्च तेजश्च विद्योतयितव्यञ्च प्राणश्च विधारयितव्यञ्च ॥ ५ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
अन्तिमप्रश्नपरिहारः सदृष्टान्त उच्यते - स यथेत्यादि ।। सोम्य सोमार्ह । सः दृष्टान्तः–यथा वयांसि पक्षिणो वासो यत्राऽत्मनां तं वृक्षं सम्प्रतिष्ठन्ते अभिगच्छन्ति तमाश्रित्य तिष्ठन्ति च । एवं खल्वेतत् सर्वं पृथिव्यादितत्त्वजातं परे आत्मनि विष्णौ सम्प्रतिष्ठन्ते । तदाधारमेव वर्तत इति । अत्र पृथिवीत्यादिना पञ्चमहाभूतान्युच्यन्ते । पृथिवीमात्रा चेत्यादिना गन्धादिपञ्चतन्मात्राः । चक्षुश्चेत्यादिना दशेन्द्रियाणि । द्रष्टव्यं चेत्यादिना रूपादितद्विषयाः। मन इत्यादिनान्तःकरणपञ्चकम् । मन्तव्यं चेत्यादिना तद्विषयाः । तेजः शब्देन चेतना गृह्यन्ते इति सर्वस्यापि सङ्ग्रहः । प्राणो मुख्यो धारकस्तेन विधारयितव्यं पृथिव्यादिकं सर्वम् ॥ ५ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
वयसां निवासवृक्षवद्विष्णुरेव सर्वस्याश्रयः ॥ ४-५ ॥
श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
सोम्य सोमार्हेति । ननु-
नवकोट्यो हि देवानां तेषां मध्ये शतस्य तु ।
सोमाधिकारो वेदोक्तः..............
इत्युक्तत्वेन देवानामेव तद्योग्यत्वादस्य ऋषेस्तद्योग्यत्वं बाधितमिति चेत् सत्यम् । नात्र यज्ञे आहुतिरूपेण दत्तसोमयागार्हत्वमुच्यते किन्नाम 'सोमं पिबेत्' इति नित्यविधिसंरक्षणाय यज्ञ आहुतिरूपेण सोमे हुते पात्रे किञ्चित्सोमरसोऽव- शिष्यते । तस्य यज्ञशिष्टस्य सोमस्य भक्षणं ऋत्विग्भिः क्रियते । तादृशसोम- भागपानार्हत्वमभिप्रेतमिति मन्तव्यमिति सम्प्रदायविदः । एतादृशसोमार्हतापि न सर्वेषामस्तीति तत्प्रशंसा युक्ता ।
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
स दृष्टान्तो यथेति । तच्छब्दस्य प्रसिद्धार्थकस्य दृष्टान्तपरत्वमाश्रित्येदं वचनं ज्ञेयम् । परमेश्वरस्य सर्वाश्रयत्वं वृक्षस्य पक्ष्याश्रयत्वं येन प्रकरेण तेन प्रकारेणेति भावः । वासो यत्रेति उपनिषदि वासो यत्रेति षष्ठीतत्पुरुषः। तस्य तात्पर्यार्थः । वासो यत्रात्मनां तं वृक्षमिति ।। अत्रात्मशब्दार्थः स्वात्मार्थः । वासो निवासः 'वस निवास' इत्यतः वसेर्णिच्चेति भावे असुन्प्रत्यये णित्वात् वृद्धौ वास इति सान्तः शब्दः । सम्प्रतिष्ठन्त इत्येतत् प्रपूर्वतिष्ठतेर्गमनार्थमाश्रित्य व्याचष्टे - सम्प्रतिष्ठन्ते अभिगच्छन्तीति ॥ 'प्रस्थानं गमनं गमः' इत्यमरोक्तेः । केषाञ्चिच्छब्दानामप्रतीतार्थत्वाद्विविच्यार्थमाह- तमाश्रित्य तिष्ठन्ति चेति । सम्प्रशब्दयोरुपसर्गत्वात् साधनक्रियाप्रतिपादकत्वेन तमाश्रित्येति व्याख्यातम् । पृथिवीत्यादिशब्दानां सङ्कलय्योक्तेः केषाञ्चिच्छब्दाना- मप्रतीतार्थत्वाद्विविच्यार्थमाह- अत्र पृथिवीत्यादिनेति ॥ श्रुतौ आपो- मात्रेति समासपदे षष्ठ्याः सुपां सुपो भवन्तीति वार्तिकेन छान्दसः जसादेशः ॥ गन्धादिपञ्चकमिति॥ गन्धरसरूपस्पर्शशब्दा इत्यर्थः । दशेन्द्रियाणीति । चक्षुः श्रोत्रघ्राणवाक्पाणिपादपायूपस्था इति कर्मेन्द्रियपञ्चकमेवं मिलित्वा दशेत्यर्थः ॥ रूपादीति ॥ आदिशब्देन शब्दगन्धरसस्पर्शाः वक्तव्यपञ्चकञ्चेति दश गृह्यन्त इत्यर्थः ॥ अन्तःकरणपञ्चकमिति ॥ अन्तःकरणभेदपञ्चकमित्यर्थः । तत्र सङ्कल्पविकल्पात्मकं मनः । करोमि न करोमीति सङ्कल्पविकल्पौ । निश्चया- त्मिका बुद्धिः । अस्वरूपे स्वरूपप्रतीतिरहङ्कारः । स्वातन्त्र्यबुद्धिरिति यावत्। अस्थिरस्मरणं चित्तम् । चित्तस्य विषयेषु व्याप्तिश्चेतना । बहुविषयत्वमिति यावत् । ननु स्थलान्तरे मनोबुद्धिरहङ्कारश्चित्तं चेतनमिति । अत्र तु पञ्चमं तेज इति कथ्यते अतस्तद्विरोध इत्यत आह- तेजः शब्देनेति ॥ एवं हैतत्सर्वं परे आत्मनि सम्प्रतिष्ठन्ति इति यत्परमात्मनः सर्वनियामकत्वमुक्तं तदयुक्तम् । पृथिवी चेत्यादौ प्रकृत्यादेरनुक्तत्वादित्यत आह- सर्वस्यापीति ॥ प्रकृत्यादेः सर्वस्यापीत्यर्थः। एवं मुख्यं नियम्यमुक्त्वा अमुख्यनियम्यमाह - प्राण इति ॥ तस्य कथं पृथिव्याद्यपेक्षया मुख्यनियम्यत्वमित्यत आह- मुख्य इति ॥ मुख्यवायुत्वा- दित्यर्थः । तदुपपादयति- धारक इति ॥ सर्वस्य धारकत्वात् । अयं भावः पृथिव्यादेः साक्षान्मुख्यप्राणनियम्यत्वम् । मुख्यप्राणस्य साक्षाद्भगवन्नियम्यत्व- मिति ॥ तदेव दर्शयति-विधारयितव्यं पृथिव्यदिकं सर्वमिति ॥ तथाच मुख्यप्राणद्वारा सर्वस्येश्वरनियम्यत्वमिति ज्ञातव्यम् ॥ ४-५ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
॥ अन्तिमप्रश्नेति || पराधीना एते सर्वे कस्मिन् प्रतिष्ठिता भवन्ति। परमेश्वरश्चेदाश्रयः तत्कुत इत्यन्तिमप्रश्नेत्यर्थः ॥ स दृष्टान्तो यथेति ॥ तच्छब्दस्य प्रसिद्धार्थकस्य दृष्टान्तपरत्वमाश्रित्येदं वचनं ज्ञेयम्। परमेश्वरस्य सर्वाश्रयत्वं वृक्षस्य पक्ष्याश्रयत्वं येन प्रकारेण तेन प्रकारेणेति भावः ॥ वासो यत्रेति ॥ अत्र वाससो निवासस्य वृक्षो वासोवृक्ष इति षष्ठीतत्पुरुषः । तस्य तात्पर्यार्थः ॥ वासो यत्रात्मनां तं वृक्षमिति । अत्रात्मशब्दः स्वात्मार्थः । वासो निवासः। वस निवास इत्यतः वसेर्णिच्चेति भावेऽसुन्प्रत्यये णित्वाद्वृद्धौ वासस् इति सान्तः शब्द इति केचिद्व्याचक्षते । वास इत्यस्याकारान्ततां सान्ततां वाऽभ्युपेत्य भिन्नपदत्वमाश्रित्य यत्रात्मनामित्यस्याध्याहारञ्चाङ्गीकृत्य वासो यत्रात्मनामिति व्याख्यानमित्यपि भाति । सम्प्रतिष्ठन्त इत्येतत्प्रपूर्वकतिष्ठते- र्गमनार्थत्वमाश्रित्य व्याचष्टे - सम्प्रतिष्ठन्ते अभिगच्छन्तीति || ' प्रस्थानं गमनं गम' इत्यमरोक्तेः । रूढ्याश्रयेणार्थमुक्त्वा योगाश्रयेणाप्यर्थमाह- तमाश्रित्य तिष्ठन्ति चेति ॥ सम्प्रशब्दयोरुपसर्गत्वात् ससाधनक्रियाप्रतिपादकत्वेन तमाश्रित्येति व्याख्यातम् । पृथिव्यादिशब्दानां सङ्कलय्योक्तेः। केषाञ्चि- च्छब्दानामप्रतीतार्थत्वाद्विविच्यार्थमाह- अत्र पृथिवीत्यादिनेति ॥ श्रुती आपोमात्रेति समासपदे षष्ठ्याः सुपां सुपो भवन्तीति वार्तिकेन च्छान्दसो जसादेशः । अन्तःकरणपञ्चकमिति ॥ अन्तःकरणप्रभेदपञ्चकमित्यर्थः । तत्र सङ्कल्पविकल्पात्मकं मनः । करोमि न करोमीति सङ्कल्पविकल्पौ । निश्चया- त्मिका बुद्धिः। अस्वरूपे स्वरूपत्वबुद्धिरहङ्कारः । स्वातन्त्र्यबुद्धिरिति यावत्। अस्थिरस्मरणं चित्तम् । चित्तस्य विषयेषु व्याप्तिश्चेतना । बहुविषयकत्वमिति यावत्। ननु स्थलान्तरे मनोबुद्धिरहङ्कारश्चित्तं चेतनेति कथ्यते । अत्र तु पञ्चमं तेज इति अतस्तद्विरोध इत्यत आह- तेजः शब्देनेति ॥ एवं ह वै तत्सर्वं परे आत्मनि सम्प्रतिष्ठत इति परमात्मनः सर्वनियामकत्वमुक्तम्। तदयुक्तम्। पृथिवी चेत्यादौ प्रकृत्यादेरनुक्तत्वादित्यत आह- सर्वस्यापीति । प्रकृत्यादेः सर्वस्यापीत्यर्थः। सङ्ग्रहः कर्तव्य इति शेषः । उपलक्षणया प्रकृत्यादेर्ग्रहणं कार्यमिति यावत् । एवममुख्यनियम्यमुक्त्वा मुख्यनियम्यमाह - प्राण इति ॥ तस्य कथं पृथिव्या- द्यपेक्षया मुख्यनियम्यत्वमित्यत आह- मुख्य इति ॥ मुख्यवायुत्वादित्यर्थः । तदुपपादयति- धारक इति ॥ सर्वस्य धारकत्वात् । अयं भावः। पृथिव्यादेः साक्षान्मुख्यप्राणनियम्यत्वं मुख्यप्राणस्य साक्षाद्भगवन्नियम्यत्वमिति। तदेव दर्शयति - तेन विधारयितव्यं पृथिव्यादिकं सर्वमिति ॥ ४-५ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
कस्मिन् सर्वे प्रतिष्ठिता भवन्तीत्यन्तिमप्रश्नपरिहारस्सदृष्टान्त उच्यते - स यथेत्यादि । सेम्य सोमार्ह, स दृष्टान्तो यथा वयांसि पक्षिणो वासो यत्राऽत्मनां तं वृक्षं सम्प्रतिष्ठन्ते, अभिगच्छन्ति तमाश्रित्य तिष्ठन्ति च। एवं खल्वेतत् सर्वं पृथिव्यादितत्त्वजातं परे आत्मनि विष्णौ सम्प्रतिष्ठते। तदाधारमेव वर्तत इति । अत्र पृथिवीत्यादिना पञ्चमहाभूतान्युच्यन्ते । पृथिवीमात्रा चेत्यादिना गन्धादिपञ्चतन्मात्राः । चक्षुश्चेत्यादिना दशेन्द्रियाणि । द्रष्टव्यञ्चेत्यादिना रूपादितद्विषयाः । मनइत्यादिनाऽन्तःकरणपञ्चकम् । मन्तव्यञ्चेत्यादिना तद्विषयाः ।
तेजश्शब्देन चेतना गृह्यन्ते इति सर्वस्यापि सङ्ग्रहः । प्राणो मुख्यप्राणो धारकः तेन विधारयितव्यञ्च पृथिव्यादिकं सर्वम् ॥ ४-५ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
कस्मिन्सर्वे प्रतिष्ठिता भवन्तीत्यन्तिमपरिहारमाह- स यथेति ॥ हे सोम्य सोमपानार्ह स दृष्टान्तो यथा वयांसि पक्षिणो वासो यत्र आत्मनां तं वृक्षं सम्प्रतिष्ठन्ते अभिगच्छन्ति तमाश्रित्य तिष्ठन्ति च । एवं खल्वेतत्सर्वं पृथिव्यादि- तत्त्वजातं परमात्मनि विष्णौ सम्प्रतिष्ठन्ते । तेजः शब्देन चेतना गृह्यन्ते । प्राणो मुख्यधारकः तेन विधारयितव्यञ्च पृथिव्यादिकं सर्वम् ॥ ४-५ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
अत्र दृष्टान्तयति - यथा सोम्येति ॥ हे सौम्य सोमपानार्ह । यथा दृष्टान्ते । यथा तस्मिन् विषयेऽयं दृष्टान्त इत्यर्थः । वयांसि पक्षिणो यथाऽत्मनो वासस्थानं तं वृक्षं सम्प्रतिष्ठन्ते अभिगच्छन्ति । तमाश्रित्य तिष्ठन्तीत्यर्थः । एवं हवा प्रसिद्धं एतत्सर्वं पृथिव्यादि जातं परे आत्मनि विष्णौ सम्प्रतिष्ठन्ते तदाधारत्वेन वर्तन्त इत्यर्थः । सर्वमेव विशदयति- पृथिवीत्यादिना || मात्राशब्देन विषयाः । द्रष्टव्यं द्रष्टुं योग्यं पदार्थम् । श्रोतव्यं श्रोतुं योग्यं शब्दम् । एवमन्येऽपि तत्तद्विषयाः ग्राह्याः। चित्तशब्देन चेतनाः ग्राह्याः । प्राणः मुख्यप्राणः । विधारयितव्यं विधारयितुं योग्यम्। पृथिव्यादिकम् । अनेन सर्वाधारकस्यापि मुख्यप्राणस्येश्वरा- धीनत्वमुच्यते॥ ४-५ ॥