यच्चित्तस्तेनैष प्राणमायति

एवंरूपप्राणवेदनफलम्

उपनिषत

यच्चित्तस्तेनैष प्राणमायति । प्राणस्तेजसा युक्त: सहाऽत्मना यथासङ्कल्पितं लोकं नयति । य एवं विद्वान् प्राणं वेद न हास्य प्रजा हीयतेऽमृतो भवति । तदेष श्लोकः। उत्पत्तिमायतिं स्थानं विभुत्वञ्चैव पञ्चधा । अध्यात्मञ्चैव प्राणस्य विज्ञायामृतमश्नुते विज्ञायामृतमश्नुत इति ॥ ७ ॥

॥ इति तृतीयः प्रश्नः ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

सङ्गतिविशेषलाभात् केनोत्क्रमत इति प्रश्नस्योत्तरमिदानीमुच्यते- यच्चित्त इति ॥ एष पुरुषो यच्चित्तो मरणकाले यद्विषयचित्तो भवति तेन तद्विषयेण चित्तेन सह प्राणं मुख्यमायाति । तत्समीपं प्राप्नोति । प्राणस्तु तेजसोदानेन युक्तः परमात्मना सह जीवं यथासङ्कल्पितं, तेन जीवेन मरणकाले यादृशः सङ्कल्पितः स्मृतः तथाविधलोकं शरीरं नयति प्रापयतीति । अत एव यच्चित्त इत्युक्तम् । स्वाभि- प्रेतमिति वा। अनेनोदानरूपेणोत्क्रमणमित्युक्तं भवति । एवम्भूतप्राणविज्ञानस्य फलमुच्यते - य एवमिति । यो विद्वानेवमुक्तलक्षणं प्राणं वेद विजानाति नास्य विदुषः प्रजा हीयते । अविच्छिन्नसन्तानो भवतीत्यैहिकम्। परत्र चामृतो मुक्तो भवति । तदेष श्लोकः । प्राणस्योत्पत्तिम्, परमात्मन आयतिं प्रवर्तनम्, शरीरे तदिच्छ्या स्थानमवस्थानम्, पायूपस्थादि पञ्चधा प्राणादिरूपेण विभुत्वं विविध- भवनं स्वाम्यं वा, तथा अध्यात्मं अध्यात्मधारकत्वम्, चशब्देन बाह्यधारकत्व - मुत्क्रमणं चेत्येतद्विज्ञाय विशेषेण ज्ञात्वाऽमृतं मोक्षमश्नुते प्राप्नोति ॥ ७ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

अथ तत्काले यच्चित्तस्स भवेत्तं पुनर्भवमुद्दिश्य तेन जीवेन सहैषः पञ्चरूपी प्राण आयाति। सः प्राण उदानेन युक्तः सन्नात्मना यथा सङ्कल्पितमेव लोकं जीवान्नयति नच तदीयचित्तसङ्कल्पयोर्विरोधः । आत्मसङ्कल्पानुसारेण हि तच्चित्तं प्राणः प्रणयति । य एवं प्राणस्योत्पत्त्यादिवैलक्षण्यं विद्वांस्तं यथावद्वेद तस्य सर्वाभीष्टं भवति। तत्रोक्त श्लोकस्यायमर्थः । मुख्यप्राणस्य परमात्मन उत्पत्ति तस्य जीवशरीर आगतिं पञ्चधा विभागमध्यात्माधिदैवतयोरवस्था- विशेषं प्रवृत्तिभेदञ्च विज्ञाय परमात्मज्ञानद्वारेण क्रमादमृतत्वमश्नुते । अवान्तरे- श्वरस्य ज्ञानस्य मुख्येश्वरज्ञानानन्तरीयकत्वात् ॥ ३-७ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

'सङ्गतिविशेषलाभात्' इत्यत्र शरीरेऽवस्थितिप्रपञ्चनोत्तरं देहादुत -त्क्रमणकथनस्य सङ्गतत्वादिति भावः । ' यच्चित्तः इत्युक्तम् स्वाभिप्रेत- मिति वा' इत्यत्र स्वयं यच्चित्तो भवति तमित्यभिप्रायेण स्वाभिप्रेतमित्युक्तम् ।

एवमनेकोपनिषत्सु बहुशः प्रस्तूयमानः सर्वस्रष्टृत्वसर्वपालकत्व सर्वदेवो- तमत्वादिरूपो मुख्यप्राणस्य महिमा पुराणादिषु कुतो न प्रपञ्चित इति चेत् । सत्यम् । मूलरूपेण न त्वं जगति प्रसिद्धो भव, तवावतारा एव प्रसिद्धा भवत्विति कण्वस्य शापरूपवचनपरिपालनाय व्यासवाल्मीकिप्रभृतयः स्वकृतग्रन्थेषु मूलरूपमुख्यप्राणस्य महिमानं न प्रायेण प्रपञ्चयामासुः । किन्तु मूलरूपी भगवांस्तु हनुमद्भीमादितदवतारकथामेव रामायणभारतपुराणादि- स्वकृतपौरुषेयग्रन्थेषु मुनीनां मान्यतासिद्ध्यर्थं प्रपञ्चयाञ्चक्रे । अपौरुषेयतया पुरुषानपेक्षितोपनिषद्विद्यासु सर्वसृष्ट्युत्तरकालीनकण्वादिमुनिभ्योऽपि पूर्वं विद्यमानस्वभक्तशिरोमणेः सर्वदेवोत्तमस्य मूलरूपमुख्यप्राणस्य गुणाननेकधागणयामास। अपिच रुद्रसूर्यस्कन्दादीन् देवान् नानादुर्मतप्रवृत्तौ निमित्तीकुर्वन्नपि नारायणो नित्यमविच्छिन्नस्वधर्माणं, नित्यमेतेषु कृतसख्यं, स्वहिततममत एव परमप्रियं प्राणमसज्जनेषु गोपयितुं रहस्यरूपोपनिषद्विद्यायामेव बहुशो न्यरुरूपत् । नतु स्त्रीशूद्रादीनामपि श्रवणयोग्यतन्त्रविद्यासु व्यासादिस्वावताररूपेणापि निरूपयामास । अत एव सर्वदेवोत्तमतया हरिभक्ताग्रेसरतया चोपनिषदाचार्य- मध्वगुरोरुपदेशेन तन्मतानुवर्तिभिस्तत्त्ववादिभिः प्रस्तूयमानमुख्यप्राणाख्य- तत्त्वस्य सकलश्राव्यपौरुषेयविद्यास्वपि तथैव विस्तरेणाप्रस्तावात् सदसद्रूपमत- भेदमप्यनुमतमेव चेत्येके । एतदेवाभिप्रेत्य कण्वोऽपि प्राणप्रेरणयैव शापव्याजेन तदानुकूल्यमेव चक्रे, नतु तस्य प्रातिकूल्यमिति सर्वस्यापि समाधानसम्भवेन चोद्यस्यैवानवकाशात्॥ ७ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

ननु कथं बाह्यमभिधत्त इति प्रश्नात्पूर्वमेव केनोत्क्रामत इति पृष्टस्य तदुत्तरानन्तरं कथमेतत्प्रत्युत्तरमित्यत आह- सङ्गतिविशेषलाभादिति ॥ पूर्व शरीरे उदानाधिष्ठिततेजः शान्तिज्ञानेन मरणमनुमीयत इंत्युक्तम् । इदार्नी तत्सङ्गत्यो- दानस्योत्क्रमणहेतुत्वं सप्रकारमाहेति भावः ॥ तद्विषयचित्तेनेति ॥ तद्विषय- स्मरणेनेत्यर्थः। परमात्मना सहेतितु सहेत्यस्य व्याख्यानम्। उक्तलक्षणं विष्णोः सकाशादुत्पत्त्यादिमत्त्वं ऐहिकफलं प्राप्नोतीति शेषः । परत्र परलोके । श्रुतौ तदेष श्लोक इति स्वोक्तार्थे मन्त्रः प्रमाणीकृतः । तदनुवादपूर्वकं मन्त्रं व्याख्याति - तदेष इति ॥ स्वाम्यं दासभूतप्राणादेः स्वामित्वमित्यर्थः । अध्यात्मं देहधारकत्वं प्राणादीनामिति शेषः। बाह्यधारकत्वम् । आदिपदात्पृथिव्यादि-धारकत्वम् । उत्क्रमणमुदानरूपेणेति शेषः ॥ ३-७ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

॥ सङ्गतिविशेषलाभादिति ॥ अध्यात्मं तेजोनिया- मकस्योदानस्य जीवनहेतुत्वमुक्त्वा तदुपपादयितुं तस्मादुपशान्ततेजा इति जीवमरणस्य तेजोनियामकोदानाधीनत्वकथनप्रसङ्गात् उत्क्रमणमप्युदानरूपेण भवतीति केनोत्क्रमत इति प्रश्नपरिहारकथनस्य सङ्गतिलाभ इत्यर्थः । 'तेनैष प्राण आयाति' इति प्राचीनटीकायाः पाठेऽपि स्वसम्प्रदायानुसारेण प्राणमायातीति पाठमाश्रित्य व्याचष्टे - प्राणं मुख्यमायातीति ॥ आत्मना सहेति ॥ परमा- त्मना सहेत्यर्थः । जीवेन सङ्कल्पितमित्यत्र ज्ञापकमाह- अत एवेति । यथा- सङ्कल्पितं पूर्वं कृतसङ्कल्पमनतिक्रम्येति परामर्शार्थमेव ॥ यच्चित्त इति ॥ जीवो यद्विषयचित्तो भवतीत्युक्तमित्यर्थः ॥ ३-७ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

|| सङ्गतिविशेषलाभादिति ॥ यद्यपि कथमभिधत्त इत्यादिप्रश्न - परिहारात्पूर्वमेव प्रश्नानुसारेण केनोत्क्रमत इति प्रश्नोत्तरं वक्तव्यम् । तथाप्यध्यात्मं तेजोनियामकस्योदानस्य जीवनहेतुत्वमुक्त्वा तदुपपादयितुं तस्मादुपशान्ततेजा इति जीवानां मरणस्योदानाधीनत्वकथनप्रसङ्गादुत्क्रमणमपि उदानरूपेणैव भवतीति केनोत्क्रमत इति प्रश्नपरिहारकथने सङ्गतिविशेष- लाभादिदानीं केनोत्क्रमत इति प्रश्नोत्तरमुच्यत इत्यर्थः । अत एवोदानरूपेणो- त्क्रमणमित्यनुपदमेव वक्ष्यति - परमात्मना सहेति ॥ 'तमुत्क्रामन्तं प्राणोऽनू- त्क्रामति' इति श्रुतेरिति भावः ॥ यथासङ्कल्पितमिति ॥ यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम्' इति स्मृतेरिति भावः । इच्छार्थकस्य सङ्कल्पितशब्दस्य स्मृत्यर्थत्वे ज्ञापकमाह- अत एवेति ॥ यथाप्रतीतार्थत्वेऽप्यविरोध इत्याह- स्वाभिप्रेतमिति ॥ अनेनात्मना स्वेन सङ्कल्पितमित्यपि योजनोक्ता भवति ॥ अनेनेति ॥ प्राणरूपस्यैवोत्क्रमणहेतुत्वे तेजसा युक्त इति विशेषणं व्यर्थं स्यात् । अत उदानरूपेण जीवादीन् गृहीत्वा तेन साकं परमात्मानमनूत्क्रामतीति ज्ञेयमित्यर्थः । एवमेवैष प्राण इतरान्प्राणान्पृथक्पृथगेव सन्निधत्त इत्येतदर्थ - सङ्ग्रहाय विभुत्वमित्यस्य स्वाम्यं वेति व्याख्यानान्तरम् ॥ चशब्देनेति ॥ समुच्चितमिति शेषः। बाह्यधारकत्वमादित्यपृथिव्यादिधारकत्वम् । उत्क्रमणं उदानरूपेणेति शेषः॥३-७ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

क्रमोल्लङ्घनस्याभिप्रायमाह- सङ्गतीति ॥ तेजोऽधिष्ठातु- रुदानस्य शरीरावस्थितत्वोपपादनाय सेन्द्रियस्य जीवस्य शरीरादुत्क्रमणोक्ति- प्रसक्तौ सत्यामुदान एव जीवादीनादायोत्क्रमत इति वक्तुं सङ्गतिविशेषो लभ्यत इत्यर्थः ॥ परमात्मन इति ॥ 'तमुत्क्रामन्तं प्राणोऽनूत्क्रामति' इति श्रुतेरिति भावः ॥ यथेति ॥ यं यं वापि स्मरन् भावम्' इति स्मृतेरिति भावः । इष्टार्थस्य सङ्कल्पितशब्दस्य स्मृत्यर्थत्वे ज्ञापकमाह- अत एवेति ॥ यथाप्रतीता- त्वेऽप्यविरोध इत्याह- स्वेति ॥ आत्मनेत्यस्यार्थोऽयमेवेति । प्राणरूपस्यैवो- त्क्रमणहेतुत्वे तेजसा युक्त इति विशेषणं व्यर्थं स्यादित्युदानरूपेण जीवादीन् गृहीत्वा तेन साकं परमात्मानमनूत्क्रामतीति ज्ञेयमित्यर्थः । एवमेवैष प्राण इत्येतदर्थसङ्ग्रहाय विभुत्वमित्यस्य स्वाम्यं वेति व्याख्यानान्तरम्॥ ३-७ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

सङ्गतिविशेषलाभात् केनोत्क्रमत इति प्रश्नस्योत्तरमिदानीमुच्यत- यच्चित्त इति । एष पुरुषो यच्चित्तो मरणकाले यद्विषयचित्तो भवति तेन तद्विषयचित्तेन सह प्राणं मुख्यमायाति तत्समीपं प्राप्नोति । प्राणस्तु तेजसोदानेन युक्तः परमात्मना सह जीवेन यथासङ्कल्पितं तेन जीवेन मरणकाले यादृशः सङ्कल्पितः स्मृतः तथाविधं लोकं शरीरं नयति प्रापयतीति । अत एव यच्चित्त इत्युक्तम्। स्वाभिप्रेतमिति वा । अनेनोदानरूपेणोत्क्रमणमित्युक्तं भवति । एवम्भूत- प्राणविज्ञानस्य फलमुच्यते - य एवमिति । यो विद्वानेवमुक्तलक्षणं प्राणं वेद विजानाति नास्य विदुषः प्रजा विहीयते, अविच्छिन्नसन्तानो भवतीत्यैहिकम्, परत्र चामृतो मुक्तो भवति । तदेष श्लोकः - प्राणस्योत्पत्तिं परमात्मना आयतिं प्रवर्तनं शरीरे तदिच्छया स्थानं पायूपस्थादि, पञ्चधा प्राणादिरूपेण विभुत्वं विविधभवनं स्वाम्यञ्च, तथाऽध्यात्मं धारकत्वं चशब्देन बाह्यधारकत्वमुत्क्रमणं चेत्येतद्विज्ञाय विशेषेण ज्ञात्वाऽमृतं मोक्षमश्नुते प्राप्नोति ॥ ३-७॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

सङ्गतिविशेषलाभात्केनोत्क्रमत इति प्रश्नोत्तरमिदानीमाह- यच्चित्त इति ॥ एष पुरुषो यच्चित्तः मरणकाले यद्विषयचित्तो भवति तेन तद्विषयचित्तेन सह प्राणं मुख्यमायाति। सः प्राणः तेजसोदानेन युक्तः परमात्मना सह जीवं यथासङ्कल्पितं सङ्कल्पः यथाविधः जीवनमरणकाले स्मृतं स्वाभिमतं वा । लोकं शरीरं नयति प्रापयति । एतेनोदानरूपेण उत्क्रमणमित्युक्तं भवति । एवं प्राणज्ञानफलमाह - य एवमिति । यो विद्वानेवमुक्तलक्षणं प्राणं वेद जानाति, अस्य प्रजा न विहीयते। परत्र चामृतो मुक्तो भवति । तत्रैषः श्लोकः सम्मतित्वेन वर्तते । प्राणस्येशादुत्पत्तिं ईशस्यायतिं प्रवर्तनं स्थानं शरीरे तदिच्छयावस्थानं पायूपस्थादिषु पञ्चधा प्राणादिषु विभुत्वं विविधभवनं स्वाम्यं वा आध्यात्मं धारकत्वम् । चशब्देन बाह्यधारकत्वं उत्क्रमणं च गृह्यते । एतद्विज्ञायामृतं मोक्षमश्रुते ॥ ३-७ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

केनोत्क्रमते इत्यस्योत्तरमाह - यच्चित्त इति ॥ सङ्गतिलाभार्थं व्युत्क्रमेण प्रतिवचनम् । एषः पुरुषः जीवः, यच्चित्तः यस्मिन् चित्तं यस्य स तथोक्तः । यदभिप्रेतः भवति, तेन तद्विषयेण चित्तेन सह प्राणं मुख्यप्राणं आयाति तत्समीपं प्राप्नोति । 'यं यं वापि' इति स्मृतेः । प्राणः, तेजसोदानेन रूपेण, युक्तः सन् आत्मना परमात्मना सह यथासङ्कल्पितं जीवनमरणकाले यादृशं सङ्कल्पितं स्मृतं लोकं शरीरं जीवमिति शेषः । नयति प्रापयति । स्वाभिप्रेतमिति यावत् । | उदानरूपेणो- त्क्रमतीत्यर्थः। एवंवेत्तुः फलमाह - य एवं विद्वानिति ॥ यो विद्वान् ज्ञानी एवमुक्तलक्षणं प्राणं वेद । श्रुत्यन्तरसम्मतिमाह - उत्पत्तिमिति ॥ प्राणस्य परमात्मनः सकाशादुत्पर्त्ति आयतिं प्रवर्तनम् । स्थानं सर्वशरीरे पायूपस्थादिषु पञ्चधा प्राणादिरूपेण तदिच्छ्यावस्थानम् । विभुत्वं विविधभवनञ्च | अध्यात्मं अध्यत्मधारकत्वं चशब्दादुत्क्रमणञ्च एतद्विज्ञाय विशेषेण ज्ञात्वा अमृतं मोक्षमश्नुते प्राप्नोति । अधिकारीति शेषः । द्विरुक्तिः प्रमेयावधारणार्था । अतो अखिलगुण- गाढ्य नारायण व जिज्ञास्य इति स्थितम् ॥ ३-७ ॥

॥ इति तृतीयः प्रश्नः ॥