अथ हैनं भार्गवो वैदर्भिः पप्रच्छ

अथ द्वितीयः प्रश्नः

वैदर्भः प्रजाधारकप्रकाशकदेवविषयकः प्रश्नः  

उपनिषत्

अथ हैनं भार्गवो वैदर्भिः पप्रच्छ । भगवन् कत्येव देवाः प्रजा विधारयन्ते । कतर एतत्प्रकाशयन्ते कः पुनरेषां वरिष्ठ इति ॥ १ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

'अथ हैनं भार्गवः' प्रश्नार्थस्योक्तानन्तर्यसूचकोऽथशब्दः। उक्तं परमेश्वरस्य सकलप्रजाजनकत्वम्। लब्धजन्मनः स्थित्यादीति तदनन्तरं स्थितिज्ञानहेतुत्वं वक्तव्यम् । प्राक्प्राणस्य वरिष्ठत्वमभिप्रेतम् । तच्चोपपादनीयमिति तदर्थमुत्तरो ग्रन्थः । भगवन्, कत्येव कियत्सङ्ख्याकाः कतरे च देवाः प्रजा विधारयन्ते ? कति कतरे च देवा एवद्विषयजातं प्रकाशयन्ते ? कान्निमित्तीकृत्य परमेश्वरः प्रजानां स्थितिं विषयप्रकाशं च करोतीति यावत् । एषां धारणप्रकाशहेतूनां देवानां मध्ये को वा वरिष्ठोऽतिशयेन वरः ॥ २-१ ॥

श्रीसत्यप्रज्ञतीर्थविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

॥ स्थितिज्ञानहेतुत्वमिति ॥ स्थितिहेतुत्वं ज्ञानहेतुत्वञ्चेत्यर्थः । अत एव प्राक् स्थित्यादीत्युक्तम् ॥ अभिप्रेतमिति ॥ स मिथुनमुत्पादयत इति प्रथममुत्पत्तिकथनेन प्राणस्य वरिष्ठत्वमभिप्रेतमित्यर्थः ॥ २-१ ॥

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

ननु कात्यायनप्रश्नप्रतिवचनानन्तरं सुकेशादिप्रश्नप्रतिवचनानि विहाय भार्गवप्रश्नप्रतिवचनमेव कुत इत्याशङ्कापरिहारायोक्तमथशब्दं व्याचष्टे- प्रश्नार्थस्येति ॥ लब्धजन्मन इति ॥ जगत इति शेषः । स्थित्यादीत्यतः परं सम्भवतीति शेषः । तदनन्तरं सृष्टिकथनानन्तरम् ॥ प्राक्प्राणस्य वरिष्ठत्वमिति ।। एतौ बहुधा प्रजाः करिष्यत इति प्रजापतेस्तपः प्रकारप्रदर्शनवाक्ये बहुधा प्रजाकरणवचनात् ॥ कत्येव कियत्सङ्ख्याका इति ॥ 'किमः सङ्ख्यापरिमाणे इति च' इति सूत्रेण किंशब्दात् सङ्ख्यापरिमाणविशेषकप्रश्नार्थात् डतिप्रत्यय- विधानादित्यर्थः ॥ कतरेति ॥ के च देवा इत्यर्थः । 'किं यत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्' इति सूत्रेण किंशब्दान्निर्धारणार्थे डतरच्प्रत्यय इति भावः । विषयप्रकाशनं शब्दादिविषयज्ञापनार्थमित्यर्थः । अतिशयेन वर इति । वरशब्दादतिशयार्थे ' अतिशायने तमाबिष्ठनौ' इति इष्ठन्प्रत्ययः ॥ २-१ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

स्थित्यादीत्यादिनोक्तं विवृणोति स्थितिहेतुत्वं ज्ञानहेतुत्व- मिति ॥ अभिप्रेतमिति ॥ स मिथुनमुत्पादयत इति । प्रथममुत्पत्ति- कथनेनेत्यर्थः । उपपादनीयमिति वक्ष्यमाणान्वयव्यतिरेकाभ्यामित्यर्थः । स कतीति सङ्ख्याप्रश्न एव न भवति । किन्तु स्वरूपप्रश्नोऽपीति भावेनोक्तम्- कतरे च देवा इति । कतर इत्यत्र सङ्ख्याप्रश्नोऽपि विवक्षितमित्युक्तम् - कति कतरे चेति ॥ २१ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

|| अथ हैनं भार्गवः ॥ ननु कात्यायनप्रश्नप्रतिवचनानन्तरं सुकेशादिप्रश्नप्रतिवचनानि विहाय भार्गवप्रश्नप्रतिवचने कुतो वक्तव्ये इत्या- शङ्कापरिहारायोक्तमथशब्दं व्याचष्टे- प्रश्नार्थस्योक्तानन्तर्यसूचकोऽथशब्द इति ।। स्थित्यादीत्यतः परं सम्भवतीति शेषः । तदनन्तरं सृष्टिकथनानन्तरम् ।। स्थितिज्ञानहेतुत्वमिति ॥ स्थितिहेतुत्वं ज्ञानहेतुत्वञ्चेत्यर्थः । अत एव प्राक्स्थित्यादीत्युक्तम् ॥ अभिप्रेतमिति ॥ स मिथुनमुत्पादयते' इति प्रथममुत्पत्तिकथनेन 'एतौ मे बहुधा प्रजाः करिष्यतः' इति प्रजापतेस्तपः प्रकार- प्रदर्शकवाक्ये बहुधा प्रजाकरणवचनेन वा प्राणस्य वरिष्ठत्वमभिप्रेतमित्यर्थः ॥ कत्येव कियत्सङ्ख्याका इति || 'किमः सङ्ख्या परिमाणे डति च' इति सूत्रेण किंशब्दात्सङ्ख्यापरिमाणविशेषप्रश्नार्थाड्डतिप्रत्ययविधानादिति भावः ॥ कतरे चेति ॥ के च देवा इत्यर्थः । 'किं यत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्' इति सूत्रेण किंशब्दान्निर्धारणार्थे डतरच्प्रत्यय इति भावः । विषयजातं शब्दादिसमूहम् ।

ननु परं ब्रह्मान्वेषमाणा इत्युक्तत्वात्परब्रह्मजिज्ञासुना भार्गवेण धारकादि- देवताविषयकप्रश्नः कथं क्रियत इत्यतः प्रश्नतात्पर्यमाह- कान्निमित्ती- कृत्येति || 'एतावदेवाहमेतद्ब्रह्म वेद' इत्युपसंहारवाक्येन परिहारवाक्यस्यापि भगवद्विषयकत्वावगमाच्चैतदेव प्रश्नतात्पर्यमित्यवधेयम् । अत एव पूर्वखण्डेऽपि 'तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः' इति भाष्ये प्रश्नतात्पर्यमुक्तम् ॥ अतिशयेन वर इति ॥ वरशब्दादतिशयार्थे 'अतिशायने तमबिष्ठनौ' इति इष्ठन्प्रत्यय इत्यर्थः।। २-१ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

॥ अथ हैनं भार्गवः ॥ ननु परं ब्रह्मान्वेषमाणा इत्युक्त- त्वात्परब्रह्मजिज्ञासुना भार्गवेण धारकादिदेवताविषयः प्रश्नः कथं क्रियत इत्यत- स्तत्तात्पर्यमाह- कान्निमित्तीकृत्येति ॥ एतावदेवाहं परं ब्रह्म वेद' इत्युप- संहारवाक्येन परिहारवाक्यस्यापि भगवद्विषयत्वावगमाच्चैतदेव प्रश्नतात्पर्य- मित्यवसेयम्। अत एव पूर्वखण्डे यत्र भगवत्परत्वं न प्रतीतं तत्र 'तावाविश्य स्वयं विष्णुः सर्वसृष्टीः करोत्यजः' इति भाष्ये तात्पर्यमुक्तम्॥ २-१ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

॥ अथ हैनं भार्गवः || प्रश्नार्थस्य उक्तानन्तर्यसूचकोऽथशब्दः । उक्तं परमेश्वरस्य सकलप्रजाजनकत्वम् । लब्धजन्मन एव स्थित्यादीति स्थितिज्ञान- हेतुत्वं वक्तव्यम् । प्राक् प्राणस्य वरिष्ठत्वमभिप्रेतं तच्चोपपादनीयमिति तदर्थमुत्तर- ग्रन्थः । भगवन् कत्येव कियत्सङ्ख्याका देवाः प्रजा विधारयन्ते ? कतरे देवाः एतद्विषयजातं प्रकाशयन्ते ? कान् निमित्तीकृत्य परमेश्वरः प्रजानां स्थितिं विषयप्रकाशं च करोतीति यावत् । एषां धारणप्रकाशहेतूनां देवानां मध्ये को वरिष्ठोऽतिशयेन वर: ? ।। २-१ ।।

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

द्वितीयप्रश्नप्रतिवचनमारभते - अथेति ॥ प्रष्टव्यार्थस्यानन्तर्यसूचको- ऽथशब्दः। उक्तं परमेश्वरस्य सर्वप्रजाजनकत्वम् । लब्धजन्मनः चेतनस्य स्थित्यादीति तदनन्तरं स्थितिहेतुत्वं वक्तव्यम् । प्राक्प्राणस्य वरिष्ठत्वमभिप्रेतम् । तच्चोपपादनीयम्। तदर्थमुत्तरो ग्रन्थः । भगवन् कत्येव कियत्सङ्ख्याकाः कतरे के च देवाः प्रजाः विधारयन्ते । कति कतरे च देवाः एतद्विषयजातं प्रकाशयन्ते भगवन् कान् कियत्सङ्ख्याकान् देवान्निमित्तीकृत्य धारणप्रकाशने करोतीति यावत् । एषां मध्ये कः पुनः को वा देवो वरिष्ठः अतिशयेन वरः ।। २- १॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

एवं कबन्धिकात्यायनस्योक्तप्रतिवचनं सकलजगज्जन्मकारणरूपं भगवतः श्रुत्वा ज्ञातस्य स्थितिरावश्यकीति सा कस्याधीना । किञ्च प्राणस्येतर –देवताधिक्यमुपपादितम् । तत्कथमित्यभिप्रेत्य भार्गवो वैदर्भिः पप्रच्छ प्रश्नं कृतवान् । प्रश्नमेवाह । हे भगवन् पूज्य कत्येव कियत्सङ्ख्यकाः देवाः प्रजाः लोकान् विधारयन्ते आश्रयभूताः भवन्ति । कतरे च देवाः एतद्विषयजातं प्रकाशयन्ते प्रकाशं कुर्वन्ति । को देवः पुनरेषां वरिष्ठः श्रेष्ठः । आश्रयप्रकाशहेतूनां देवानां मध्ये को श्रेष्ठ इत्याशयेन प्रश्नः । सर्वेषामादावुत्पत्तिमत्त्वात्प्राणस्य श्रेष्ठत्वमर्थतः सिद्धमपि स्फुटं नोक्तमित्यभिप्रायेण पुनः श्रेष्ठत्वे प्रश्नः ॥ २१ ॥