स मिथुनमुत्पादयते

पिप्पलादस्य उत्तरम् । तत्र तावत् प्रजापतिना रयिप्राणरूपमिथुनसृष्टिः

उपनिषत्

स मिथुनमुत्पादयते । रयिं च प्राणं चेत्येतौ मे बहुधा

प्रजाः करिष्यत इति । आदित्यो ह वै प्राणो रयिरेव चन्द्रमाः ॥। ४ ॥

भाष्यम्

प्रजानां पालनाद्विष्णुः प्रजापतिरितीरितः ।

स वायुं सूर्यनामानं चन्द्रनाम्नीं सरस्वतीम् ॥

सूर्याचन्द्रगतौ देवः ससर्ज पुरुषोत्तमः ।

तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

आलोचितकार्यश्च स प्रजापतिर्मिथुनं स्त्रीपुरुषरूपं द्वन्द्वमुत्पादयते उदपादयत्। किं तत् ? रयिं वित्ताभिमानिनीं भारतीम् । प्राणं मुख्यं चेत्येतत् । ननु सर्वाः प्रजाः सिसृक्षुः परमेश्वरः कथं तौ उदपादयदिति । एवं मन्यते स्म प्रजापतिः । एतौ रयिप्राणौ मे मम बहुविधाः प्रजाः करिष्यत इति । एतावाविश्याहं प्रजाः स्रक्ष्यामि इमौ प्रजासर्जने मम निमित्तीभविष्यत इति । अभूतां च तौ प्रजापतेः प्रजासर्गे निमित्तमित्युच्यते-- आदित्य इत्यादिना ।। ततोऽसौ प्राणः प्रजापतिना आदित्यादिषु सृष्टेष्वादित्यः आदित्यनामा आदित्यं प्रविष्टो बभूव । रयिरेव रयिरपि चन्द्रमाः चन्द्रमानाम्नी चन्द्रमसमाविष्टा बभूव । एवं सूर्याचन्द्रगतौ तावाविश्य तौ निमित्तीकृत्य प्रजापतिः प्रजाः ससर्जेति वाक्यशेषः तदेतदाह- प्रजानामिति सूर्याचन्द्रनामानौ तौ सूर्याचन्द्रगतौ चकारेति योज्यम् ॥ १-४॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

'आदित्यो ह वै प्राण' इत्यत्र सूर्यनामा मुख्यवायुरुच्यते रयिरिति च चन्द्रनाम्नी सरस्वती सूर्यचन्द्रस्थत्वात्तयोः ॥ १-४ ॥

श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

प्राणञ्च रयिञ्चेत्येतन्मिथुनमित्यन्वयः । उपनिषदि रयिप्राणयोः सूर्याचन्द्रमसोः प्रवेशमात्रकथनेन भगवतस्तौ निमित्तीकृत्य स्वसृष्टत्वं न लभ्यत इत्यसङ्गतिरित्यतः भाष्यानुसारेण श्रुतावध्याहरति- एवं सूर्याचन्द्रगताविति ॥

तञ्च क्रमं तत्रैव दर्शयिष्यामः । किमिति ? भगवन् कुतो निमित्तकारणात् पुरुषादिमा देवाद्याः प्रजाः सर्वा उत्पद्यन्त इति । हवा इति प्रजानां प्रजननस्य सुप्रसिद्धताद्योतकौ निपातौ । प्रजननस्य कर्तृसापेक्षत्वादस्मदादीनां चेतनानां अस्वतन्त्रत्वादीश्वरस्यादर्शनादिति प्रश्नाभिप्रायः । प्रत्यक्षागोचरत्वेऽपि स्वसृष्ट- प्राणादीन् निमित्तीकृत्य ईश्वर: सृजतीति श्रुतिस्मृतिसिद्धार्थाङ्गीकारे न कोऽपि विरोध इत्याशयवान् तस्मै पृष्टवते कात्यायनाय स पिप्पलाद उवाच किल किमिति ? प्रजानां ब्रह्मादीनां पतिः पालकः परमेश्वरः किलात्मनः प्रजाकामः देवादिप्रजावत्त्वं आत्मनः इच्छन्नवर्तत । अथ सर्वज्ञोऽपि लोक - विडम्बनाय स तपोऽतप्यत कर्तव्यं अन्वालोचयत् ॥ १-३ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

गुरुणा आज्ञापितास्ते किमकार्षुरित्यत आह- अथेत्यादिना ॥ अथ तदुक्तनियमानन्तरं तेषु कबन्धी कात्यायनः उपेत्य समीपमागत्य गुरुं पप्रच्छ प्रश्नं कृतवान् । पाठक्रमापेक्षया अर्थक्रमस्य बलीयस्त्वेन पश्चादुक्तस्यापि प्राथम्योक्तिर्युक्ता । एवमुत्तरत्रापि ज्ञेयम् । प्रश्नमेवाह - भगवन्निति॥ हे भगवन् पूज्य । कुतः कस्मान्निमित्तकारणात् पुरुषात् । इमा देवाद्याः प्रजाः प्रजायन्ते उत्पद्यन्ते । प्रजाजननं च सुप्रसिद्धमिति हवेत्येताभ्यामाह । उत्पत्तिश्च विना कारणमसम्भाविनी केवलाचेतनानां कारणत्वादर्शनात् । जीवस्य चास्वातन्त्र्यात् । ईश्वरस्य चानुपलब्धेरिति प्रश्नाशयः । एवं पृष्टवते तस्मै कात्यायनाय स मुनिः हेति सहर्षमुवाच उत्तरं दत्तवान् । यद्यपि भगवान् न प्रत्यक्षगोचरः कुलाल इव । तथापि जगत्कारणीभूतान् प्राणादीनुत्पाद्य तेष्वाविश्य तान्निमित्तीकृत्य प्रजा उत्पादयतीति न कश्चिद्विरोध इत्याशयेन प्रतिवचनमाह गुरुः- प्रजाकाम इति ॥ प्रजानां ब्रह्मादीनां पतिः पालकः भगवान्, कल्पादौ प्रजाकामः प्रजासु कामो यस्येति देवादिप्रजावत्त्वमात्मन इच्छन् इत्यर्थः । अवर्तत इति शेषः । ह वै प्रसिद्धम् । स सर्वज्ञोऽपि भगवान् लोकविडम्बनार्थं तपोऽतप्यत कर्तव्य- मन्वालोचयत्। आलोचनं च तज्ज्ञानात्मकमेव ॥ १- ३ ॥