अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया ..

पितृयाणदेवयानसंज्ञकमार्गनिरूपणम्

उपनिषत्

अथोत्तरेण तपसा ब्रह्मचर्येण श्रद्धया विद्ययाऽऽत्मानम- न्विष्याऽदित्यमभिजयन्ते । एतद् वै प्राणानामायतनमेत- दमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्त इत्येष निरोधः । तदेष श्लोकः । पञ्चपादं पितरं द्वादशाकृतिं दिव आहुः परे अर्धे पुरीषिणम् । अथेमे अन्य उ परे विचक्षणं सप्तचक्रे षर आहुरर्पितम् इति ॥ ८ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

अथ ये मुमुक्षवस्तपआदिसाधनैः परमात्मानमन्विष्य विचार्य विदित्वा चोत्तरेणगतास्त आदित्यमभिजयन्ते ततश्च परमं ब्रह्म । यस्मादेतद्वै देवयानेन प्राप्यं परं ब्रह्मैव प्राणानामिन्द्रादीनाम् । आयतनमाधारः । एतदेवामृतमभयं चैतदेव परायणं मुक्तानामप्याश्रयः । अत एतस्मान्न पुनारावर्तन्ते इति तस्मादपुनरावृत्त्य - योग्यानां मार्गनिरोधकत्वादेवैषः आदित्यो 'निरोधोऽविदुषाम्' इत्युच्यते श्रुत्यन्तर इति। यत एवमुत्तरायणेन गतानामपुनरावृत्त्याऽऽदित्यप्राप्तिलक्षणं फलं प्रसिद्धम्, तस्मादादित्याधिष्ठाता प्राण एवोत्तरायणाधिष्ठातेति ज्ञायत इति वाक्यशेषः । आदित्यं प्राप्तानामपुनरावृत्तिरित्यत्र श्रुत्यन्तरसम्मतिरुक्ता - तदेष इति ॥ यच्चोक्तं केचित् पितृयाणेन यान्ति केचिद्देवयानेनेति तत्रैष वक्ष्यमाणः श्लोको मन्त्रः सम्मतित्वेन भवति । हेमन्तशिशिरयोरैक्येन पञ्चर्तवस्तदभिमानिनः पादा अंशा यस्य तं पञ्चपादम्। पितरं प्रजानां पोषकम् । द्वादशमासाभिमानिदेवता आकृतयो रूपाणि, यस्य तं द्वादशाकृतिम् । विचक्षणं विवेकिनम् । सप्तचक्राणि, चङ्क्रम्यते रथ एभिरिति अश्वा यस्यासौ सप्तचक्रः तस्मिन् । षट्सङ्ख्याका अरा यस्यासौ षळरः तस्मिन् रथेऽर्पितं वर्तमानमादित्यं दिवोऽन्तरिक्षस्य परेऽन्यतरस्मिन् किञ्चिदक्षिणाश्रितेऽर्धे भागे गच्छन्तम् । पुरीषमुदकं तदस्यास्तीति तं पुरीषिणं वर्षणहेतुम् । तदुपलक्षितकालाभिमानिदेवतामार्गमिति यावत्, केचित्काम्य- कर्मिणः स्वप्राप्यमाहुः । अथ तेभ्योऽन्ये इमे ज्ञानिनः दिव उ परे परस्मिन् किञ्चिदुत्तराश्रिते भागे गच्छन्तमादित्यं तदुपलक्षितकालाभिमानिदेवतामार्ग स्वप्राप्यमाहुरिति यावत्। तदेतदाह- संवत्सरस्थ इति ॥ ८ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

अथोत्तरायणदेवतया प्राणेन तपआद्यनुष्ठानपूर्वकं परमात्मानं विचार्य ज्ञात्वा तत्प्रसादात्तमेवादिपुरुषमभिसम्पद्यन्ते । एतत्परमात्माख्यमेव हि सर्व-प्राणानामायतनं परायतनं च । एतस्मान्न पुनरावर्तन्ते इति वचनात् एष निरोधः एष उत्तरायणस्थः संसृतेर्निरोधकृत् प्रभञ्जनः प्राण इत्यर्थः ।

उक्तार्थं द्रढयतो मन्त्रवर्णश्लोकस्यायमर्थः । संवत्सरसंस्थस्य विष्णोः पञ्चर्तुसंस्था नारायणादिपञ्चमूर्तयः पञ्चपादा इत्युच्यन्ते । तस्य पुनर्द्वादश- मासस्थाः केशवादिमूर्तयो द्वादशाकृतयश्चोक्ताः । न चात्र 'षड्डा ऋतव' इति

श्रुतिविरोधः । 'द्वादशमासाः पञ्च ऋतवः' इति श्रुत्यन्तरात् । हेमन्तशिशिरयोः समासेन पञ्चर्तवः ।संवत्सरः प्रजापतिः' इति श्रुतिः । मुख्यप्राणसंस्थस्य तु तदीयेषु प्राणादिपञ्चरूपेष्विन्द्रियदेवस्थेषु संस्थितास्ता एव पञ्चर्तवः पादाः आकृतय इति विशेषः । तस्य पुनः सूर्यसंस्थत्वेऽप्ययमेव न्यायः । अथ भगवतस्तेभ्यः पृथक्संस्थत्वापेक्षया स्वमूर्तयोऽपि पृथक्संस्था एव पादादयो वेदितव्याः । तमेतं जगत्पितरं विष्णुं द्युलोकात् परे विशिष्टे दूरस्थे वा समन्ताद् ऋद्धे वैकुण्ठलोके पुरीषिणं स्वपुर्यां निषीदन्तमाहुर्वेदविदः । अथ परे विशिष्टचेतने भक्त्यादिभिरासमन्तादृद्ध सति तस्मै पुरीषिणं स्वपुरं दातुमिच्छन्तमाहुरौपनिषदः । अपि च अपरे पुण्यकृत्पुरुषे द्युलोकादीषद्रोगर्द्ध पुरीषिणं तस्य पुनर्देहोत्पादनेच्छुमाहुर्ब्रह्मविदः । अथ मुख्यप्राणमपि पञ्चद्वादशरूपिणं शेषादिदेवपितरं सर्वजीवशरीरेषु नियन्तुं निषण्णं द्युदेव्याः परेऽर्धे दक्षिणभागे संस्थितमाहुः प्राणादिवादिनः । सूर्यं तपन्तं च दिगन्तरश्मिं द्वादशात्मानं दिवोर्ध्वभागे गगनमध्ये पुरोभागात् पुनः पुनरुदेष्यन्तमाहु- ज्योतिर्वेदिनः 'तस्य ये प्राञ्चो रश्मयः' इत्यारभ्योर्ध्वं रश्मिपर्यन्ताः पञ्चविधा हि रश्मयः सूर्यस्योच्यन्ते । किञ्च पञ्चद्वादशाद्यनन्तरूपिणं ब्रह्मवाय्वोः पितरं नारायणं परायुषि काख्यब्रह्मणि ज्ञानकर्मभिः समृद्धे सति तस्य पुरीषिण- माहुर्वेदान्तिनः । 'अन्नं वा इषणम्' इति हि श्रुतिः । एवमादीनर्थविशेषान् सुबहूनाहुरधिदैवज्ञाः । अथ तेभ्योऽन्येऽध्यात्मज्ञा इमेऽस्मत्सखायः शतर्चिनः विचक्षणं विष्णुं उपरे शरीरे नियामकत्वेनार्पितं स्थितमाहुः । अथवा जीवेन स्वशरीरे हृदये ध्यानेन निहितमाहुः । समीपस्थं चेदं रमणस्थानं च दास्यतीत्युपरं शरीरम् । तदेतत्सप्तधातुरूपत्वात् सप्तचक्र-मित्युक्तम् । सप्तपादायामत्वाद्वा सप्त- चक्रम् । चङ्कमणाच्च चक्रशब्दितं पदम् । अथ सप्तपादमानेन न्यग्रोधपरिमण्डल- त्वाच्चक्रसमं चेदम्। अतः षडङ्गत्वात् षडरमित्युक्तम् ॥ १-८ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

'तस्मादादित्याधिष्ठाता प्राण एव' इत्यत्र 'विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया' इति स्मृतेः, 'तत्पुरुषो मानवः स एनान् ब्रह्म गमयति' इति श्रुतेश्च प्राणस्य मोक्षदायकत्वादिति भावः । ' हेमन्तशिशिरयोरैक्येन' इत्यत्र

अभिमानिदेवतयोरभिमन्यमानकालयोश्च द्वित्वेऽपि कालगुणभूतहिमस्यैकत्वा- दभिमन्यमानयोरभिमानिनोश्चैकत्वोक्तिरिति ज्ञेयम् ॥ ८ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

|| तदुपलक्षितेति ॥ अनेन उपलक्षणया वृत्त्या दक्षिणायनाभिमानि- देवताप्राप्तिकथनेन सूर्यप्राप्तिर्वारिता । एवमुत्तरत्र उत्तरायणदेवतोपलक्षणकथनेन तत्र सूर्यप्राप्त्यभावप्रतीतावपि तदुत्तरत्र पूर्वोक्तं 'प्रजापं सूर्यमेव च' इति प्रमाणानुसारेण सूर्यप्राप्तिर्ज्ञातव्या ॥ १-८ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

॥ हेमन्तेति ॥ ' द्वादशमासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन । तावान् संवत्सरः । संवत्सरः प्रजापतिः' द्वादशमासाः पञ्चर्तवः। हेमन्त - शिशिरयोः समासेन पञ्चर्तवः । तावान् संवत्सरः । संवत्सरः प्रजापतिः ' इति श्रुतेरिति भावः । 'सप्त युञ्जन्ति रथमेकचक्रम्' इति श्रुत्यविरोधायार्थमाह- सप्तचक्रणीति ॥ किञ्चिद्दक्षिणाश्रितभागे विद्यमानमादित्यं काम्यकर्मिणः स्वप्राप्यमाहुरित्यसङ्गतम्। अस्य दक्षिणायनकालाभिमानिदेवतालोकद्वारेण चन्द्रलोकप्राप्तिरित्यत्रामानत्वादित्यत आह- तदुपलक्षितेति ॥ १८ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

।। उत्तरेणेति ॥ उत्तरायणेन मार्गेण देवयानेनेत्यर्थः । एतदित्युत्तरत्रानुवादादाह- ततश्च परमं ब्रह्मेति ॥ प्राणानामायतनत्वादिक- मेतस्मान्न पुनरावर्तन्त इत्यत्र हेतुतयोक्तमित्यभिप्रेत्य योजयति - यस्मादिति ॥ एतद्वा इत्यत्र विद्यमानो वैशब्दोऽवधारणार्थ इत्यभिप्रेत्याह-- एतद्वै देवयानेन प्राप्यं परं ब्रह्मैवेति ॥ इतीत्यनूद्य तस्मादिति व्याख्यातम् । तस्यैव विवरणम्- अपुनरावृत्त्ययोग्यानां मार्गनिरोधकत्वादेवेति || ' निरोधोऽविदुषाम्' इति च्छन्दोगश्रुतिवाक्यम् । 'एष वै रयिर्य: पितृयाण:' इतिवत् 'एष वै प्राणो यो देवयानः' इतिएष निरोधः' इत्यनन्तरं श्रुतौ वक्तव्यस्यानुक्तेर्न्यूनतामाशङ्कय पूर्ववाक्यार्थस्याध्याहरिष्यमाणवाक्यार्थे हेतुतामभिप्रेत्य हेतुहेतुमद्भावं व्यञ्ज- यन्नध्याहरति- यत एवमिति ॥ गम्यस्यैव स्वप्राप्तिमार्गतदभिमानिदेवता- स्वाम्यस्य वक्तव्यत्वादादित्यान्तर्गतप्राणस्य स्वप्राप्तिहेतुभूतदेवयाननामक- मार्गाधिष्ठात्रुत्तरायणाभिमानिदेवतामधिष्ठाय तन्नियन्तृत्वे वक्तव्ये तदभि-मन्यमानोत्तरायणनियन्तृत्वमपि वाच्यमिति तदधिष्ठातृत्वं सेत्स्यतीति भावः । उक्तवक्ष्यमाणश्रुत्योर्विषयभेदप्रदर्शनायोक्तमनूद्य तदेष इति वाक्यं गृहीत्वा व्याचष्टे - आदित्यमित्यादिना || अंशाः प्रतिबिम्बाः रूपाणि प्रतिमाः । सूर्य- रथस्य सप्त युञ्जन्ति रथमेकचक्रम्' इति एकचक्रत्वात्सप्तचक्र इत्येतत्सप्त- चक्राणीत्यादिनाऽन्यथा व्याख्यातम् । पुरीषिणमिति विशेषणाद्दक्षिणाश्रितभाग इति सिद्ध्यति ॥ १-८ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

'निरोधोऽविदुषाम्' इति श्रुतिः छन्दोगश्रुतिवाक्यम् । उक्त- वक्ष्यमाणश्रुत्योर्विषयभेदेन दर्शनायोक्तमनूद्य तदेष इति वाक्यं गृहीत्वा व्याचष्टे- आदित्यमित्यादिना ॥ हेमन्तशिशिरयोरिति ॥ ' द्वादशमासाः पञ्चर्तवो हेमन्तशिशिरयोः समासेन' इति ब्राह्मणवाक्यादिति भावः । अंशाः प्रतिबिम्ब- रूपाणि प्रतिष्ठाः । सूर्यरथस्य सप्त युञ्जन्ति रथमेकचक्रम्' इति एकचक्रत्वा- त्सप्तरथ इत्येतदन्यथाव्याख्यातम् । पुरीषिणमिति विशेषणात् दक्षिणाश्रिते भागे सिद्ध्यति ॥ तदुपलक्षित इति ॥ दक्षिणभागगत्युपलक्षितो यः काल- स्तदभिमानिदेवतामार्गमित्यर्थः ॥ १-८ ॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

सप्त युञ्जन्ति रथमेकचक्रमिति श्रुत्यनुसारेणार्थमाह - सप्तेति । । किञ्चिद्दक्षिणाश्रिते भागे विद्यमानमादित्यं काम्यकर्मिणः स्वप्राप्यमाहुरित्य- सङ्गतम् । अस्य दक्षिणायनाभिमानिदेवतालोकद्वारेण चन्द्रलोकप्राप्तिरित्यत्रा- मानत्वादित्यत आह- तदुपलक्षितेति ॥ १-८ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

अथ ये मुमुक्षवस्तपआदिसाधनैः परमात्मानमन्विष्य विचार्य विदित्वा चोत्तरायणेन गतास्त आदित्यमभिजयन्ते । ततश्च परमं ब्रह्म यस्मादेतद्वै देवयानेन प्राप्यं ब्रह्मैव प्राणानामिन्द्रादीनामायतनमाधारः । एतदेवामृतमभयं च । एतदेव परायणं मुक्तानामप्याश्रयः । अत एतस्मान्न पुनरावर्तन्त इति तस्माद पुनरावृत्त्ययोग्यानां मार्गनिरोधकत्वादेव 'एष आदित्यो निरोधोऽविदुषाम्' इत्युच्यते श्रुत्यन्तर इति । यत एवमुत्तरायणेन गतानामपुनरावृत्तिमदादित्यलोकप्राप्तिलक्षणं फलं प्रसिद्धम्, तस्मादादित्याधिष्ठाता प्राण एवोत्तरायणाधिष्ठातेति ज्ञायत इति वाक्यशेषः ।आदित्यं प्राप्तानामपुनरावृत्तिरित्यत्र श्रुत्यन्तरसम्मतिरुच्यते । यदत्रोक्तं केचित्पितृयाणेन यान्ति केचिद्देवयानेनेति तत्रैष वक्ष्यमाणः श्लोको मन्त्रः सम्मतित्वेन भवति । हेमन्तशिशिरयोरैक्येन पञ्च ऋतवः, तदभिमानिनः : पादाः अंशा यस्य तं पञ्चपादम् । पितरं प्रजानां पालकम् । द्वादशमासाभिमानिदेवा आकृतयो रूपणि यस्य तं द्वादशाकृतिम् । विचक्षणं विवेकिनम् । सप्त चक्राणि, चङ्क्रम्यते रथ एभिरित्यश्वा यस्यासौ सप्तचक्रः । षट्सङ्ख्याकाः अराः यस्यासौ षऴरः । तस्मिन्नर्पितं वर्तमानम् । आदित्यं दिवोऽन्तरिक्षस्य परेऽन्यतरस्मिन् किञ्चिद्दक्षिणा - श्रितभागे गच्छन्तम् । पुरीषमुदकं तदस्यास्तीति पुरीषिणम् । वर्षणहेतुं तदुपलक्षितकालाभिमानिदेवतामार्गमिति यावत् । केचित् काम्यकर्मिणः स्वप्राप्यमाहुः । अथ तेभ्योऽन्ये इमे ज्ञानिनो दिव उ परे परस्मिन् किञ्चिदुत्तराश्रिते भागे गच्छन्तमादित्यं तदुपलक्षितकालाभिमानिदेवतामार्ग स्वप्राप्यमाहुरिति यावत् ।। १-८ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

अथ ये मुमुक्षवः तपआदिसाधनैः परमात्मानमन्विष्य विचार्य विदित्वा चापरोक्षतः उत्तरेण गताः ते आदित्यमभिजयन्ते । ततश्च परब्रह्म प्राप्नुवन्ति । यस्माद्देवयानेन प्राप्यमेतत् परं ब्रह्मैव प्राणानां इन्द्रादीनां आयतनमाधारः । एतदेवामृतं अभयं चैतदेव परायणं मुक्तानामायतनमाश्रयः । अत एतस्माद्देव- यानगम्याः ब्रह्मणो न पुनरावर्तन्त इति हेतोः एष आदित्योऽयोग्यानां मार्गनिरोधकत्वादज्ञानां निरोध इत्युच्यते ।

श्रुत्यन्तरे केचिदुत्तरायणेन केचिद्दक्षिणायनेन यान्तीत्यत्र एषः वक्ष्यमाणः श्लोकः मन्त्रः सम्मतित्वेन भवति । हेमन्तशिशिरयोरैक्येन पञ्च ऋतवः तदभिमानिनः । पञ्च पादा अंशा यस्य तं पञ्चपादम् । पितरं प्रजानां पोषकम् । द्वादशमासाभिमानिदेवताः आकृतयो रूपाणि यस्य तं द्वादशाकृतिम् । विचक्षणं विवेकिनम् । चङ्क्रमत्येष रथ एभिरिति चक्राणि अश्वाः सप्त चक्राणि यस्यासौ सप्तचक्रः। षट्सङ्ख्याकाः अराः यस्यासौ षडरः । तस्मिन्रथे अर्पितं वर्तमानं आदित्यं दिवः अन्तरिक्षस्य परे अन्यतरस्मिन् किञ्चिद्दक्षिणाश्रितभागे गच्छन्तं पुरीषमुदकं अस्मिन् स्थितं पुरीषिणं वर्षणहेतुम् । आदित्यं तदुपलक्षित-मन्यमानोत्तरायणनियन्तृत्वमपि वाच्यमिति तदधिष्ठातृत्वं सेत्स्यतीति भावः । उक्तवक्ष्यमाणश्रुत्योर्विषयभेदप्रदर्शनायोक्तमनूद्य तदेष इति वाक्यं गृहीत्वा व्याचष्टे - आदित्यमित्यादिना ॥ अंशाः प्रतिबिम्बाः रूपाणि प्रतिमाः । सूर्य- रथस्य 'सप्त युञ्जन्ति रथमेकचक्रम्' इति एकचक्रत्वात्सप्तचक्र इत्येतत्सप्त- चक्राणीत्यादिनाऽन्यथा व्याख्यातम् । पुरीषिणमिति विशेषणाद्दक्षिणाश्रितभाग इति सिद्ध्यति ॥ १-८ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

'निरोधोऽविदुषाम्' इति श्रुतिः छन्दोगश्रुतिवाक्यम् । उक्त- वक्ष्यमाणश्रुत्योर्विषयभेदेन दर्शनायोक्तमनूद्य तदेष इति वाक्यं गृहीत्वा व्याचष्टे- आदित्यमित्यादिना ॥ हेमन्तशिशिरयोरिति ॥ ' द्वादशमासाः पञ्चर्तवो हेमन्त शिशिरयोः समासेन' इति ब्राह्मणवाक्यादिति भावः । अंशाः प्रतिबिम्ब- रूपाणि प्रतिष्ठाः । सूर्यरथस्य सप्त युञ्जन्ति रथमेकचक्रम्' इति एकचक्रत्वा- त्सप्तरथ इत्येतदन्यथाव्याख्यातम् । पुरीषिणमिति विशेषणात् दक्षिणाश्रिते भागे सिद्ध्यति ॥ तदुपलक्षित इति ॥ दक्षिणभागगत्युपलक्षितो यः काल- स्तदभिमानिदेवतामार्गमित्यर्थः ॥ १-८ ॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

सप्त युञ्जन्ति रथमेकचक्रमिति श्रुत्यनुसारेणार्थमाह - सप्तेति । । किञ्चिद्दक्षिणाश्रिते भागे विद्यमानमादित्यं काम्यकर्मिणः स्वप्राप्यमाहुरित्य- सङ्गतम् । अस्य दक्षिणायनाभिमानिदेवतालोकद्वारेण चन्द्रलोकप्राप्तिरित्यत्रा- मानत्वादित्यत आह- तदुपलक्षितेति ॥ १-८ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

अथ ये मुमुक्षवस्तपआदिसाधनैः परमात्मानमन्विष्य विचार्य विदित्वा चोत्तरायणेन गतास्त आदित्यमभिजयन्ते । ततश्च परमं ब्रह्म यस्मादेतद्वै देवयानेन प्राप्यं ब्रह्मैव प्राणानामिन्द्रादीनामायतनमाधारः । एतदेवामृतमभयं च । एतदेव परायणं मुक्तानामप्याश्रयः । अत एतस्मान्न पुनरावर्तन्त इति तस्माद पुनरावृत्त्ययोग्यानां मार्गनिरोधकत्वादेव 'एष आदित्यो निरोधोऽविदुषाम्' इत्युच्यते श्रुत्यन्तर इति । यत एवमुत्तरायणेन गतानामपुनरावृत्तिमदादित्यलोकप्राप्तिलक्षणं फलं प्रसिद्धम्, तस्मादादित्याधिष्ठाता प्राण एवोत्तरायणाधिष्ठातेति ज्ञायत इति वाक्यशेषः ।आदित्यं प्राप्तानामपुनरावृत्तिरित्यत्र श्रुत्यन्तरसम्मतिरुच्यते । यदत्रोक्तं केचित्पितृयाणेन यान्ति केचिद्देवयानेनेति तत्रैष वक्ष्यमाणः श्लोको मन्त्रः सम्मतित्वेन भवति । हेमन्तशिशिरयोरैक्येन पञ्च ऋतवः, तदभिमानिनः पादाः I अंशा यस्य तं पञ्चपादम् । पितरं प्रजानां पालकम् । द्वादशमासाभिमानिदेवा आकृतयो रूपणि यस्य तं द्वादशाकृतिम् । विचक्षणं विवेकिनम् । सप्त चक्राणि, चङ्क्रम्यते रथ एभिरित्यश्वा यस्यासौ सप्तचक्रः । षट्सङ्खयाकाः अराः यस्यासौ षळरः। तस्मिन्नर्पितं वर्तमानम् । आदित्यं दिवोऽन्तरिक्षस्य परेऽन्यतरस्मिन् किञ्चिद्दक्षिणा - श्रितभागे गच्छन्तम् । पुरीषमुदकं तदस्यास्तीति पुरीषिणम् । वर्षणहेतुं तदुपलक्षितकालाभिमानिदेवतामार्गमिति यावत् । केचित् काम्यकर्मिणः स्वप्राप्यमाहुः । अथ तेभ्योऽन्ये इमे ज्ञानिनो दिव उ परे परस्मिन् किञ्चिदुत्तराश्रिते भागे गच्छन्तमादित्यं तदुपलक्षितकालाभिमानिदेवतामार्गं स्वप्राप्यमाहुरिति यावत् ॥ १-८ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

अथ ये मुमुक्षवः तपआदिसाधनैः परमात्मानमन्विष्य विचार्य विदित्वा चापरोक्षतः उत्तरेण गताः ते आदित्यमभिजयन्ते । ततश्च परब्रह्म प्राप्नुवन्ति । यस्माद्देवयानेन प्राप्यमेतत् परं ब्रह्मैव प्राणानां इन्द्रादीनां आयतनमाधारः । एतदेवामृतं अभयं चैतदेव परायणं मुक्तानामायतनमाश्रयः । अत एतस्माद्देव- यानगम्याः ब्रह्मणो न पुनरावर्तन्त इति हेतोः एष आदित्योऽयोग्यानां मार्गनिरोधकत्वादज्ञानां निरोध इत्युच्यते ।

श्रुत्यन्तरे केचिदुत्तरायणेन केचिद्दक्षिणायनेन यान्तीत्यत्र एषः वक्ष्यमाणः श्लोकः मन्त्रः सम्मतित्वेन भवति । हेमन्तशिशिरयोरैक्येन पञ्च ऋतवः तदभिमानिनः। पञ्च पादा अंशा यस्य तं पञ्चपादम् । पितरं प्रजानां पोषकम् । द्वादशमासाभिमानिदेवताः आकृतयो रूपाणि यस्य तं द्वादशाकृतिम् । विचक्षणं विवेकिनम् । चङ्कमत्येष रथ एभिरिति चक्राणि अश्वाः सप्त चक्राणि यस्यासौ सप्तचक्रः। षट्सङ्ख्याकाः अराः यस्यासौ षडरः । तस्मिन्रथे अर्पितं वर्तमानं आदित्यं दिवः अन्तरिक्षस्य परे अन्यतरस्मिन् किञ्चिद्दक्षिणाश्रितभागे गच्छन्तं पुरीषमुदकं अस्मिन् स्थितं पुरीषिणं वर्षणहेतुम् । आदित्यं तदुपलक्षित-दक्षिणायनकालाभिमानिदेवतामार्गम् । केचित्काम्यकर्मिणः स्वप्राप्यमाहुः । अथ तेभ्यः अन्ये इमे ज्ञानिनः दिवः उ परे अपरस्मिन् किञ्चिदुत्तराश्रिते भागे गच्छन्तं आदित्यं तदुपलक्षितोत्तरायणकालाभिमानिंदेवतामार्गं स्वप्राप्यमाहुः॥ १-८ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

देवयानगतानाहअथेत्यादिना ॥ अथेति पूर्वोक्ताद्विशेषं सूचयति । ये मुमुक्षवः तपसा ब्रह्मचर्येण । तपःसाधनभूतेन श्रद्धया आस्तिक्यबुद्ध्या । आत्मविद्यया परमात्मनः सर्वव्याप्तत्वसर्वोत्कृष्टत्वादिज्ञानेन । आत्मानं परमात्मानम् । अन्विष्य विचार्य विदित्वा च । उत्तरेण देवयानेन गतास्ते आदित्यमभिजयन्ते प्राप्नुवन्ति । ततः परं ब्रह्म एतद्देवयानप्राप्यं ब्रह्मैव । प्राणानामिन्द्रादीनां आयतनं मुख्याश्रयः । एतदमृतं मुक्तस्थानम् । अभयं निर्दोषं निर्भयञ्च । एतत्परायणं मुक्तानामाश्रयभूतम् । एतस्मान्न पुनरावर्तन्ते। संसारं प्रतीति शेषः । इति हेतोः एष आदित्यः निरोधः मार्गनिरोधकत्वादेव निरोध इत्युच्यत इत्यर्थः। ततः उत्तरायणेन गतानामपुनरावृत्त्या आदित्यप्राप्तिलक्षणं फल- मुक्तम् । तस्मादादित्याधिष्ठाता प्राण एव उत्तरायणाधिष्ठातेति भावः ।

आदित्यं प्राप्तानामपुनरावृत्तित्वे श्रुतिसम्मतिमाह वेदपुरुषः- तदेष श्लोक इति ॥ तत् तत्र एषः श्लोकः मन्त्रः सम्मतित्वेन भवतीत्यर्थः । तां श्रुतिमेवाह- पञ्चपादमित्यादिना ॥ पञ्च ऋतवः हेमन्तशिशिरयोरैक्याभिप्रायेण पञ्चत्वम्। पादा अंशा यस्येति तम् । पितरं पोषकम् । द्वादशमासाभिमानिनो देवा आकृतयः रूपाणि यस्येति तम् । विचक्षणं विवेकिनम् । सप्तचक्रे सप्त चक्राणि चङ्क्रम्यते एभिरिति अश्वाः यस्य । षट् अरा यस्य षळरः डळयोरभेदात्। तस्मिन् रथे अर्पितं वर्तमानम् । आदित्यं दिवोऽन्तरिक्षस्य । परे अन्यतरस्मिन्नर्थे भागे दक्षिणाश्रिते । गच्छन्तम् । पुरीषमुदकमस्यास्तीति पुरीषिणम्। वर्षणहेतु- कालाभिमानिदेवतामार्गमिति यावत् । स्वप्राप्यमाहुः । काम्यकर्मिण इति शेषः । पितृयाणगतानामेतत्फलं भवतीत्यर्थः । अथानन्तरं तेभ्योऽन्ये इमे ज्ञानिनः । उ निश्चयेन । परे परस्मिन् किञ्चिदुत्तराश्रिते भागे । विचक्षणं गच्छन्तं आदित्वं कालाभिमानिदेवतामार्गं स्वप्राप्यमाहुः । देवयानेन गतानां परमात्मप्राप्तिर्भवतीति भावः ॥ १-८ ॥