प्राणाग्नय एवैतस्मिन् पुरे जाग्रति

प्राणापानव्यानानामग्नित्वम्- समानोदानयोः ऋत्विग्भावः

उपनिषत्

प्राणाग्नय एवैतस्मिन् पुरे जाग्रति । गार्हपत्यो ह वा एषोऽपानो व्यानोऽन्वाहार्यपचनो यद् गार्हपत्यात् प्रणीयते । प्रणयनादाहवनीयः प्राणो यदुच्छ्वास- निःश्वासावेतावाहुती समं नयति स समानः । मनो ह वाव यजमान इष्टफलमेवोदानः । स एनं यजमानमहरहर्ब्रह्म गमयति ॥ ३ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

कानि जाग्रतीत्यस्योत्तरम् - प्रा इति ॥ स्वापकाले एतस्मिन्पुरे शरीरे प्राणाः प्राणादिमुख्यप्राणरूपाण्येवाग्नयः प्राणाग्नय एव जाग्रति शरीरधारणा- दिस्वव्यापारं कुर्वन्ति । अग्नय इत्युपलक्षणम् । ऋत्विग्भावस्यापि वक्ष्यमाणत्वात् । कथं तेषामग्न्यादित्वमित्युच्यते - गार्हपत्य इत्यादि । तेषां प्राणानामेषोऽपानो गार्हपत्यः पश्चिमत्वसाम्यात् । व्यानोऽन्वाहार्यपचनो दक्षिणाग्निः होमाङ्गत्वसाम्यात् ।यस्माद्गार्हपत्यादाहवनीयः प्रणीयते । प्राणोऽप्यपानात् । तस्मात्प्रणयनात् प्रणयन- साम्यात्प्राण आहवनीयः। यद्यस्माद् द्वावेतौ उच्छ्वासनिश्वासौ ते एवाऽऽहुती सम यथाकालं नयति। तस्मादाहुत्योस्समं नयनसाम्यात्समानः सोऽध्वर्युरिति यावत् । तत्र मननान्मनो जीवो यजमानः । पराधीनफलप्राप्तिसाम्यादित्युत्तरार्थं वचनम् । उदानः इष्टफलम्। यज्ञफलप्रतिपादक उद्गातेति यावत् । फलप्रतिपादकत्वसाम्यात्। कथमुदानस्य फलप्रतिपादकत्वम्? स उदानो ह्येनं यजमानं जीवमहरहः प्रतिदिनम्। सुप्ताविति यावत् । ब्रह्म सुषुम्नागतं गमयति प्रापयतीति । य एवं वेद तेनैवमिष्टं भवति। नित्यं ब्रह्मप्राप्तिफलञ्च तस्य भवतीति ज्ञापनायेदमुक्तम् । यत एवं मनो- व्यतिरिक्तानामेवोपरमः स्वप्ने तस्माज्जीवस्य मनसः स्वप्नदर्शनं युक्तमिति ॥ ३ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

एवमेतस्मिन्पुरे कानि स्वपन्तीत्यस्योत्तरमुक्त्वा कान्यस्मिन् जाग्रती - त्यस्योत्तरमाह - प्राणाग्नय एवेति ॥ गार्हपत्य इत्यादिना प्राणाग्नीनां विशेष उच्यते। उत्तराग्न्योरपानस्थानत्वाद्गार्हपत्य अपान इत्युक्तः । गार्हपत्या- द्विभज्यानीयत इति व्यानोऽन्वाहार्यपचनः । गार्हपत्यात्प्रज्वलन्नेवानीयत इत्या- हवनीयनाम्ना प्राण उच्यते। अत्र ह्युच्छ्वासनिश्वासावेव पूर्वोत्तरे द्वे आहुती । प्राणश्रद्धादिषोडशकलासु समं नयतीति समानोऽग्निरुक्तः । अन्याग्निस्त्वग्निहोत्रे पय आहुती द्वे परेण हूयमाने रुद्रवाय्वादिषोडशकलासु सन्नयति हुतवहत्वात्। 'रौद्रं गविसत् । वायव्यमपावसृष्टम् । आश्विनं दुह्यमानम् । सौम्यं दुग्धम् । वारुणमधिश्रितम् । पौष्णं समुदयन्तम् । मारुतं विष्यन्दमानम् । वैश्वदेवं बिन्दुमत् | मैत्रं शरोगृहीतं । द्यावापृथिवीयमुद्वासितम् । सावित्रं प्रक्रान्तम् । वैष्णवं हिय- माणम् । बार्हस्पत्यमुपसन्नम् । अग्नेः पूर्वाहुतिः । प्रजापतेरुत्तरा । ऐन्द्रं हुतम् । एतद्वा अग्निहोत्रं वैश्वदेवं षोडशकलम्' इति हि श्रुतिः । अथ ते द्वे आहुती जुह्वन् मनस्वी जीवो यजमानस्तस्मा इष्टफल उदानोऽग्निः पुण्यलोकप्राप्तिनिमित्तत्वात् । किञ्च स एनं जीवं स्वप्नावस्थायां ब्रह्मसमीपं गमयति। सुप्त्यवस्थायामेव ह्यन्तः प्रवेशः ॥ ४-३ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

ऋत्विग्भावस्यापि ' इत्यत्र समानोदानयोरध्वर्यूद्गात्राख्य- र्त्विग्भावस्यापि वक्ष्यमाणत्वादित्यर्थः । उपलक्षणःञ्चैतत् । अग्निवद्धोमाङ्गत्व-साम्येन समानोदानयोरनित्वमपि द्रष्टव्यम् । एवञ्च सति प्राणानय इत्युक्त- मुपपन्नमिति ज्ञेयम् । व्यानोऽन्वाहार्यपचन इत्यत्रान्वाहार्यपचन इति दक्षिणा- र्नाम । यद्यपि सर्वशरीरगतस्य व्यानस्य दक्षिणाग्निवत् दक्षिणभाग एव स्थितत्वं नास्ति । तथाऽपि श्वासरूपाहुतेः सर्वशरीरनाडीषु प्रापणेन श्वासरूपहोमाङ्गत्व- साम्यात् व्यानोऽन्वाहार्यपचन इति भावः । ' आहुतीः समं नयति' इत्यत्र समं स्थूलनाडीषु स्थूलतया मध्यमनाडीषु मध्यमतया सूक्ष्मनाडीषु सूक्ष्मतयेति नाडीनां समं यथा भवति तथा श्वासवायुं प्राणाग्निहोत्राङ्गभूतान्नाख्याहुतिरसं च नयतीति कृत्वा समान इत्यर्थः । आहुतीनां च समीकृत्य दानमध्वर्योः कृत्यम्। तस्मादयमध्वर्युरिति भावः । अहरहर्ब्रह्म गमयतीत्युक्तब्रह्मगमनाख्यफलस्य जीवयोग्यत्वान्मनुत इति मनो जीवः । यज्ञफलभोक्तृत्वात्स एव यजमान इत्यर्थः ॥ इत्युत्तरार्थमिति ॥ उदानस्येष्टफलप्रतिपादकत्वसाम्येनोद्गातृत्वं वक्ष्यते । कस्मै इष्टफलं प्रयच्छत्युदान इति शङ्कायाः जीवरूपयजमानाये - त्युत्तरप्रदानार्थमित्यर्थः।इष्टं फलम्' इत्यत्रेष्टं फलं य उद्गायति स उद्गातोदान इत्यर्थः। इष्टफलप्रतिपादकसाम्नां गानकर्तोद्गातेवोदानोऽप्युत्कृष्टं ब्रह्म सुषुम्ना- नाड्या प्रापयित्वेष्टफलं भोजयति । तस्मादुदान उद्गातेति भावः । एतदेव स्पष्टयति- स य एवमिति । एवमुद्गातृवत् । अत्र सुप्ते स्वप्नस्थानं गतेऽस्मिन्नेव जीवे । स्वप्नावस्थायामिति फलितकथनम् ॥ ३ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

ऋत्विग्भावस्य । समानोदानयोः अध्वर्यूद्गातृत्वरूपऋत्वि- क्त्वस्य। उत्तरार्थमित्युक्तं दर्शयति- य एवं वेदेति ॥ उपनिषदभिप्रेतं पूरित- मिति ज्ञेयम् ।

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

प्राणानय इति पदे प्राणा अग्नय इव इति विग्रहं मनसि निधाय 'उपमितं व्याघ्रादिभिः' इति समासं कृत्वा प्राणशब्दाग्निशब्दनिष्ठबहुवचनस्याद्यर्थकत्व- माश्रित्य व्याचष्टे- प्राणाः प्राणादीति ॥ शरीरधारणादीत्यादिशब्दाद्भुक्तान्न- समनयनं सुषुप्तिकाले प्राज्ञमूर्ति प्रति जीवप्रापणञ्च ग्राह्यम् । ननु प्राणापान- व्यानानामेवोत्तरत्राग्नित्वस्य समानस्याध्वर्युत्वस्योदानस्योद्गातृत्वस्य वक्ष्यमाण- त्वात्कथं प्राणादीनां पञ्चानामग्नित्वमुक्तमित्यत आह- अग्नय इत्युपलक्षणमिति ॥ उपलक्षणबीजमाह - ऋत्विग्भावस्यापीति ॥ प्राणादीनां पञ्चानां मध्य इति शेषः। पश्चिमद्वारगुदेन्द्रियनिष्ठत्वात् पश्चिमत्वमपानस्य व्यानोऽन्वाहार्यपचन इति दक्षिणाग्निरित्यर्थः ।। होमाङ्गत्वसाम्यादिति । नायं स्वाहेत्याहुतिग्रहण- होमाङ्गत्वसाम्यादित्यर्थः || प्राणोऽप्यपानादिति । यथा गार्हपत्याग्नेः पृथक्कृत्वाहवनीयकुण्डे नीतोऽग्निराहवनीय इत्युच्यते । तथापानदेशादपानरूप- मुख्यप्राणात्पृथक्कृतः श्वासरूपः प्राणमुपनीतः आहवनीय इति भावः ॥ परा- धनेति ॥ यथा प्रसिद्धयजमाने स्वर्गादिफलं ऋत्विगधीनं तथा सुषुप्तौ जीवस्य सुखफलप्राप्तेरुदानाधीनत्वादिति भावः । ननु प्राणादिमुख्यप्राणरूपेषु मनसोऽ- भावात् श्रुतौ मनो हवा यजमान इति किमर्थमधिकमुक्तमित्यत आह- उत्तरार्थं वचनमिति ॥ स एनं यजमानमहरहर्ब्रह्म गमयतीति वक्ष्यमाणफलप्राप्तेर्यजमाना- भावेऽसम्भवात्पृथगुक्तिरिति भावः । ननूदानस्य कथमिष्टफलत्वमित्यत आह- लक्षणयेति ॥ इष्टफलशब्दं व्याचष्टे - यज्ञफलप्रतिपादकमिति ॥ इष्टफल- प्रतिपादकत्वेन कथमत्रोपयोग इत्यत आह- उद्गातेति यावदिति ॥ उदानस्य फलप्रतिपादकत्वेऽपि कथमुद्गातृत्वमित्यत आहफलप्रतिपादकत्व- साम्यादिति ॥ उद्गातुर्यज्ञफलप्रतिपादकत्वेनोदानस्यापि तत्साम्यादिति भावः । उदानस्याहरहर्ब्रह्मगमकत्वे श्रवणादिसाधनवैयर्थ्यमित्यतो विवक्षितब्रह्मगमनमाह- सुषुम्नागतमिति ॥ प्राज्ञमित्यर्थः । प्राणादीनां जागरणज्ञानेऽस्त्विष्टत्वमित्यत आह- नित्यं ब्रह्म प्राप्तमिति ॥ मोक्षफलमित्यर्थः ॥ ४-३ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

|| पश्चिमत्वसाम्यादिति ॥ पृष्ठभागस्थत्वसाम्यादित्यर्थः॥ गार्हपत्य आहवनीयात्पश्चिमदेशस्थः । अपानोऽपि मुख्यस्थप्राणात्पृष्ठभागस्थ इति भावः । यद्वा पश्चिमत्वं पूर्वभावित्वं तत्साम्यादित्यर्थः । गार्हपत्यादा- हवनीयस्य प्रणयनादेवमपानत्प्राणस्य प्रणयनेन तस्य पूर्वभावित्वादिति भावः ॥ होमाङ्गत्वसाम्यादिति।। दक्षिणा होमविशेषकरणेन तस्य होमाङ्गत्ववत् श्वासोच्छ्रासरूपाहुतेर्नाडीद्वारकत्वेन सर्वनाडीगतव्यानस्य होमाङ्गत्वादिति भावः। यद्वा प्राणापानव्यानेषु मध्ये प्राणस्यापाने तस्य व्याने उदानसामानयोश्च व्याने आहुतेश्च तु होमाधिकरणत्वेन होमाङ्गत्वसाम्यादित्यप्याह- यद्गार्हपत्या-दिति ॥ यथैवाहवनीयोऽग्निर्गार्हपत्यात्प्रणीयत इति भारते श्रौते च प्रसिद्ध - मेतदिति भावः । प्राणोऽप्यपानात्प्रणीयते इत्यनुवर्तते। तथाच प्रथमस्कन्धो- दाहृता श्रुतिः। प्राणमपाने तं व्याने समानोदानौ तेषु तांश्च मूलप्राण इति। तत्र च प्राणस्य अपाने लयकथनेनापाने उत्पन्नत्वात्प्रणीयत इति युक्तमेवेति भावः । यद्यपि दक्षिणाग्रपि गार्हपत्याद्विभक्तत्वमस्ति, तथापि गार्हपत्याद्विभज्य दक्षिणकुण्डे निक्षिप्य प्रज्वलनम्, आहवनीयस्तु गार्हपत्यात्प्रज्वलन्नेवानीयत इति आहवनीयत इति प्रणयनमत्र मुख्यमिति यद्गार्हपत्यात्प्रकर्षेण नीयत इति विशिष्योक्तमिति भावः । तदुक्तं प्राचीनटीकायां गार्हपत्यात्प्रज्वलन्नेवानीयत इति आहवनीयात्मा प्राण उच्यत इति । उत्तरार्थमिति ॥ इष्टं फलमिति ॥ येन फलस्योच्यमानत्वात्तद्भोक्ता जीवोऽत्र यजमानत्वेनोक्त इत्यर्थः ॥ फलप्रति- पादकत्वेति ॥ उद्गाता ह्युद्गानेन देवताः प्रतोष्य तद्द्वारा फलं प्रयच्छतीति भावः । ननु सुप्तौ ब्रह्मप्राप्तेः पुरुषार्थत्वात्कथं श्वासोच्छ्वासाहुतियजनफलं उदाना- त्प्राप्यमुच्यत इत्यत आह- य एवं वेदेति ॥ य एवं प्राणादे - रग्न्यादित्वं वेद तेन इष्टं भवतीति ज्ञापनाय तस्य नित्यमनपायिब्रह्म प्राप्तिलक्षण - फलञ्च मुक्तौ भवतीति च ज्ञापनायेदमुक्तमित्यर्थः ॥ ४-३ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

॥ प्राणाः प्राणादीति ॥ प्राणा एवाग्नयः इति विवक्षितविग्रह- गतबहुवचनार्थः- प्राणादीति ॥ ननु प्राणापानव्यानानामेवोत्तरत्राग्नित्वस्य समानोदानयोरध्वर्यूद्गातृभावस्य वक्ष्यमाणत्वात्कथं प्राणादीनां पञ्चानामग्नित्व- मुक्तमित्यत आह- अनय इत्युपलक्षणमिति ॥ उपलक्षणे बीजमाह- ऋत्विग्भावस्यापीति ॥ प्राणादीनां पञ्चानां मध्य इति शेषः ॥ अग्न्यादित्व- मित्युच्यत इति ॥ अग्नित्वं ऋत्विक्त्वञ्च कथमित्यत उच्यत इत्यर्थः॥ पश्चिमत्वेति ॥ पश्चिमद्वारभूते गुदे विद्यमानत्वेनापानस्य पश्चिमत्वमित्यर्थः॥ होमाङ्गत्वसाम्यादिति ॥ व्यानाय स्वाहेति होमाङ्गत्वसाम्यादित्यर्थः ॥ प्राणोऽप्यपानादिति ॥ यथा गार्हपत्याग्नेः पृथक्कृत्वाऽऽहवनीयकुण्डे नीतो- ऽग्निराहवनीय इत्युच्यते तथाऽपानप्रदेशादपानरूपमुख्यप्राणात्पृथक्कृतः श्वास- रूपः मुखे नीत आहवनीय इति भावः ॥ पराधीनेति ॥ यथा प्रसिद्धयज-मानस्य स्वर्गादिफलं ऋत्विगधीनं तथा सुषुप्तौ जीवस्य सुखरूपफलप्राप्ते- रुदानाधीनत्वादिति भावः । ननु 'प्राणाग्नय एवैतस्मिन्पुरे जाग्रति' इत्युक्त- प्राणाग्नित्वाद्युपपादनार्थं 'गार्हपत्यो हवा' इत्यादेः 'ब्रह्म गमयति' इत्यन्तस्य वाक्यस्य प्रवृत्ततया 'मनो ह वाव यजमान' इत्यनेन मनः शब्दितजीवस्य यजमानत्ववचनं प्रकृतासङ्गतमेवेत्यत आह- इत्युत्तरार्थं वचनमिति । उदान- स्योद्गातृत्वोपपादनार्थं प्रवृत्ते स एष एनं यजमानमहरहर्ब्रह्म गमयति' इत्यस्मिन्वाक्ये एनं यजमानमिति परामर्शार्थं उपोद्घातसङ्गत्या जीवस्य यजमान- त्वमुक्तमिति भावः । उदानस्य कथमिष्टफलत्वमित्यतो लक्षणयेष्टफलशब्द व्याचष्टे - यज्ञफलप्रतिपादक इति ॥ इष्टफलप्रतिपादकत्वकथनस्य कथ- मत्रोपयोग इत्यत आह- उद्गातेति यावदिति ॥ उदानस्य फलप्रतिपादकत्वे कथमुद्गातृत्वमित्यत आह- फलप्रतिपादकत्वसाम्यादिति ॥ उद्गातुर्यज्ञफल- प्रतिपादकत्वेनोदानस्य तत्साम्यादिति भावः । ननूदानस्याहरहर्ब्रह्मगमकत्वे श्रवणादिसाधनवैयर्थ्यमित्यतो विवक्षितं ब्रह्मगमनमाह - सुषुम्नागतमिति ॥ प्राज्ञमित्यर्थः। ननु कानि जाग्रतीति प्रश्नस्य प्राणा जाग्रतीति जागरणवचनेनैव परिहर्तव्यत्वादपृष्टप्राणाग्नित्वऋत्विक्त्वकथनमसङ्गतमेवेत्यत आह- य एवं वेदेति ॥ ब्रह्मप्राप्तिफलमिति ॥ ब्रह्मप्राप्तिलक्षणं मोक्षफलमित्यर्थः ॥ ४-३॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

पश्चिमत्वसाम्यादिति ॥ पायूपस्थयोर्मुखमपेक्ष्य पृष्ठभागस्थ- त्वादिति भावः । होमाङ्गत्वसाम्यादिति ॥ दक्षिणाम्नी विशेषहोमेन होमा- ङ्गत्ववत् व्यानेऽपि हुतान्नस्य विविधं नयनेन होमाङ्गत्वसाम्यमित्यर्थः । श्वासोच्छ्वासरूपाहुतेः नाडीद्वारकत्वेन नाडीगतव्यानस्य होमाङ्गत्वसाम्यादिति वा ॥ प्राणोऽप्यपानादिति ॥ प्रणीयत इत्यनुवर्ततते । यथैवाहवनीयोऽग्नि- गर्हिपत्यात्प्रणीयत इति भारतवचनाद्गार्हपत्यादुद्धृत्य कुण्डे निक्षिप्याहवनीया- वाहनं क्रियत इति गार्हपत्यादाहवनीय उत्पद्यते । एवं प्राणोऽप्यपानादुत्पद्यते । प्राणमपाने तं व्याने समानोदानौ तेष्विति प्रथमतात्पर्योपात्तश्रुतौ प्राणस्यापाने लयकथनेन प्राणोऽप्यपानादुत्पद्यत इति प्राण आहवनीय इति भावः॥ ४-३ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

कानि जाग्रतीत्यस्योत्तरम् - प्राणानय इति ॥ स्वापकाले एतस्मिन् पुरे शरीरे प्राणाः प्राणादिमुख्यप्राणरूपाण्येवाग्नय प्राणाग्नय एव जाग्रति शरीरधारणादिस्वव्यापारं कुर्वन्ति । अग्नेय इत्युपलक्षणम्; ऋत्विग्भावस्यापि वक्ष्यमाणत्वात् । कथं तेषामग्न्यादित्वमित्यत उच्यते - गार्हपत्य इत्यादि ॥ तेषां प्राणानामेषोऽपानो गार्हपत्यः । पश्चिमत्वसाम्यात् । व्यानोऽन्वहार्यपचनः दक्षिणा- ग्निः, होमाङ्गत्वसाम्यात् । यद्यस्माद् गार्हपत्यादाहवनीयः प्रणीयते प्राणोऽप्यपानात्, तस्मात् प्रणयनात् प्रणयनसाम्यात् प्राण आहवनीयः । यद्यस्माद् द्वावेतावु- च्छ्वासनिश्वासौ तावेतावाहुती समं यथाकालं नयति तस्मादाहुत्योस्समं नयन- साम्यात् समानः । सोऽध्वर्युरिति यावत् । तत्र मननान्मनो जीवो यजमानः । पराधीनफलत्वसाम्यादित्युत्तरार्थं वचनम्। अन्यथा पूर्वं प्राणादीनामेव प्रकृतत्वेन जीवस्य यजमानत्वोक्तिरयुक्ता स्यात् । अत उत्तरवाक्ये उदानस्य यजमानफल- प्रतिपादकत्वेनोद्गातृत्वार्थं जीवस्य यजमानत्वोक्तिरुपपन्नेति भावः । उदानः इष्टफलं यज्ञफलं प्रतिपादकः उद्गातेति यावत्, फलप्रतिपादकत्वसाम्यात्। कथमुदानस्य फलप्रतिपादकत्वम्? स उदानो ह्येनं यजमानं जीवमहरहः प्रतिदिनं सुप्ताविति यावत्, ब्रह्म सुषुम्नागतं गमयति प्रापयतीति य एवं वेद तेनैवमिष्टं भवति । नित्यं ब्रह्मप्राप्तिफलञ्च तस्य भवतीति ज्ञापनायेदमुक्तम् । ॥ ४-३ ॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

कानि जाग्रतीत्यस्य उत्तरमाह - प्राणानय इति ॥ स्वापकाले एतस्मिन् पुरे प्राणाः प्राणादिमुख्यप्राणरूपाण्येवाग्नयः जाग्रति शरीरधारणादिस्वव्यापारं कुर्वन्ति । उपलक्षणमेतत् । ऋत्विग्भावस्यापि वक्ष्यमाणत्वात् । कथं तेषामग्न्या- दित्वमित्यत आह- गार्हपत्येति ॥ गार्हपत्योऽपानः पश्चिमत्वसाम्यात् । अन्वाहार्यपचनो व्यानः दक्षिणाग्नि: होमाङ्गत्वसाम्यात् । यद्गार्हपत्यादाहवनीयः प्रणीयते। प्राणोऽप्यपानात् । तस्मात्प्रणयनात् प्रणयनसाम्यात्। प्राण आहवनीयः यद्यस्मात् यावेतावुच्छ्वासनिश्वासौ एत आहुतिं समं नयति, तस्मादाहुत्योः समं नयनसाम्यात्समानः सोऽध्वर्युः । मननान्मनो जीवो यजमानः पराधीनफल- प्राप्तिसाम्यात्। तदुपपादयति - स इति ॥ स उदानः उद्गातेति यावत् । एनं यजमानं जीवं अहरहः प्रतिदिनं सुप्तौ ब्रह्म सुषुम्नागतं ब्रह्म गमयति प्रापयति ।य एवं वेद तेन ज्ञानेन तस्येष्टं भवति ॥ ४३ ॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

कानि जाग्रतीत्यस्योत्तरमाह - प्राणानय इति ॥ एतस्मिन् पुरे शरीरे प्राणा एव पञ्च मुख्यप्राणरूपाण्येव अग्नय इव प्राणाग्नय एव जाग्रति शरीरधारणादिव्यापारं कुर्वन्तीत्यर्थः । कथं प्राणानामग्नित्वमित्यत आह-गार्हपत्य इति ॥ एषः अपाननामा मुख्यः गार्हपत्यनामकः । व्याननामाऽन्वाहार्यपचनसंज्ञः। यस्मात् गार्हपत्यनामकात्प्रणीयते अतः प्रणयनात्प्राणः आहवनीयनामकः । यत् यौ उच्छ्वासनिश्वासरूपे एतौ एते आहुती समं नयति प्रापयति तेन कारणेन स समाननामकः । मनो ह वा मननान्मनोनामा जीवः प्रसिद्धमेतत् । यजमानस्थानभूतः इष्टं फलं वक्तीति शेषः। यज्ञफलप्रतिपादकत्वात् स उदाननामा उद्गातृस्थानीयः । कथमुदानस्य फलप्रतिपादकत्वमित्यत आह- एनमिति ॥ स य एव पूर्वोक्त उदान एव एनं यजमानं जीवं अहरहः प्रतिदिनं ब्रह्म गमयति प्रापयति । एवं यो वेत्ति तस्य ब्रह्मप्राप्तिलक्षणं फलं भवतीत्यर्थः ॥ ४-३ ॥