स यद्येकमात्रमभिध्यायीत स तेनैव ..

एकद्वित्रिमात्रोपासनायाः यथायोग्यं फलम्

उपनिषत्

स यद्येकमात्रमभिध्यायीत स तेनैव संवेदितस्तूर्णमेव जगत्यामभिसम्पद्यते । तमृचो मनुष्यलोकमुपनयन्ते । स तत्र तपसा ब्रह्मचर्येण श्रद्धया सम्पन्नो महिमान - मनुभवति । अथ यदि द्विमात्रेण मनसि सम्पद्यते सोऽन्तरिक्षं यजुर्भिरुन्नीयते सोमलोकं स सोमलोके विभूतिमनुभूय पुनरावर्तते । यः पुनरेतं त्रिमात्रेणोमित्येतेनैवाक्षरेण परं पुरुषमभिध्यायीत स तेजसि सूर्ये सम्पन्नो यथा पादोदरस्त्वचा विनिर्मुच्यत एवं ह वै स पाप्माना विनिमुक्तः स सामभिरुन्नीयते ब्रह्मलोकम् । स एतस्माज्जीवघनात् परात्परं पुरिशयं पुरुषमीक्षते ॥ २ ॥

भाष्यम्

'प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च ।

ज्ञानं चतुर्मुखात्प्राप्य मुच्यते नात्र संशयः ' ॥ २ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

किं प्रणवोपासनमात्रेणैकतरमन्वेति ? मैवम् । यथावज्ज्ञात्वोपासनेनैवे- त्युच्यते - स इत्यादि ॥ अकारोकारमकाराख्यांशत्रययुक्तो हि प्रणवः । तत्र स उपासको यद्येकमात्रमेका मात्रा वाचिका यस्य तं परमात्मानं प्रणवेनाभिध्यायीत, कामप्येकमेव मात्रां सम्यग्विदित्वा इतरे अविज्ञायेति यावत् । तर्हि स उपासकस्तेनैव ध्यातेन परमात्मना संवेदित एहीति सम्बोधित इव देहपातानन्तरं क्षिप्रमेव जगत्यां पृथिव्यामभिसम्पद्यते प्राप्नोति । जन्मेति शेषः । कथं कीदृशं जन्मेति । तमुपासकमृचः ऋग्वेदाभिमानिदेवताः पृथिव्यां मनुष्यलोकं मनुष्यशरीरं द्विजाग्र्यलक्षणमुपनयन्ते प्रापयन्ति । सच तत्र जन्मनि तपआदिसम्पन्नस्तत्फलरूपं महिमानमनुभवति ।

अथ यदि द्विमात्रेण द्वे मात्रे वाचिके यस्य तेन परमात्मना मनसि सम्पद्यते सङ्गतो भवतीति । तिसृषु प्रणवमात्रासु ये के वा द्वे मात्रे सम्यज्ज्ञात्वाऽन्यामविज्ञाय परमात्मानं चिन्तयतीति यावत् । तर्हि स उपासको यजुर्भिर्यजुर्वेदाभिमानि- देवताभिरन्तरिक्षस्थं सोमलोकमुन्नीयते । नीतश्च स तत्र सोमलोके विभूति - मैश्वर्यमनुभूय पुनरावर्तते। ततश्च्यवते । यत एवं तस्माद्यस्तु पुरुष एतं परं पुरुषं त्रिमात्रेण तिस्रो मात्रा अपि सम्यग्विदित्वेति यावत् । ओमित्येतेनैवा-क्षरेणाभिध्यायीत, स ध्याता ध्येयं परमेश्वरमपरोक्षीकृत्य तेजोरूपे सूर्ये सम्पन्नस्तं प्राप्तो भवति । सूर्यं प्राप्य चासौ यथा पादोदरः सर्पस्त्वचा जीर्णया विनिर्मुच्यते, एवं खलु स ध्यानी पाप्मना प्रारब्धेन विनिर्मुक्तो भवति । विधूतपापश्च स सामभिः सामाभिमानिदेवताभिः ब्रह्मलोकं सत्वाख्यमुन्नीयते । तत्रच एतस्मात्सत्यलोक- पतेर्जीवघनाज्जीवसारात्सकलजीवोत्तमाद् विरिञ्चात्तदुपदेशेनेति यावत् । परात्पर- मुत्तमोत्तमं पुरिशयं सकलजीवशरीरेषु शयितं पुरुषं पूर्णं वासुदेवमीक्षते । पुनरभिवृद्धज्ञानो भवतीति॥

अत्र सम्यग्विदित्वा प्रणवेन भगवन्तमुपासीनस्य विरिञ्चलोकप्राप्तिः फलमुक्तम्। तन्नोपपद्यते । 'देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ' इत्यादिविरोधादि-त्याशङ्कां परिहर्तुमाह- प्रणवेनेति ॥ पुरुषमीक्षित्वा च तं प्राप्नोतीत्यत्र व्याख्यातव्यम् । समाख्यावशादतो न विरोध इति भावः ।यत्तच्छान्तम्इति मन्त्राच्च । एतेन 'एकतरमन्वेति' इत्यपि विवृतं भवति। अपरं ब्रह्म प्राप्य परमप्यन्वेतीति ।।

अत्र यद् द्विमात्रेणेत्यादि द्वितीयान्तत्वेन विपरिणम्य प्रणवस्यैव परमात्म- प्रतीकतयोपास्यत्वं परैरुक्तं, तदपि प्रणवेन हरिमित्युक्त्यैव परास्तम् । ओङ्कार- मभिध्यायीतेति तत्र तत्र द्वितीयाश्रवणात् 'त्यजेदेकं कुलस्यार्थ' इति न्याया- द्विपरिणामो युक्त इति चेन्न । तृतीयाया अपि बहुशः श्रवणात्। समाख्या त्वस्माक- मतिरिच्यते । 'त्रिमात्रेणोमित्येतेनैवाक्षरेण' इत्युपसंहारश्च गरीयान् । 'ज्ञानं चतुर्मुखात्प्राप्य' इत्यनेन पराज्जीवघनादपि परं पुरुषमीक्षत इत्येतदपव्याख्यानं प्रत्युक्तं भवतीति ॥ २ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

 तत्रैवोपास्तिविशेषेण लोकविशेष इत्याह- स यदीति ॥ स उपासको यदि भगवन्तमेकमात्रं अ इत्येकमात्रेण प्रणवेन संवेद्यमभिध्यायीत तर्हि तावन्मात्रविशेषेणैव हि भगवान् संवेदितोऽनेन । अतस्तथोपासको जगत्या-मेव प्रतिमादिसंस्थं भगवन्तमभिसम्पद्यते । ऋग्देवतास्तमुपासकं तेनायनेन मनुष्य- लोकमुपनयन्ते। ऋग्वेदमूलत्वादकारस्य । स तत्र तपआदिभिः सम्पन्नो महा- न्भवति। ओ इति द्विमात्रेण भगवदुपासकस्तं मनसि सम्पद्यते। प्रतिबिम्बमात्रं सामान्यरूपञ्च पश्यतीत्यर्थः । सोमलोकं प्राप्य तत्फलं भुक्त्वा पुनरावर्तते । 'यः पुनरेतम्' इत्यादेरभिप्रायं तु प्रणवेन हरिं ध्यायन्नित्यादिना तत्त्वविवेकवाक्येन प्रकटयति। पादौ उदरे गूढत्वेन स्थिता अस्येति पादोदरः पन्नगः । जीवघनो जीवसारश्चतुर्मुखः ॥ ५-२ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

यथावज्ज्ञात्वेत्यस्य मात्रात्रयमेकीकृत्य तदुक्तगुणवत्तया ज्ञात्वेत्यर्थः॥तृतीयाया अपि बहुशः श्रवणात्' इत्यत्र 'त्यजेदेकं कुलस्यार्थे' इति त्वदुक्तवचनरीत्या तृतीयाया एकत्वाभावात्त्वयोदाहृतं प्रकृतासङ्गतमिति भावः ॥ २ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

॥ सङ्गतो भवतीति ॥ तादृशं मनसा ध्यायतीति यावत् ॥ विरोधादिति ॥ तथाच भगवन्तमुपासीनस्य साक्षाद्भगवत्प्राप्तिरेव वाच्येति भावः ॥ अत्रेति ॥ उपनिषदि ईक्षत इत्यनन्तरमित्यर्थः ॥ समाख्येति ॥ 'ज्ञानं चतुर्मुखात्प्राप्य मुच्यते' इत्युक्तत्वात् । भगवत्प्राप्तेरेव च मोक्षत्वादिति भावः । प्राप्नोतीत्यर्थस्य समाख्यायाः सत्वेऽपि उपनिषदोऽनभिमतत्वान्न व्याख्यातव्य- मित्यत उपनिषदोऽपि परब्रह्मप्राप्तिरभिप्रेतैव । यत उपसंहारे 'यत्तच्छान्तमजर- ममृतमभयं परात्परं च' इत्याहेत्यभिप्रेत्याह- यत्तच्छान्तमिति ॥ विवरण- प्रकारमेव दर्शयति- अपरमिति ॥ आदाविति शेषः । आदिपदेन त्रिमात्रेणो- मित्येतेनैवाक्षरेण । ओङ्कारेणैवायमनेनेत्यस्य सङ्ग्रहः । इत्युक्त्या तृतीयया प्रणवस्य साधनत्वोक्त्या । हरिमिति हरेरेवोपास्यत्वोक्त्या चेत्यर्थः ॥ त्यजेदिति ॥ तथाच द्वितीयाविभक्तियुक्तवाक्यानां बहुत्वेनैव बहुबाधस्य अन्याय्यत्वा- देतदनुसारेण तृतीयाविभक्तियुक्तवाक्यान्येव विपरिणामेनान्यथा नेतव्यानी- त्यर्थः। यद्वा सप्तमी तृतीयार्थे इत्यभिप्रेत्येत्थं व्याख्यातम्। बलीयान् ओङ्कार- मभिध्यायीतेत्युपक्रमापेक्षयेति शेषः ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

स यद्येकमात्रमभिध्यायीतेत्यत्रावयवार्थप्रतीतेः विशिष्याप्रतीतेश्च विग्रहप्रतीतिप्रदर्शनपूर्वकं तद्वक्तुं तदुपयुक्तमाह- अकारोकारेत्यादिना ॥ यद्यप्यवधातोर्मनिन्प्रत्ययेन वैय्याकरणैः ओमिति निष्पादितः । 'अवतेष्टिलोपश्च'

इत्युणादिसूत्रेण अवधातोर्मनिन्प्रत्ययं कृत्वा प्रत्ययस्य टिलोपं विधाय ततोज्वरत्वरा' इति धातोरुपधायाश्च ऊठादेशे सवर्णदीर्घे 'सार्वधातुकार्धधातुकयोः ' इति गुणे ओमिति रूपनिष्पत्तिः 'ओतत्ववाची' इत्यनुव्याख्याने आचार्यैरप्य- ङ्गीकृता। तथापि व्याख्यानान्तरमित्यवधेयम्। अस्मिन्पक्षे तु 'अत सातत्यगमने' इति धातोरौणादिक उप्रत्यये अव इति रूपम् । वेञः क्विपि 'वचिस्वपि' इति यजादित्वात्सम्प्रसारणे ऊ इति रूपम् । मन्यतेः औणादिके विप्रत्यये मकारमात्रं रूपम् । पूर्वयोरकारोकारयोःआद्गुणः' इति गुणे ओमिति रूपनिष्पत्तिः। इममेव पक्षमभिप्रेत्य अकारादीनामोङ्कारत्वोक्तिरवधेया । श्रुतौ तु अंशस्यैकमात्रेति वचनं ज्ञेयम् ॥ तेनैवेति मूलपदस्य व्याख्यानम् - परमात्मनेति ॥ परमात्मनेत्यर्थः। तत्फलमेकमात्रज्ञानपूर्वकप्रणवोपासनाफलम् । महिमानं महत्त्वं अनुभवति प्राप्नोतीत्यर्थः । द्विमात्रेण मनसि सम्पद्यत इत्यस्याक्षरार्थमुक्त्वाभिप्रायमाह- तिसृष्वित्यादिना || पुनरावर्तत इत्यस्य सोमलोकं प्रति पुनरागच्छतीति भ्रान्तिवारणायाहततश्च्यवत इति ॥ सोमलोकाद्भूलोकं प्रति आगच्छतीत्यर्थः । सम्पन्न इत्यत्र संशब्दविवक्षितमाह- ध्येयं परमेश्वरमपरोक्षीकृत्य प्राप्तो भवतीति ॥ स्वरूपं बाह्यहृत्कमलस्थितं अन्तराद्वयमित्यर्थः । तथाचोक्तं काठकभाष्ये-

देहाङ्गुष्ठमितो देहे जीवाङ्गुष्ठमितो हृदि ।

जीवस्य तु स विज्ञेयो जीवाद्भेदेन दृष्टये ॥ इति ॥

॥ जीवघनाज्जीवसारादिति ॥ 'मूर्ती घन' इति सूत्रेण घनधातोः काठिण्यार्थे घनादेशो निपातितः । काठिण्यं नामान्यैरलभ्यत्वम् । अनेनैवाशयेनाह - सर्व- जीवोत्तमादिति ॥ पुनरभिवृद्धज्ञानो भवतीति । पूर्वमात्मान्तरात्मनोरपरोक्ष- ज्ञानस्य जातत्वात्पुनरित्युक्तम् । ब्रह्मोपदेशस्य चरमत्वेन तदुपदिष्टप्रकारध्यानेना- परोक्षीकृतस्य साक्षान्मोक्षसाधनत्वात्तस्य च वासुदेवत्वादिति भावेनोक्तम् । वासुदेवमिति ॥ ' इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्ति- पदप्रदाता' इति श्रीमन्महाभारततात्पर्यनिर्णयोक्तेः ।

नन्वस्यां श्रुतौ 'सामभिरुन्नीयते ब्रह्मलोकम्' इत्युक्तत्वाद् भगवद्गीता- वाक्यविरोधपरिहारः कथमित्यत आह- पुरुषमीक्षित्वा चेति ॥ व्याख्यातव्य- मिति श्रुतौ ततः प्राप्नोतीत्यध्याहारेणेति भावः । तत्र युक्तिमाह- समाख्या- वशादिति ॥ भाष्योदाहृतसमाख्यावशादित्यर्थः । युक्त्यन्तरञ्चाह - यत्तदिति ॥ उत्तरत्र सुखोत्कर्षसीमाभूमिरूपं अजरमभयं परं ब्रह्म विद्वानोङ्कारेणोपासकः सामभिरन्वेतीत्युत्तरत्र मन्त्रेण वक्ष्यमाणत्वाच्चेति भावः ॥ एतेनेति ॥ प्रणवेन हरिं ध्यायन्नित्यनेनेत्यर्थः। परापव्याख्यानमनूद्य दूषयति- अत्रेति ॥ इत्यादीति ॥ अत्रादिशब्दात् त्रिमात्रेणोमित्यनेनैवाक्षरेणेति ग्राह्यम् ॥ प्रतीकतयेति ॥ प्रतिमा- त्वेनेत्यर्थः ॥ परास्तमिति ॥ प्रणवेति ॥ ओङ्कारस्य तृतीयाया कारणत्वोक्ते- हरिमिति द्वितीयायाः उपासनाकर्मत्वोक्तेरिति भावः ॥ तत्र तत्रेति ॥ ओङ्कारमिति प्रश्नवाक्ये प्रतिवचने ॥ एकमात्रमिति ॥ द्विवारमित्यर्थः ॥ इति न्यायादिति ॥

'त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।

ग्रामं जनपदस्यार्थे स्वात्मार्थे पृथिवीं त्यजेत् ॥'

इति भारतोक्तन्यायादित्यर्थः । पादचतुष्टये षष्ठ्यन्तेषु नाशप्राप्ताविति शेषो ज्ञेयः। तथा द्वितीयान्तपदद्वयदर्शनाद् द्विमात्रेणेति तृतीयाद्वितीयान्तं कर्तव्य- मित्यर्थः॥ अतिबहुलश्रवणादिति || प्रश्नवाक्येनेति ॥ प्रतिवचने च ॥ एतेनैवायनेनेति ॥ द्विमात्रेण त्रिमात्रेणोमित्यनेनैवाक्षरणेति ॥ अतिबहुल- श्रवणादित्यर्थः । ननु भवत्पक्षे एकमात्रमित्यादेः तृतीयन्तत्वेन विपरिणामः स्यात्। अस्माकं तृतीयान्तस्य द्वितीयान्तत्वेन विपरिणामः इति पक्षद्वयस्य साम्यादित्यत आह- अस्माकमिति ।। अङ्गीकृत्य चेदमुक्तम्। वस्तुतस्तु तृतीयाया अतिबहुल- श्रवणादित्युक्त्या साम्याभावस्यैव सिद्धेः । नन्वस्मत्पक्षेऽपि भवत्पक्षे समाख्या- वदुपक्रमे ओङ्कारमभिध्यायीतेति द्वितीयाश्रवणात्साम्यमेवेत्यत आह- त्रिमात्रेति ॥ समाख्यासाहित्येनोपसंहारस्य बलीयस्त्वम् । वस्तुतस्तु उपसंहारस्योपक्रम-व्याख्यानरूपत्वाद्भाष्योक्तरीत्योपसंहारस्यैव प्राबल्यमिति भावः । प्रत्युक्तं भवतीति ॥ प्रमाणेऽन्यथाव्याख्यातत्वेनैतद्व्याख्यानस्य श्रुत्यनभिप्रेतत्वादिति भावः। अनविप्रयुक्ता इत्यत्र प्रयुक्ता अन्योन्यसम्बन्धाः विशब्दस्तु निषेधार्थकः ॥ २ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

तत्रैवोपास्तिविशेषेण लोके विशेष इत्याह- स यदीति ॥ उपासको यदि भगवन्तमेकमात्रं अ इत्येकमात्रेणैव प्रणवेन संवेदितः तमभिध्यायते तर्हि तावन्मात्रेणैव स उपासको जगत्यामेव प्रतिमादिस्थं भगवन्तमभिसम्बद्ध्यते । देवतास्तमुपासकं तेनायनेन मनुष्यलोकं उपनयन्ते । ऋग्वेदमूलत्वादकारस्य स तत्र तपआदिभिः सम्पन्नो महान् भवति। ओ इति द्विमात्रेण भगवदुपासक-स्तन्मनसि सम्पद्यते । वासमानामयं प्रतिबिम्बमात्रं सामान्यरूपं पश्यतीत्यर्थः । स सोमलोकं प्राप्य तत्फलं भुक्त्वा पुनरावर्तते । यः पुनरेतमित्यभिप्रायं तु प्रणवेन हरिं ध्यायन् इत्यादिना तत्त्वविवेकवाक्येन प्रकटयतीति व्याख्यातम् । अनेकार्थत्वादुपनिषद्भाष्ययोरविरोधः । तपसा ब्रह्मचर्येणेत्याद्यविरोधेनाह - द्विजा-गयेति ॥ ये के वेति ॥ अनियते द्वे मात्रे इत्यर्थः । परमात्मना मनसि सम्पद्यत इत्यस्य तात्पर्यम् - चिन्तयतीति ॥ सर्प इति ॥ पादावुदरे गूढत्वेन स्थिता अस्येति प्राचीनटीकायां व्यक्तमेतत् ॥ प्रारब्धेनेति ॥ ननु 'स प्राप्नोति विरजानदीं तत्सुकृतदुष्कृते विधूनत' इति श्रुतेः प्रारब्धकर्मणो विरजावधिकत्वोक्तिविरोधः । लिङ्गशरीरापादकप्रारब्धकर्म- शेषस्य सर्वेषां तदवधिकत्वेऽपि सुखदुःखापादकप्रारब्धकर्मणः केषाञ्चित्सूर्य- प्राप्त्यवधिकत्वेनाविरोधात् । तदुक्तम्-

प्रारब्धकर्मशेषस्तु विरजातरणावधिः।

स्वोदयात्फलदं ज्ञानमादेहं कर्म वारवेः ॥ इति ॥

कर्म सुखदुःखापादकं अल्पकानामादेहं चरमशरीरपर्यन्तं मध्यमानामारवे रविपर्यन्तमित्यर्थः । उत्तमानां तदपि विरजाप्राप्तिपर्यन्तमेव । स प्राप्नोति विरजानदीम् । तत्सुकृतदुष्कृत' इति सुखदुःखयोः सुकृतदुष्कृतयोरेव तत्र विधूननोक्तेः । नचावश्यभोक्तव्यत्वात्सुखदुःखापादकप्रारब्धस्य सूर्ये तत्परि- त्यागोक्तिविरोधः। भोगेनावशिष्टयोरल्पयोरुपमर्दस्यापि ' आरब्धयोश्च नाशः स्यादल्पयोः पुण्यपापयोः' इति प्रमितत्वादलं प्रमेयप्रपञ्चेन ॥ पुनरतिवृद्धज्ञान इति ॥ स्वयोग्यरूपापरोक्षस्य प्रागेव प्राप्तत्वाल्लिङ्गभङ्गार्थं चतुर्मुखोपदेशेन पुनस्तत्रैव तद्गुणादिविषयाभिवृद्धापरोक्षज्ञानी भवतीत्यर्थः ॥ ओङ्कारमभि- ध्यायीतेति तत्र तत्र द्वितीयाश्रवणादिति ॥ इतिशब्द आद्यर्थः 'ओमित्ये- तदक्षरमुद्गीथमुपासीत' 'ओङ्कारं पादशो विद्यात्' 'ओङ्कारं पादशो ज्ञात्वा' 'एवं हि प्रणवं ज्ञात्वा' 'प्रणवं हीश्वरं विद्यात्' 'सर्वव्यापिनमोङ्कारं ' इत्यादी तत्र छान्दोग्यमाण्डूकादौ द्वितीयाश्रवणात् । त्यजेदेकं कुलस्यार्थ इति न्यायाद्द्विमात्रेणेत्यादितृतीयायाः विपरिणामो युक्त इति भावः ॥ बहुश इति ॥ द्विमात्रेण त्रिमात्रेणोमिति अनेनैवाक्षरेणोङ्कारेणैवायनेनेत्यस्यामेवोपनिषदि ग्रन्था- न्तरे च तृतीयाया अपि बहुशः श्रवणादिति योज्यम् । यद्वात्रैव तत्र तत्र प्रकरणे 'ओङ्कारमभिध्यायीत' इत्योङ्कारस्य भगवत्प्रतीकत्वज्ञापकद्वितीयायाः । स यद्येकमात्रमिति च द्वितीयाया, यदोङ्कार इति प्रतीकत्वज्ञापकप्रथमायाश्च श्रवणात् मन्त्रत्वज्ञापकतृतीयायाः द्विमात्रेण त्रिमात्रेणोमित्यनेनैवाक्षरेणेति स्थानद्वये श्रवणेन प्रतीकत्वज्ञापकापेक्षया मन्त्रत्वज्ञापकस्याल्पत्वेन त्यजेदेकं कुलस्यार्थे इति न्यायात्तृतीयायाः विपरिणामो युक्त इति योज्यम् । मन्त्रगततृतीया तूक्तार्थे प्रमाणरूपत्वादविवक्षितेति भावः । अत एव टीकायां त्रिमात्रेणोमित्यनेनैवा- क्षरेणोपसंहारश्च बलीयानित्यत्रैव प्रकरणपरिसमाप्तिं वक्ष्यति । तृतीयाया अपीत्यस्यायमर्थः। त्रिमात्रेण ओमित्यनेनैवाक्षरेणेत्यनयोर्विशेषणविशेष्यभावा-पन्नत्वेऽपि तृतीयायास्तत्रैव द्विः श्रवणात् द्विमात्रेणेति च तृतीयाश्रवणात् श्लोकेऽपि तृतीयाश्रवणान्मन्त्रत्वज्ञापकस्य च बहुत्वान्न न्यायावकाश इति

भावः ॥ ५-२ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

एकमात्रमभिध्यायीतेत्यत्रावयवार्थाप्रतीतेर्विशेष्याप्रतीतेश्च विग्रहप्रदर्शनपूर्वकं तद्वक्तुं तदुपयुक्तमाह- अकारेत्यादिना || यद्यपि अवतेष्टि- लोपश्चेति उणादिसूत्रेण अवधातोर्मनिन्प्रत्ययं कृत्वा प्रत्ययटिलोपं विधाय ततो ज्वरत्वरेति सूत्रेण धातोरुपधायाश्चोठि सवर्णदीर्घे सार्वधातुकार्धधातुकयोरिति गुणे ओमिति रूपनिष्पत्तिः 'ओतत्ववाची ह्योङ्कारः' इत्यनुव्याख्याने आचार्यै-रङ्गीकृता, तथापि व्याख्यानान्तरमेतदित्यवधेयम् । अस्मिन् पक्षे तु अत सातत्यगमन इति धातोरौणादिके डप्रत्यये अ इति रूपं वेञः क्विपि 'वचिस्वपि' इति यजादित्वात्सम्प्रसारणे उ इति रूपम् । मन्यतेरौणादिके डिप्रत्यये म् इति रूपम्। पूर्वयोरकारोकारयोराद्गुणे ओमिति रूपनिष्पत्तिः । इममेव पक्षमभिप्रेत्या- कारादीनामोङ्कारांशत्वोक्तिरवधेया । श्रुतौ अंशस्यैव मात्रेति वचनं ज्ञेयम् ॥ तत्फलरूपमिति ॥ एकमात्रार्थज्ञानपूर्वकप्रणवोपासनफलरूपमित्यर्थः । महिमानं महत्त्वम्। अनुभवति प्राप्नोति । द्विमात्रेण मनसि सम्पद्यत इत्यस्या- क्षरार्थमुक्त्वाभिप्रायमाह - तिसृष्वित्यादिना ।। पुनरावर्तत इत्यस्य सोमलोकं प्रति पुनरागच्छतीति भ्रान्तिनिरासायाह- ततश्च्यवत इति ॥ पुनरभि- वृद्धज्ञानो भवतीति ॥ पूर्वमात्मान्तरात्मनोरपरोक्षज्ञानस्य जातत्वात्पुन- रित्युक्तम्। ब्रह्मोपदेशस्य चरमत्वेन तदुपदिष्टप्रकारध्यानेनापरोक्षीकृतस्य साक्षा- न्मोक्षसाधनत्वात्। तस्य च वासुदेवत्वादिति भावेनोक्तम् ॥ वासुदेवमिति ॥ कथमुक्तशङ्कापरिहार इत्यत आह- पुरुषमीक्षित्वा चेति ॥ श्रुतौ ततस्तं प्राप्नोतीत्यध्याहारेणेति भावः । तत्र युक्तिमाह- समाख्यावशादिति ॥ भाष्योदाहृतसमाख्यांवशादित्यर्थः । तत्र मुच्यते नात्र संशय इत्युक्तेरिति भावः । युक्त्यन्तरमाहयत्तच्छान्तमिति । एतेनेति ॥ प्रणवेन हरिं ध्यायन्नित्य- नेनेत्यर्थः । परव्याख्यानमनूद्य दूषयति- अत्रेति ॥ अत्रादिशब्देन त्रिमात्रेणै- तेनैवाक्षरेणेत्येतद्द्भाह्यम्॥ प्रतीकतयेति ॥ प्रतिमात्वेनेत्यर्थः । परास्तमिति ॥ तृतीयाया ओङ्कारस्य करणत्वोक्तेर्हरिमिति द्वितीयया च हरेरुपासनाकर्मत्वो- तेरिति भावः ॥ शङ्कते - ओङ्कारमिति ॥ तत्रतत्रेति ।। ओङ्कारमिति प्रश्नवाक्ये एकमात्रमिति प्रतिवचने चेत्यर्थः । न्यायादिति ॥

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् ।

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥

इति भारतोक्तन्यायादित्यर्थः ॥ बहुशः श्रवणादिति

॥ अतो वैलक्षण्यमिति भावः। ननु भवत्पक्षे एकमात्रमित्यादेः तृतीयान्तत्वेन विपरि- णामः स्यात्। अस्माकं तु द्वितीयान्तत्वेनेति पक्षद्वयसाम्यं स्यादित्यत आह-समाख्या त्वस्माकमिति ॥ अङ्गीकृत्य चेदमुदितम् । वस्तुतः तृतीयाया बहुशः श्रवणेन साम्यस्यैवासिद्धेः । एकमात्रमित्यादौ बहुव्रीहित्वाद्यङ्गीकाराच्च । नन्वस्म त्पक्षेऽपि भवत्पक्षे समाख्यावत् ओङ्कारमभिध्यायीतेत्युपक्रमे श्रवणात्साम्य-मेवेत्यत आह- त्रिमात्रेणेति ॥ उपसंहारश्च गरीयानिति ॥ उपसंहारस्यो-पक्रमापेक्षया पश्चिमत्वेन व्याख्यानरूपत्वाद्बलीयस्त्वमिति भावः ॥ प्रत्युक्तं भवतीति ॥ प्रमाणेऽन्यथाव्याख्यातत्वेनैतद्व्याख्यानस्य तद्विरुद्धत्वादिति भावः ॥ ५-२ ॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

तपसा ब्रह्मचर्येणेत्याद्यनुरोधेनाहद्विजाग्प्रेति ॥ ये के वेति ॥ अनियते द्विमात्र इत्यर्थः । प्रारब्धेनेति ।। नचावश्यभोक्तव्यत्वाद्विरोधः । आरब्धयोश्च नाशः स्यादल्पयोः पुण्यपापयोरित्युक्तत्वात् । नच विरजातरणा- वधित्वविरोधः।प्रारब्धकर्मशेषस्तु विरजातरणावधिः' इत्यस्य लिङ्गशरीरा- पादकप्रारब्धपरत्वात्। एतच्च नोत्तमविषयम् । नाप्यधमविषयम् । स प्राप्नोति विरजानदीं तत्सुकृतदुष्कृते विधूनत इति । आदेहं कर्मेति उत्तमाधमकर्मणो- विरजाप्राप्तिदेहपर्यन्तत्वोक्तेरिति रहस्यम् ॥ ओङ्कारमभिध्यायीतेति तत्र तत्र द्वितीयाश्रवणादिति ॥ इतिशब्द आद्यार्थे । 'ओमित्येतदक्षरमुद्गीथमुपासीत' 'ओङ्कारं पादशो विद्यात्' 'ओङ्कारं पादशो ज्ञात्वा न किञ्चिदपि चिन्तयेत्' ' एवं हि प्रणवं ज्ञात्वा व्यश्रुते तदनन्तरम्' 'प्रणवं हीश्वरं विद्यात्सर्वव्यापिनमीश्वरम्' 'सर्वव्यापिनमोङ्कारम्' इत्यादौ तत्र तत्र छान्दोग्यमाण्डूकादौ द्वितीयाश्रवणात् । त्यजेदेकं कुलस्यार्थ इति न्यायात् । द्विमात्रेणेत्यादिविपरिणामो युक्त इति भावः ॥ बहुश इति ॥ ग्रन्थान्तरे द्विमात्रेणोमित्यनेनैवाक्षरेण ओङ्कारेणायणेनेनेति । अत्र बहुशः श्रवणादित्यर्थः । यद्वा तत्र तत्र प्रकरणेओङ्कारमभिध्यायीतइति ओङ्कारस्य भगवत्प्रतीकत्वज्ञापकश्रवणाद् द्वितीया वर्तते । स यद्येकमात्रमिति तज्ज्ञापकद्वितीयान्तरञ्च ॥ यदोङ्कार इति ॥ प्रतीकत्वज्ञापकप्रतिमा चास्ति । मन्त्रत्वज्ञापकं तु द्विमात्रेणेत्यल्पमेव । मन्त्रगततृतीयाप्रमाणरूपत्वान्नात्र साधिका । अत एव त्रिमात्रेणोमित्यनेनैवाक्षरेणेत्युपसंहारश्च बलीयानित्यत्रैव प्रकरणे परिसमाप्तिं वक्ष्यति । तथाच त्यजेदेकं कुलस्यार्थ इति न्यायात् प्रतीकत्वज्ञापकस्य बहुत्वान्मन्त्रत्वज्ञापकस्याल्पत्वाद्विपरिणामो युक्त इति शङ्काशयः। यथाकथञ्चित् तृतीयाया अपि बाहुल्यसत्वान्न न्यायावकाश इति परिहारवाक्याभिप्रायः। केचित्तु ओङ्कारमभिध्यायीतेति तत्र तत्र द्वितीयाश्रवणात् 'त्यजेदेकं कुलस्यार्थ' इति न्यायात् 'प्रणवेन हरिम्' इति स्मार्ततृतीयाया विपरिणामो युक्त इति चेन्न । श्रुतौ तृतीयाया अपि बहुशः श्रवणेन विपरि- णामानुपपत्तेः । एवं सत्यस्माकं समाख्या त्वतिरिच्यत एव स्वार्थसाधकं भवतीति केचिद्व्याचक्षते ॥ ५-२॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

किं प्रणवोपासनमात्रेणैकतरमन्वेति ? न । किन्तु यथावज्ज्ञात्वो-पासनेनैवेत्युच्यते - स इत्यादि । अकारोकारमकारख्यांशत्रययुक्तो हि प्रणवः । स उपासको यद्येकमात्रं एकमात्रा वाचिका यस्य तं परमात्मानं प्रणवेनाभिध्यायीत, एकमेव मात्रां सम्यग् विदित्वा इतरे मात्रे अविज्ञायेति यावत्, तर्हि स उपासकः तेनैव ध्यानेन परमात्मना संवेदितः एहीति सम्बोधित इव देहपातानन्तरं क्षिप्रमेव जगत्यां पृथिव्यां अभिसम्पद्यते प्राप्नोति । जन्मेति शेषः । कथं कीदृशं जन्मेति ? तमुपासकमृचः ऋग्वेदाभिमानिन्यो देवताः पृथिव्यां मनुष्यलोकं मनुष्यशरीरं द्विजाग्र्यलक्षणं उपनयन्ते प्रापयन्ति। स च तत्र जन्मनि तपआदिसम्पन्नः तत्फल- रूपमहिमानमनुभवति। अथ यदि द्विमात्रेण द्वे मात्रे वाचिके यस्य तेन परमात्मना मनसि सम्पद्यते सङ्गतो भवति, तिसृषु प्रणवमात्रासु द्वे मात्रे सम्यग् ज्ञात्वा अन्यामविज्ञाय परमात्मानं चिन्तयतीति यावत्, तर्हि स उपासकः यजुर्भिः यजुर्वेदाभिमानिदेवताभिः, अन्तरिक्षं अन्तरिक्षस्थं सोमलोकं उन्नीयते। उन्नीतश्च तत्र सोमलोके विभूतिमैश्वर्यं अनुभूय पुनरावर्तते । ततश्च्यवते । यत एवं तस्माद्यस्तु पुरुषः एतं परं पुरुषं त्रिमात्रेण तिस्रो मात्रा अपि सम्यग् विदित्वेति यावत्, ओमित्यनेनैवाक्षरेणाभिध्यायीत स ध्याता परमेश्वरमपरोक्षीकृत्य तेजोरूपे सूर्ये सम्पन्नः तं प्राप्नोति । सूर्यं प्राप्य चासौ यथा पादोदरः सर्पः त्वचा जीर्णया विनिर्मुच्यते एवं खलु स ध्यानी पाप्माना प्रारब्धेन विनिर्मुक्तो भवति । विधूतपापश्च स सामभिः सामवेदाभिमानिदेवताभिः ब्रह्मलोकं सत्याख्यमुन्नीयते। तत्र च एतस्मात्सत्यलोकाधिपतेर्जीवघनाज्जीवसारात् सकलजीवोत्तमाद्विरिञ्चात्तदुप-देशेनेति यावत्, परात्परं उत्तमोत्तमं सकलशरीरेषु शयितं पुरुषं पूर्णं वासुदेवं ईक्षते पुनरभिवृद्धज्ञानो भवतीति । अत्र पुरुषमीक्षित्वा च तं प्राप्नोतीत्यपि ग्राह्यम्। यथोक्तं भाष्ये ॥ ५-२॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

किं प्रणवोपासनामात्रेणैकतरमन्वेति । मैवम् । यथावज्ज्ञात्वोपासनेनैवे- त्युच्यते - स इति ॥ अकारोकारमकाराख्यांशत्रययुक्तः प्रणवः । तत्र स उपासको यद्येकमात्रं एकमात्रा वाचिका यस्य तं परमात्मानं प्रणवेनाभिध्यायीत । एकैकामेव मात्रां सम्यग्विज्ञाय इतरे अज्ञात्वा ध्यायीत तर्हि स उपासकः तेन ध्यानेन परमात्मना संवेदितः एहीति सम्बोधित एव देहपातानन्तरं क्षिप्रमेव जगत्यां पृथिव्यां जन्माभिसम्बद्ध्यते । कथं कीदृशं जन्म तमुपासकः ऋचः ऋग्वेदाभिमानिदेवताः पृथिव्यां मनुष्यलोकं मनुष्यशरीरं द्विजग्ग्रलक्षणं उपनयन्ते प्रापयन्ति। स च तत्र जन्मनि तपआदिसम्पन्नः तत्फलरूपं महिमानमनुभवति । अथ यदि द्विमात्रेण द्वे मात्रे वाचिके यस्य तेन परमात्मना मनसि सम्पद्यते सङ्गतो भवतीति । तस्य तिसृषु प्रणवमात्रासु ये वा के वा द्विमात्रे सम्यज्ज्ञात्वा अन्यामविज्ञाय परमात्मानं ध्यायीत स उपासको यजुर्भिर्यजुर्वेदाभिमानिभिः देवैः अन्तरिक्षं अन्तरिक्षस्थसोमलोकमुन्नीयते । स तत्र सोमलोके विभूतिमैश्वर्यं अनुभूय पुनरावर्तते ततः च्यवते । अत एव तस्माद्यस्तु पुरुषः एतं परमपुरुषं त्रिमात्रेण तिस्रो मात्रा अपि सम्यग्विज्ञाय ओमित्येतेनैवाक्षरेणाभिध्यायीत, सः ध्याता तेजोरूपे सूर्ये सम्पन्नः समपरोक्षीकृत्य परमेश्वरं प्राप्तो भवति । सूर्यं प्राप्य चासौ यथा पादोदरः सर्पः त्वचा जीर्णया विनिर्मुच्यते एवं खलु सः ध्यानी पाप्मना प्रारब्धेन विनिर्मुच्यते स पाप्मना विनिर्मुक्तापरोक्षज्ञानी सामभिः सामवेदाभिमानिदेवताभिः ब्रह्मलोकं सत्याख्यं उन्नीयते । तत्र एतस्मात्सत्य- लोकपतेर्जीवघनात्सकलजीवोत्तमाद्विरिञ्चात्तदुपदेशेन परात्परं उत्तमोत्तमं पुरिशयं सकलपुरुषशरीरेषु शायिनं पुरुषं पूर्णं वासुदेवं ईक्षते । पुनरभिवृद्धज्ञानो भवति । वासुदेवमीक्षित्वा तञ्च प्राप्नोतीति ॥ ५-२ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

न केवलं प्रणवोपासनामात्रेण परापरब्रह्मणोः प्राप्तिः । किन्तु यथावज्ज्ञात्वोपासनेनेत्यत आह- स यद्येकमात्रमिति ॥ प्रणवो हि अकारो-कामकारत्रयमिति प्रसिद्धः तत्र स उपासकः यदि एका मात्रा यस्येति तं भगवन्तं अभिध्यायीत चिन्तयेत् । कामप्येकां मात्रां सम्यग् विदित्वा इत्यर्थः । तर्हि स उपासकः तेनैव ध्यानेनैव संवेदितः परमात्मना सम्बोधितः सन् देहपातानन्तरं पूर्णं क्षिप्रमेव जगत्यां पृथिव्यामभिसम्पद्यते । जन्मेति शेषः । प्राप्नोति । को विशेषः जन्मन इत्यत आह- तमृच इति ॥ तमुपासकं ऋचः ऋग्वेदाभिमानिनः देवताः मनुष्यलोकं सद्द्ब्राह्मणत्वलक्षणं शरीरं उपनयन्ते प्राप्नुवन्ति । स उपासकस्तत्र जन्मनि तपसा नित्यनैमित्तिकेन कर्मणा शास्त्राभ्यासरूपेण वा ब्रह्मचर्येण व्रतेन श्रद्धयाऽस्तिक्य-निष्ठया सम्पन्नः युक्तः सन् महिमानं पूज्यत्वमनुभवति प्राप्नोति इति । अथ यदि द्विमात्रेण द्विमात्रे वाचिके यस्य तेन परब्रह्मणा मनसि चित्ते सम्पत्स्यते सङ्गतो भवति । मात्राद्वयमध्ये ये केऽपि द्वेमात्रे चिन्तयतीत्यर्थः । स उपासकः यजुर्भिः यजुर्वेदा-भिमानिभिर्देवैः अन्तरिक्षं अन्तरिक्षस्थं सोमलोकमुन्नीयते । नीतश्च सः सोमलोके विभूतिमैश्वर्यमनुभूय पुनरावर्तते । ततश्च्यवत इत्यर्थः । योऽधिकारी एवं पुरुषं त्रिमात्रेण तिस्रः मात्राः वाचकाः यस्येत्योमित्योङ्कारेण अक्षरेण वर्णेन तिस्रो मात्रा अपि सम्यग्विदित्वेत्यर्थः। परं पुरुषं सर्वोत्कृष्टं भगवन्तमभिध्यायीत चिन्तयेत्। सः ध्याता तेजसि सूर्ये तेजोरूपे सूर्ये सम्पन्नः सङ्गतः । तं प्राप्त इत्यर्थः। यथा पादोदरः उदरमेव पादौ यस्य सः । अग्न्याहितत्वात्, छान्दसत्वाद्वा । पादोदरः सर्पः त्वचा या विनिर्मुच्यते मुक्तो भवति । एवं ह वै एवं प्रकारेणैव स उपासकः पाप्मना प्रारब्धकर्मणा विनिर्मुक्तो भवति । स मुक्तपापो ध्यानी सामभिः अभिमानिदेवैः ब्रह्मलोकं सत्याख्यं चतुर्मुखलोकं, उन्नीयते । स अर्चकः । एतस्मा-ज्जीवघनात् सकलजीवोत्तमात् सत्यलोकपतेः चतुर्मुखात् । तदुपदेशेनेति भावः । परात्परं श्रीतत्त्वादुत्तमं पुरि सकलशरीरे शयं स्थितं पुरुषम् । सकलगुणपूर्णं वासुदेवाख्यमीक्षते । अभिवृद्धज्ञानो भवति । मुक्तो भवतीत्यर्थः । प्रणवोपासकः परापरब्रह्मज्ञानेन अपरं ब्रह्म प्राप्य परं ब्रह्म प्राप्नोतीति 'कार्यं बादरिः' 'परं जैमिनिः ' इति सूत्रद्वयोक्तप्रतीकालम्बनाप्रतीकालम्बनरूपव्यवस्थया बोध्यमिति भावः । अत एव –

प्रणवेन हरिं ध्यायन् ब्रह्मलोकं समेत्य च ।

ज्ञानं चतुर्मुखात्प्राप्य मुच्यते नात्र संशयः ॥

इत्याहुः भाष्यकाराः ॥ ५-२ ॥

Load More