अत्रैष देवः स्वप्ने महिमानमनुभवति ..

स्वप्ने जीवस्य महत्त्वनीचत्वानुभवप्रकारः - शरीरशब्दार्थविचारः

उपनिषत्

अत्रैष देवः स्वप्ने महिमानमनुभवति यद् दृष्टं दृष्टमनुपश्यति श्रुतं श्रुतमेवार्थमनुशृणोति देशदिगन्तरे च । प्रत्यनुभूतं पुनः पुनः प्रत्यनुभवति । दृष्टं चादृष्टञ्च श्रुतं चाश्रुतञ्चानुभूतञ्चाननुभूतञ्च सच्चासच्च सर्वं पश्यति सर्वः पश्यति । स यदा तेजसाऽभिभूतो भवत्यत्रैष देवः स्वप्नान्न पश्यति। अथ यदेतस्मिञ्छरीरे सुखं भवति || ||

भाष्यम्

भगवतः शरीरवत् सादृश्ययुक्ते जीवे सुखं भवति ।

कस्यैतत्सुखं भवतीति पृष्टत्वात् ।

न ह्यचेतनस्य शरीरस्य सुखं भवति ।

यस्याऽत्मा शरीरमिति च श्रुतिः ।

'सादृश्याद्देहवज्जीवो विष्णोस्तस्य सुखं भवेत् ।

सुप्तौ तस्य सुखार्थं हि भगवान् सुप्तिमानयेत् ॥' इति च ॥ ४ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

तृतीयस्य परिहारं उच्यते- अत्रेत्यादि । अत्रैतस्यामवस्थायां, मनोव्यतिरिक्तेन्द्रियोपरमे इति यावत् । एष देवो मनोनामा तेनानुगृहीतो जीव इति यावत् । स्वप्ने महिमानमात्मनो महत्त्वमन्यच्चानुभवति । तत्र च यमर्थं पश्यति तं प्राग्दृष्टमेवानुपश्यति । यः प्राक्श्रुतस्तं श्रुतमेवार्थं शब्दं स्वप्नेऽनुशृणोति । एवमन्यदप्यनुभूतमेवानुभवति । नाननुभूतम् । किमस्मिन्नेव देशेऽनुभूतमेवा- नुभवति ? , किन्तु देशान्तरे दिगन्तरे च यत्प्रत्यनुभूतं पुनः पुनरनुभूतं तदेव स्वप्ने पुनः पुनः प्रत्यनुभवति । भ्रान्त्या तदेवेदमिति प्रत्यभिजानाति । नाप्यस्मिन्नेव जन्मन्यनुभूतमनुभवतीति नियमः । किन्त्वस्मिन्जन्मनि दृष्टमदृष्टञ्च, जन्मान्तरे दृष्टम् । एवमुत्तरत्रापि। अनुभूतम्। अननुभूतमिन्द्रियान्तरेण । सच्च तदानीम्, असच्च निवृत्तं चेत्येवं सर्वं पश्यति । स्वयं च सर्वोऽनेकप्रकारः संस्तत्पश्यति ।

चतुर्थं परिहर्तुमुच्यते - स यदेत्यादि । एवं स्वप्ने वर्तमानः स जीवो यदा तेजसा भगवदीयेनाभिभूतः आवृतो भवति, भगवन्तं प्रविशतीति यावत् । | अत्रैतस्यां सुषुप्तिसञ्ज्ञायामवस्थायामेव देवो मनः स्वप्नान्न पश्यति। मनसोऽप्युपरतत्वान्न जीवः स्वप्नान् पश्यतीति यावत्। यस्मादेवं परमेश्वरतेजसाऽभिभूतो भवत्यथ तस्मात्तत्सन्निधानसामर्थ्योद्भूतं यत्सुखं तदस्मिन्शरीरे भवतीति न काचिदनु- पपत्तिरिति ।

अत्र शरीरशब्देन प्रसिद्धं शरीरमेवोच्यत इत्यन्यथाप्रतीतिनिरासायाऽऽह- भगवत इति ॥ प्रातीतिक एवार्थः किन्न स्यादित्यत आह- कस्येति ॥ कस्यैतत्सुखं भवतीति प्रश्नस्य हीदमुत्तरम् । नतु कुत्र जीवस्य सुखं भवतीति प्रश्नोऽस्ति । येन शरीरे प्रसिद्धे सुखं भवतीति परिहारः सङ्गतः स्यात् । अतः शरीरशब्देन परेणापि जीवो लक्षणीयः । ततो वरं शरीरशब्दस्तद्वाचकः इत्यङ्गी- करणमिति भावः । ननु प्रसिद्धशरीरस्यैव सुखं भवतु । ततो लक्षणाश्रयणमन्तरेणैव प्रश्नानुगुण्यं परिहारस्य भविष्यतीत्यत आह- नहीति । ननु भवताऽपि शरीर-शब्दस्य जीवे गौणी वृत्तिराश्रीयते । यथा भगवच्छरीरं भगवत्सदृशमेवं जीवोऽपि भगवच्छरीरमुच्यत इत्युक्तत्वात् । मयाऽपि शरीरशब्देन शरीरी लक्ष्यत इत्युच्यते । अतः को विशेष इत्यत आह- यस्येति । न जीवे शरीरशब्दो गौणोऽङ्गीक्रियते । येनाविशेषः स्यात् । किन्नाम, अबाधितश्रौतप्रयोगबलात्तद्वाचक एवाभ्युपगम्यते । तथाऽपि जीवादि - प्रसिद्धशब्दं परित्यज्याप्रसिद्धशरीरशब्दोपादाने किं तात्पर्यमिति शङ्कानिरासाय भगवतः शरीरवत्सादृश्ययुक्तो जीव इति तात्पर्यमनेनोक्तम्। तथाहिसुप्तौ सर्वेन्द्रियाणामुपरतत्वात्किं निमित्तं सुखम्, केन जीवोऽनुभवतीत्यभिप्रायेण पृष्टे परमेश्वरसन्निधानसामर्थ्योद्भूतं सुखमात्मस्वरूपज्ञानेनासावनुभवतीति परिहारोऽभि - प्रेतः। तत्राऽऽत्मनो ज्ञानस्वरूपत्वज्ञापनाय प्रसिद्धपदपरित्यागेन एतत्पदप्रयोग इति भावः । स्मृतिसमाख्यानाच्चायमेवार्थ इत्याह- सादृश्यादिति ॥ सादृश्यञ्च ज्ञानस्वरूपत्वम् ॥ ४ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

कतर एष देवः स्वप्नान् पश्यतीत्यस्योत्तरमाह - अत्रैष देव इति ॥ अत्र ब्रह्मसमीपे एष देवः पञ्चधा वर्तमानः मुख्यप्राणस्तु भगवन्महिमान - मनुभवति । यथा सर्वं पश्यति ब्रह्माख्यो विष्णुदेवस्तु स्वमहिमानं स्वयमेवा- नुभवति । 'न ते महित्वमन्वश्नुवन्ति' इत्यादेरयं भावः । जीवो जाग्रदवस्थायां दृष्टं दृष्टं स्वप्नेऽनुपश्यति । तत्प्रकटनादिभिः स्वप्नः भगवन्महिमा न केवलं तद्देशकालगं तत्रैव प्रकटयति । नापि सकृद्दृष्टं सकृदेवेत्याह- देशेति ॥ चशब्दाद्वस्तुविशेषाणामावापोद्वापतश्च प्रकटयति । तदेव विशिनष्टि - दृष्टञ्चेति ॥ पुरुषो विषाणी भाषते इत्यादिकं सुघटं दुर्घटञ्चेति सर्वं पश्यति संसारी यतश्च यतः सर्वशक्तिर्भगवानेवं पश्यति दर्शयति जीवाय । स जीवो यथा तेजसोदानेन प्रेरण प्राज्ञे विष्णौ प्रवेशनात् तेजसाविर्भूतो भवति । अत्र निद्रावस्थायामेष देवः स्वप्नावस्थायां पदार्थान्दर्शयति । कस्यैतत्सुखमित्यस्योत्तरमाह- अथ यदिति ।। भगवत इत्यादेस्तद्भाष्यस्यायमर्थः । अथ यत्कस्यैतदिति पृष्टं सौप्तिकं सुखं तद्भगवतः शरीरवत् सादृश्ययुक्तत्वाच्छरीरशब्दिते जीवे भवति । अचेतनस्य शरीरस्य सुखभोक्तृत्वासम्भवात् सादृश्याद्देहवज्जीव इत्यादिप्रभञ्जनवाक्यञ्चात्र प्रमाणमाह । ४-४ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

'एवमन्यदप्यनुभूतमेव' इत्यत्रान्यत् दृष्टश्रुतयोरन्यत् । एवं स्वप्ने यमर्थं जिघ्रति रसयते स्पृशयति च तमपि प्रागाघ्रातं प्राग्रसितं प्राक् स्पृष्टं तत्तदिन्द्रियैरनुभवति । नत्वनाघ्रातमनास्वादितमस्पृष्टञ्चेति भावः । विप्रकृष्ट- देशान्तरे दिगन्तरे च सकृदनुभूतस्य दृढसंस्काराभावेन स्वप्ने दर्शनायोगात् प्रत्यनुभूतं प्रति प्रति वारं वारमनुभूतमित्युक्तम् । जन्मान्तरे दृष्टमित्यत्र जन्मान्तरे दृष्टं स्वशिरश्छेदादिकमित्यर्थः । अत्यन्तासतः स्वप्नेऽपि दर्शनायोगात् सदि- दानीं विद्यमानमसन्नष्टञ्चेत्यर्थः । सर्वः शूद्रचण्डालव्याघ्रादिनानारूपवान् ॥ ४ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

अदृष्टाश्रुतवस्तुविषये वासनायोगेन स्वप्ने दर्शनायोगादाह- प्राक्दृष्टमेवेत्यादि ॥ अदृष्टं चेति ॥ अस्मिन् जन्मनि। तर्हि दर्शनायोग इत्यत उक्तम्॥ जन्मान्तर इति ॥ एवमिति । अस्मिन् जन्मनि श्रुतमस्मिन्जन्मन्य- श्रुतमपि जन्मान्तरे श्रुतम् । एवं प्राचीनदेहसम्बन्धीन्द्रियान्तरेणानुभूतमेत- ज्जन्मीयेन्द्रियेणाननुभूतमित्यर्थः ।

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

तृतीयस्येति ॥ कतर एष देवः स्वप्नान् पश्यतीत्यस्येत्यर्थः। एतस्या-मेवावस्थायां स्वप्नावस्थायामित्यर्थः । ननु 'आदित्या ऋभवोऽस्वप्नाः ' इत्यमरो-क्तेर्देवानामस्वप्नत्वादेष देवः स्वप्ने महिमानमनुभवतीति कथमुक्तमित्यत आह- तेनानुगृहीतो जीव इति यावदिति ॥ महिमानमिति महच्छब्दात् भावे पृथिव्यादित्वादिमनिचि टेरिति टिलोपे रूपमिति भावेनाह - महत्त्वमिति ॥ ननु स्वस्य दुःखित्वादेरप्यनुभवात् कथं महिमानमित्यतोऽपेक्षितमध्याहरति- अन्यच्चेति || दुःखादिकञ्चेत्यर्थः । दृष्टं दृष्टमनुपश्यतीत्यादेर्वीप्सायां द्विर्वचनमिति भ्रान्तिं निवारयति - यमर्थं पश्यतीत्यादिना ॥ अनेन दृष्टं दृष्टमिति द्विरुक्तेः नित्यवीप्सयोरित्यत्र नित्यशब्दस्यावधारणार्थत्वमाश्रित्य दृष्टमेवार्थमित्यर्थानुवादः कृतः । उत्तरत्र श्रुतमेवेत्यादावेवकारस्तु अस्यैवार्थस्य स्पष्टीकरणार्थः ॥ एवमुत्त- रत्रेति ॥ अस्मिञ्जन्मनि श्रुतमस्मिन्जन्मन्यश्रुतमपि जन्मान्तरे श्रुतमेव स्वप्ने शृणोतीत्यर्थः । तदानीं स्वप्ने सत् क्वचिद्विद्यमानं असत् निवृत्तं स्वप्नात्पूर्वं ध्वस्त- मित्यर्थः । यद्यप्येतयोः सदसतोः स्वप्नावस्थायां दर्शनाभावः । वासनामयत्वा-भावात्। तथाप्यत्र सदसच्छब्दाभ्यां तत्सदृशयोर्ग्रहणमिति भावः ॥ चतुर्थमिति ॥ कस्यैतत्सुखं भवतीत्येतत्प्रश्नमित्यर्थः ॥ भगवन्तं प्रविशतीति ॥ प्राज्ञरूप- मित्यर्थः।। परमेश्वरसन्निधानसामर्थ्याद्भूतसुखमिति । अत्र स्वरूपसुख- मनुभवतीति वक्तव्ये परमेश्वरेत्यादिवचनं तमोयोग्यानां स्वरूपसुखाभावात् सुषुप्तिकाले सुखानुभवसमर्थनार्थम् । परमेश्वरपदग्रहणेन सुषुप्तिकाले मनस उपरमेऽपि अचिन्त्यशक्त्यैश्वर्यवशात् स्वसन्निधाननिमित्तेन वृत्तिरूपं सुखं जनयित्वा सुखानुभवकारणस्य विवक्षितत्वात्। मुक्तियोग्यनित्यसंसारिणां तु स्वरूपसुखस्य सत्वेन तदनुभवसम्भवात् । सुषुप्तिकाले बाह्येन्द्रियोपरमेऽपि स्वरूपेन्द्रियेणैव सौषुप्तिकसुखानुभवस्याचार्यैरेवोपपादनात् || आत्मस्वरूपज्ञानेनानुभवतीति ॥ साक्षिरूपेणेन्द्रियेणेत्यर्थः ॥ ४-४ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

ननु -

'देहाद्देहान्तरगतौ प्रविशेत्प्राणमेव तु ।

जीवः प्राणः परमात्मानं एवं सुप्तावपि स्फुटम् ॥'

इति सुप्तजीवस्य भगवत्प्रवेशोक्तेः कथं स यदा तेजसाभिभूतो भवतीत्युच्यत इत्यत आह- भगवन्तं प्रविशतीति यावदिति । एतेन प्राज्ञेनात्मना सम्परि- ष्वक्त इत्यत्र सम्परिष्वङ्गो नाम प्रवेश एवेत्यविरोध इत्युक्तं भवति।। परमेश्वर- सन्निधानसामर्थ्योद्भूतमिति || मोक्षयोग्यश्चेत्परमेश्वरसन्निधानसामर्थ्येन व्यक्तं स्वरूपसुखमात्म स्वरूपज्ञानेनानुभवति । अयोग्यश्चेत्परमेश्वरसन्निधानसामर्थ्येन भिन्नाभिन्नतया जातं सुखं स्वरूपज्ञानेनानुभवतीत्यर्थः । अत एव परमेश्वर- सन्निधानसामर्थ्योद्भूतमिति सामान्येनोक्तम् । नतु स्वरूपज्ञानेनेतिवत्स्वरूप- सुखमिति विशेषितम् । सादृश्याद्देहवज्जीव इत्यत्रापि सादृश्यञ्च स्वरूपज्ञानमिति ज्ञानमात्रेण सादृश्यञ्चोक्तं ज्ञेयम् । उक्तञ्च तत्त्वप्रकाशिकाभावबोधे- सज्जीवानां किञ्चिदभिव्यक्तस्वरूपसुखस्यान्येषां परमात्मसम्बन्धलक्षणनिमित्तोत्पन्नसुख- स्यानुभवात् । यथोक्तं षट्प्रश्नभाष्यटीकायाम्- 'यस्मादेवं परमेश्वरतेजसा- भिभूतो भवति तस्मात्सन्निधानसामर्थ्योद्भूतं यत्सुखं तस्मिन् शरीरे भवति' इत्यादि । अत्रोद्भूतमित्यनेन योग्यानां स्वरूपसुखाभिव्यक्तिरन्येषां परमात्म- सम्बन्धनिमित्तजन्यसुखमुच्यत इति सम्प्रदायविद इति । केचित्तु न सुप्ता - वयोग्यानां सुखानुभवः किन्तु सुखाभावस्यैव सुखमहमस्वाप्समित्यौत्तरि- कानुस्मृतिस्तुभ्रान्तिरेवेत्याहुः॥ ४-४ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

|| तृतीयस्येति ॥ कतर एष देवः स्वप्नान्पश्यतीत्यस्येत्यर्थः । ननु देवानामस्वप्नत्वादेष देवः स्वप्ने महिमानमनुभवतीत्ययुक्तमित्यत आह- तेनानुगहीतो जीव इति यावदिति ॥ ननु स्वस्य दुःखित्वादेरप्यनुभवात्कथं महिमानमित्युक्तमित्यतोऽपेक्षितमध्याहरति- अन्यच्चेति ॥ दुःखादिकञ्चे- त्यर्थः। 'दृष्टं दृष्टमनुपश्यति' इत्यत्र वीप्सायां द्विर्वचनमिति भ्रान्तिं निवारयति - यमर्थं पश्यतीत्यादिना ॥ अनेन दृष्टं दृष्टमिति द्विरुक्तेर्नित्यवीप्सयोरित्यत्र नित्यशब्दस्यावधारणार्थत्वमाश्रित्य दृष्टमेवार्थमित्यर्थपरत्वमुक्तं भवति । उत्तरत्र श्रुतमेवार्थमित्यादावेवकारस्तु अस्यैवार्थस्य स्पष्टीकरणार्थः । दृष्टश्रुतयोर्ग्रहणं स्पृष्टादेरुपलक्षणार्थमित्यभिप्रेत्याह - एवमन्यदपीति ॥ अदृष्टमित्यस्य सर्वथा- ऽदृष्टमित्यर्थप्रतीतेराहजन्मान्तर इति ॥ तत्समभिव्याहृतदृष्टशब्दस्य प्रतियोगिसमर्पकस्यास्मिञ्जन्मनि दृष्टमित्यर्थकत्वेनास्य तद्भिन्नजन्मान्तरे दृष्ट- मित्यर्थकत्वमिति भावः ॥ एवमुत्तरत्रापीति ॥ अस्मिन् जन्मनि श्रुतं श्रुतं जन्मान्तरेऽश्रुतं अश्रुतं प्राणादिनाऽस्मिन् जन्मनि आघ्रातादिकं अनुभूतं जन्मान्तरे आघ्रतादिकमननुभूतमिति द्रष्टव्यमित्यर्थः । ननु अनुभूतःञ्चाननुभूतं चेत्यस्य दृष्टञ्चादृष्टञ्च श्रुतञ्चाश्रुतं चेत्यनेन पौनरुक्त्यमाशङ्क्य गोबलीवर्दन्यायेन दृष्टादृष्ट- श्रुताश्रुतेत्येवंरूपविशेषवाचिपदसमभिव्याहृतानुभूताननुभूतवाचिपदयोः अस्मिन् जन्मनि स्पृष्टादिकं । अनुभूतं जन्मान्तरे स्पृष्टादिकमननुभूतमित्यर्थक- त्वान्न दोष इत्याह- अनुभूतमननुभूतमिन्द्रियान्तरेणेति ॥ इन्द्रियान्तरेणेत्यस्य दृष्टिश्रुत्यतिरिक्तत्वगादीन्द्रियेणेत्यर्थः । तदानीं स्वप्नकाले। सत्क्वचिद्विद्यमानम्। असन्निवृत्तं स्वप्नात्पूर्वं ध्वस्तम्। यद्यप्येतयोः सदसतोः स्वप्नावस्थायां दर्शना- भावः वासनामयत्वाभावात् । तथाप्यत्र सदसच्छब्दाभ्यां तत्सदृशयोर्ग्रहणमिति भावः ॥ चतुर्थमिति ॥ कस्यैतत्सुखं भवतीत्येतं प्रश्नमित्यर्थः || भगवन्तमिति॥ प्राज्ञमित्यर्थः ॥ ननु शरीरशब्दस्याबाधित श्रौतप्रयोगबलाज्जीववाचित्वा- ङ्गीकारे भगवतः शरीरवदिति पूर्वभाष्ये जीवे शरीरशब्दस्य गौणवृत्तिप्रदर्शन - मसङ्गतमित्यत आह- तथापीति ॥ शरीरशब्दस्य जीवे गौणवृत्त्यनङ्गी- कारेऽपीत्यर्थः । तात्पर्यमेवोक्तमित्यत्र न गौणी वृत्तिः प्रदर्शितेत्यवधारणार्थः । किं तत्तात्पर्यमित्यतः तदुपपादयति - तथाहीति ॥ परमेश्वरसन्निधानसामर्थ्यो- द्भूतमिति ॥ अत्र स्वरूपसुखमनुभवतीति वक्तव्ये परमेश्वरेत्यादिवचनं तमो- योग्यानां स्वरूपसुखाभावेऽपि सुषुप्तिकाले सुखानुभवसमर्थनार्थम् । परमेश्वरपद- ग्रहणेन सुषुप्तिकाले मनस उपरमेऽपि अचिन्त्यैश्वर्यवशात्स्वसन्निधानेन निमित्तेन वृत्तिरूपं सुखं जनयित्वा सुखानुभवकारणस्य सूचितत्वात् । मुक्तियोग्यनित्य- संसारिणां तु स्वरूपसुखस्य सत्त्वेन तदनुभवसम्भवः । सुषुप्तिकाले बाह्ये- न्द्रियाणामुपरमेऽपि स्वरूपेन्द्रियेणैव सौषुप्तिकसुखानुभव इति ज्ञातव्यम् ॥ आत्मस्वरूपज्ञानेनेति ॥ साक्षिरूपेणेन्द्रियेणेत्यर्थः ॥ ४-४ ॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

नु-

देहाद्देहान्तरगतौ प्रविशेत्प्राणमेव तु ।

जीवः प्राणः परात्मानमेवं मुक्तावपि स्फुटम् ॥

इति सुप्तौ जीवस्य भगवत्प्रवेशोक्तेः कथं तेजसाभिभूतो भवेदितीत्युच्यत इत्यत आह- भगवन्तं प्रविशन्तीति यावदिति ॥ प्राज्ञेनात्मना सम्परिष्वक्तवचनं तु रूपान्तरविवक्षयेति न विरोधः ॥ परमेश्वरसन्निधान- सामर्थ्योद्भूतं सुखमिति ॥ नन्वयोग्यानां सुप्तौ कथं सुखानुभवः । नचायं भ्रमः । बाधकाभावात् । नच दुःखाभावानुभवः । अतिप्रसङ्गात् । मैवम् । तेषामपि भगवत्सम्बन्धेन स्वरूप एव भिन्नाभिन्नसुखोत्पादस्योररीकरणात्। उक्तमेव तत्त्वप्रकाशिकाभावबोधे। सज्जीवानां किञ्चिदभिव्यक्तं स्वरूपसुखम्। अन्येषां परमात्मसम्बन्धलक्षणनिमित्तोत्पन्नसुखस्यानुभवसम्भवादिति भावः । यथोक्तं षट्प्रश्नभाष्यटीकायाम्यस्मादेवं परमेश्वरतेजसाभिभूतो भगवत्यथ तस्मात्त- त्सन्निधानसामर्थ्योद्भूतं यत्सुखं तदस्मिन् शरीरे भवतीत्यादि। अत्रोद्भूतमित्यनेन योग्यानां स्वरूपसुखाभिव्यक्तिरन्येषां परमात्मसम्बन्धनिमित्तजन्यं सुखमुच्यत इति सम्प्रदायविद इति ॥ ४-४ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

यत एवं मनोव्यतिरिक्तानामेवोपरमस्स्वप्ने तस्माज्जीवस्य मनसा स्वप्नदर्शनं युक्तमिति भावेन कतर एष देवस्स्वप्नान् पश्यतीति तृतीयप्रश्नस्य परिहार उच्यते-अत्रेत्यादि॥ अत्रैतस्यामवस्थायां मनोव्यतिरिक्तेन्द्रियोपरम इति यावत्, एष देवो मनोनामा तेनानुगृहीतो जीव इति यावत्, स्वप्ने महिमानमात्मनो महत्त्व- मन्यच्चानुभवति । तत्र च यमर्थं पश्यति तं प्राक् दृष्टमेवानुपश्यति । यः प्राक् श्रुतः तं श्रुतमेवार्थं शब्दं स्वप्नेऽनुशृणोति । एवमन्यदप्यनुभूतमेवानुभवति । नाननुभूतम् । किमस्मिन्नेव देशेऽनुभूतमनुभवति ? न । किं तु देशान्तरे दिगन्तरे च यत् प्रत्यनुभूतं पुनः पुनरनुभूतं तदेव स्वप्ने पुनः पुनः प्रत्यनुभवति। भ्रान्त्या तदेवेदमिति प्रत्यभिजानाति। नाप्यस्मिन्नेव जन्मन्यनुभूतमनुभवतीति नियमः । किं त्वस्मिन् जन्मनि दृष्टमदृष्टञ्च जन्मान्तरे दृष्टम् । एवमुत्तरत्रापि अनुभूतं अननुभतं इन्द्रियान्तरेण । सच्च तदानीम् असच्च निवृत्तःश्चेत्येवं सर्वं पश्यति जानाति । स्वयञ्च सर्वः नानाकर्मभिः नरवानराद्यनेकप्रकारस्सन् तत् पश्यति । कस्यैतत्सुखं भवतीति चतुर्थप्रश्नं परिहर्तुमुच्यते - स यदेत्यादि । एवं स्वप्ने वर्तमानस्य जीवो यदा तेजसा भगवदीयेनाभिभूतः आवृतो भवति भगवन्तं प्रविशतीति यावत्, अत्रैतस्यां सुषुप्तिसंज्ञायामवस्थायां एष देवो मनः स्वप्नान्न पश्यति । मनसोऽप्युपरतत्वान्न जीवस्स्वप्नान् पश्यतीति यावत् । यस्मादेवं परमेश्वरतेजसाऽभिभूतो भवत्यथ तस्मात्तत्सन्निधानसामर्थ्योद्भूतं यत् सुखं तदेतस्मिन् भगवच्छरीरवत् ज्ञानात्मकत्वेन तत्सादृश्ययुक्ते जीवे भवतीति न काचिदनुपपत्तिरिति ॥ ४-४ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

कतर एष देव इति तृतीयप्रश्नस्य परिहारमाह- अत्रेति ॥ अत्र एतस्यां स्वप्नावस्थायां एष देवो मनोभिमानी रुद्रः तेनानुगृहीतो जीवः स्वप्ने महिमानं आत्मनो महत्त्वमन्यच्चानुभवति । तत्र यमर्थं पश्यति तं प्राग्दृष्टमनुपश्यति । यः प्राक् श्रुतः तं श्रुतमेवार्थं शब्दं स्वप्ने अनुशृणोति । एवमन्यदप्यनुभूतमेवा- नुभवति । नाननुभूतम् । किमस्मिन्नेव देशेऽनुभूतमनुभवति । न । किन्तु देशान्तरे दिगन्तरे च यत्प्रत्यनुभूतं पुनः पुनरनुभूतं तदेव स्वप्ने पुनः पुनः प्रत्यनुभवति । भ्रान्त्या तदेवेदमिति प्रत्यभिजानाति। तथास्मिन् जन्मनि दृष्टं यज्जन्मान्तरे दृष्टम्,एवमुत्तरत्रापि । अनुभूतमिन्द्रियान्तरेण । सच्च तदानीं असन्निवृत्तं च इत्येवं सर्वं पश्यति। स्वयं च सर्वः राजाद्यनेकप्रकारः सन् तत्पश्यति । चतुर्थप्रश्नोत्तरमाह- स यदेति ॥ स्वयं स्वप्ने वर्तमानः स जीवः यदा तेजसा भगवदीयेन अभिभूत आवृतो भवति । प्राज्ञेन सम्परिष्वक्तो भवति । अत्र सुषुप्त्यवस्थायां एष देवो मनः स्वप्नान्न पश्यति। मनसोऽप्युपरतत्वात्। यस्मादेवं परमेश्वरं प्राप्तो भवति अथ तस्मात्तत्सन्निधानसामर्थ्योद्भूतं यत्सुखं तदस्मिञ्छरीरे ज्ञानात्मकत्वेनेश्वरशरीर- सदृशशरीरे शरीरशब्दवाच्ये जीवे सुखं भवति । कस्यैतत्सुखं भवतीत्यस्यायं परिहारः। ४-४ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

मनोव्यतिरिक्तानामिन्द्रियाणामुपरतत्वान्मनसा जीवस्य स्वप्नदर्शनं युक्तमिति भावः स्वाप्नपदार्थदर्शनं केनेत्यस्य प्रश्नस्य परिहारमाह- अत्रैष देव इति ॥ अत्र स्वप्ने तस्यां स्वप्नावस्थायां एष देवः व्यवहारादिकर्ता मनोनामा जीवः । महिमानं आत्मनो महत्त्वमन्यच्च अनुभवति पश्यतीत्यर्थः। यमर्थं दृष्टं जाग्रदवस्थायां दृष्टमनुपश्यति तुल्यत्वेनेत्यदेः अनु पूर्वं तुल्यत्वेन श्रुतमेवार्थं शब्दं शृणोति । न केवलमस्मिन्नेव देशेऽनुभूतं किन्तु देशदिगन्तरे च देशान्तरे दिगन्तरेषु प्रत्यनुभूतं पुनः पुनरनुभूतं तदेव स्वप्ने प्रत्यनुभवति । पुनः पुनरनुभवतीत्यर्थः । ननु येन देशान्तरं न दृष्टं स्वप्ने च तस्य देशान्तरगमनं जायते तत्कथमित्यत आह- दृष्टञ्चेति ॥ यदस्मिन् जन्मन्यदृष्टं जन्मान्तरे च दृष्टम् । एवं श्रुतमश्रुतञ्च । अनुभूतं इन्द्रियान्तरेण । अननुभूतं चास्मिन् जन्मनि सच्च भावरूपं तदानीमसच्च निवृत्तञ्च सर्वं पदार्थजातं पश्यति । स्वयं स सर्व ः अनेकप्रकारः सन् पश्यति । अनेन स्वशिरोहननादिकमपि व्याख्यातं भवति । अत एव 'अदृष्टादश्रुताद्भावान्न भाव उपजायते' इत्यनुव्याख्याने भगवान् भाष्यकार आह । व्याख्यातञ्च सुधायाम् । परमेश्वर एव नानाविधपदार्थाननेकजन्मदृष्टान् वासनामयान् सृष्ट्वा जीवाय दर्शयतीति भावः। तदेतत् 'मायामात्रं तु कार्त्स्न्येन' इत्यत आह भगवान् बादरायणः। व्याख्यातञ्चाचार्यैः सपरिकरमिति । सुषुप्तिविषये प्रश्नप्रतिवचनमाह - सयदेि ॥ स स्वप्नानुभवी जीवः यदा यस्मिन् काले तेजसा भगवत्सम्बन्धिना अभिभूतः आवृतो भवति । भगवन्तं प्रविशतीत्यर्थः । अत्रास्यामवस्थायां सुषुप्तिरूपायां एष देवः जीवः स्वप्नपदार्थान् न पश्यति । मनसोऽप्युपरतत्वादिति भावः । अथ तस्माद्यत् सुखं भगवत्सन्निधानसामर्थ्य भवम् । एतस्मिन् शरीरे भगवच्छरीरसादृश्याच्छरीरशब्दवाच्ये जीवे भवति ।। ४-४ ॥