अथ हैनं शैब्यः सत्यकामः पप्रच्छ
अथ पञ्चमः प्रश्नः
सत्यकामस्य प्रणवोपासनाविषयकः प्रश्नः
उपनिषत्
अथ हैनं शैब्यः सत्यकामः पप्रच्छ । स यो ह वै तद्भगवन्मनुष्येषु प्रायणान्तमोङ्कारमभिध्यायीत कतमं वाव स तेन लोकं जयतीति । तस्मै स होवाच । एतद्वै सत्यकाम परञ्चापरञ्च ब्रह्म यदोङ्कारः । तस्माद् विद्वानेतेनैवा- यनेनैकतरमन्वेति ॥ १ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
॥ अथ हैनं शैब्यः ॥ एवमुक्तलक्षणं परं ब्रह्म येन मन्त्रेणोपासितव्यम्, उपासितञ्च यत्फलं प्रयच्छति, तदिदानीं वक्तुमयमुत्तरो ग्रन्थः । भगवन्नेतदेतेषु मनुष्येषु स यो यः कश्चित्प्रायणान्तं प्रयाणपर्यन्तं, यावच्छरीरादुत्क्रमणं तावदिति यावत्। ओङ्कारमोमित्याक्रियमाणं परमात्मानमभिध्यायीत । सर्वदा चिन्तयेदोमिति मन्त्रेणेत्यभिप्रायः। स पुरुषस्तेन ध्यानेन कतमं लोकं जयति प्राप्नोतीत्येवं पृष्टवते तस्मै स होवाच । यदोङ्कारः ओमित्याक्रियमाणं वस्तु तदेतत्परञ्चापरञ्च ब्रह्म । यस्मात्प्रणवो मुख्यतः परमात्मनः प्रतिपादकः, यस्माच्च तत्प्रतिमात्वेनामुख्यतो विरिञ्चप्रतिपादकश्च तस्माद्विद्वान्प्रणवेनोपासकः एतेनैवोपासनाख्येनायनेन गमनसाधनेन परापरब्रह्मणोरेकतरमन्वेति प्राप्नोति ॥ १ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
ओमित्याक्रियमाणत्वादोङ्कारो विष्णुर्भगवान् एतदेव हि पूर्वोत्तरकाल-वर्ति ब्रह्म एतदेव सर्वेषामभीष्टलोकप्रापकम् । अनेनैव त्रयाणां लोकानामेकतर-मन्वेत्युपासकः ॥ ५-१ ॥
श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका
'परञ्चापरञ्च' इत्यत्र परं वैकुण्ठादिलोकस्थितमन्यानधिष्ठितं ब्रह्म, अपरं चतुर्मुखाख्यप्रतिमान्तर्गतं ब्रह्म । तदिदमुक्तं टीकाकृता - अमुख्यतो विरिञ्चप्रतिपादक इति ॥ गङ्गावाचकगङ्गापदस्य तत्सम्बन्धिनि तीरे अमुख्य- प्रयोगवत् ब्रह्मान्तर्गतविष्णुवाचकप्रणवेन तत्सन्निधानात् लक्षणया विरिञ्चेऽपि प्रयोग इति भावः । ' अहमेवाखिलगुणो वाचकः प्रणवो मम' इति स्मृतेः 'ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन्' इति गीतोक्तेश्च नारायणादि- नामवत्प्रणवस्यापि विष्ण्वसाधारणनामत्वादिति भावः । ' प्रणवोपासना-ख्यायनेन' इत्यत्र ‘अय पय गतौ' इति धातोः ब्रह्मगमनहेतुत्वात् प्रणवोपासन-मेवायनमित्युच्यते ॥ १ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
॥ अथ हैनं शैब्यः । एवमुक्तलक्षणमिति । पृथिव्यादि- सर्वाधारत्वादिलक्षणमित्यर्थः । विष्ण्वादिशब्देषु सत्सु ओङ्कार- मित्युक्तेरभिप्रायमाह-ओमित्यनेन मन्त्रेणेति ॥ ५-१ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
॥ तत्प्रतिमात्वेनेति ॥ ननु नामुख्यतोऽपि ब्रह्मण ओङ्कारा- भिधेयत्वम्। तथात्वे तद्व्याख्यानरूपव्याहत्यादिसर्ववेदैरमुख्यतः प्रतिपाद्यत्वा- पातेन 'पूर्वप्रसिद्धिवर्जं तु शक्रान्ता देवता मताः' इत्यादिवचनविरोधः ।
'ऋते नारायणादीनि नामानि पुरुषोत्तमः ।
प्रादादन्यत्र भगवान्...॥'
इति वचनविरोधश्चेति चेदत्रेदं रहस्यम् । अस्तु चतुर्मुखस्य व्याख्येयो- ङ्कारप्रतिपाद्यत्वम्। मा भूद्यावत्तद्व्याख्यानप्रतिपाद्यता । नहि पुरन्दरस्य व्याख्येयेन्द्रशब्दवाच्यत्वमात्रेण यावत्तद्व्याख्यानप्रतिपाद्यतास्ति । तथा सति तस्य निरुपचरितपरमैश्वर्यापत्तेः । नच वाच्यमीश्वरः सर्ववेदार्थः । तद्व्याख्येयो- ङ्कारप्रतिपाद्यत्वात्, यो यद्व्याख्येयार्थः स तदर्थ इति सुधोक्तानुमानस्यैवं सतीन्द्रे व्यभिचारः स्यात्। यदि तत्र साध्यसत्त्वं तर्हि पुनरायातो विरोधपिशाच इति । तत्रोङ्कारमुख्यप्रतिपाद्यत्वहेतुत्वात् । यद्वा चतुर्मुखस्य वर्णत्रयात्मकोङ्कारप्रति- पाद्यत्वमेव। नत्वष्टवर्णात्मकप्रणवप्रतिपाद्यत्वम् । तस्यैवात्र प्रकृतत्वात् । व्याहृत्यादिकं विशिष्टप्रणवव्याख्यानरूपं विशिष्टप्रणवस्यैव तदसाधारण- नामत्वमित्यविरोधः। प्राचीनटीकायां तु-ओमित्याक्रियमाणत्वाद्य ओंकारो विष्णुर्भगवानेतदेव हि परञ्चापरञ्च पूर्वोत्तरकालवर्ति एतद्ब्रह्म तदेव सर्वेषामभीष्ट - लोकप्रापकम्। अनेनैव त्रयाणां लोकानां एकतरमन्वेत्युपासकः॥ ५-१ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
|| अथ हैनं शैब्यः ॥ एवमुक्तलक्षणमिति ॥ पृथिव्यादि- सर्वाधारत्वलक्षणमित्यर्थः । ओङ्कारं प्रणवमित्यन्यथाप्रतीतिनिरासायाह- ओमित्याक्रियमाणमिति ॥ विष्ण्वादिशब्दान् विहाय ओङ्कारमित्युक्तेरभि - प्रायमाह - ओमिति मन्त्रेणेति ॥ ५१ ॥
गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी
। तत्प्रतिमात्वेनेति ॥ ननु नामुख्यतोऽपि ब्रह्मणः ओङ्कारा- भिधेयता । तत्त्वे अमुख्यतया प्रणवार्थाः व्याहृतय इत्युक्तन्यायेन सर्ववेद- प्रतिपाद्यत्वप्राप्त्या ‘पूर्वप्रसिद्धवर्जं तु शक्रान्ता देवता मताः' इति वचनविरोध इति चेत् । अस्तु व्याख्येयोङ्कारप्रतिपाद्यत्वम् । मास्तु यावत्तद्व्याख्यान- प्रतिपाद्यता। नहि पुरन्दरस्य व्याख्येयेन्द्रशब्दवाच्यत्वमात्रेण ईश्वरः सर्ववेदार्थः । तद्व्याख्येयोङ्कारप्रतिपाद्यत्वात् । यो यद्वयाख्येयार्थः स तदर्थ इति सुधोक्ता-नुमानस्य तर्हि चतुर्मुखे व्यभिचारः । यदि तत्र साध्यसत्त्वं तर्हि पुनरागतो विरोध इति। तत्रोङ्कारमुख्यप्रतिपाद्यत्वस्य हेतुत्वादिति । यद्वा चतुर्मुखस्य वर्णत्रया- त्मक प्रणवप्रतिपाद्यत्वमेव । नतु विशिष्टप्रणवेन । अत्र स यद्येकमात्रमभिध्यायीत द्विमात्रेणेति तदेकदेशस्यैव प्रकृतत्वात् । व्याहृत्यादिकं तु विशिष्टप्रणव-व्याख्यानरूपमिति न विरोधः ॥ ५१ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
॥ अथ हैनं शैब्यः ॥ एवमुक्तलक्षणं परं ब्रह्म येन मन्त्रेणो-पासितव्यम्, उपासितञ्च यत्फलं प्रयच्छति तदिदानीं वक्तुमयमुत्तरो ग्रन्थः । भगवन्नेतदेतेषु मनुष्येषु स यो यः कश्चित् प्रायणान्तं प्रयाणपर्यन्तं यावच्छरीरा- दुत्क्रमणं तावदिति यावत्, ओङ्कारं ओमित्याक्रियमाणं परमात्मानं अभिध्यायीत सर्वदा चिन्तयेत्, ओमित्यनेन मन्त्रेणेत्यभिप्रायः, स पुरुषः तेन कतमं लोकं जयति प्राप्नोतीति पृष्टवते तस्मै स होवाच । यदोङ्कारः ओमित्याक्रियमाणं वस्तु तदेत- त्परञ्चापरञ्च ब्रह्म। यस्मात् प्रणवो मुख्यतः परमात्मप्रतिपादकः तत्प्रतिमा-त्वेनामुख्यतः विरिञ्चप्रतिपादकश्च तस्माद्विद्वान् प्रणवेनोपासक एतेनैवोपासना- ख्येनायनेन गमनसाधनेन परापरब्रह्मणोरेकतरमन्वेति प्राप्नोति॥ ५१ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
पञ्चमप्रश्नमारभते— अथेति ॥ एवमुक्तलक्षणं ब्रह्म एतन्मन्त्रेणो- पासितव्यं उपासितञ्च यत्फलं प्रयच्छति तदिदानीं वक्तुमाह- भगवन्निति ॥भगवन्नेतदेतेषु मनुष्येषु स यः यः कश्चित् प्रायणान्तं यावच्छरीरादुत्क्रमणं तावत् ओंङ्कारं ओमित्याक्रियमाणं परमात्मानं अभिध्यायीत सर्वदा चिन्तयेत् स ओमित्यनेन मन्त्रेण ईश्वरं चिन्तयन् तेन ध्यानेन कतमं लोकं जयति प्राप्नोति । एवं पृष्टवते तस्मै स होवाच । यदोङ्कारः ओमित्याक्रियमाणं वस्तु तदेतत्परञ्च परब्रह्म यस्मात्प्रणवः मुख्यतः परमात्मप्रतिपादकः तत्प्रतिमात्वेनामुख्यतो विरिञ्चप्रतिपादकश्च तस्माद्विद्वान् प्रणवोपासकः एतेनैवोपासनाख्येनोपायेन मार्गेण परापरब्रह्मणोरेकतरमन्वेति । प्रथमतो विरिञ्चं प्रप्य तदनुज्ञातश्च परमं प्राप्नोति ॥ ५- १॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
एवमुक्तलक्षणं परब्रह्म येन मन्त्रेणोपास्यं उपासितञ्च यत्फलं ददाति तदिदानीमाह वेदपुरुषः- अथ हैनमिति ॥ अथ अनन्तरं शैब्यः सत्यकामः ह अतिनम्रतया एनं गुरुं पप्रच्छ । किमित्याह-स यो हवा इति ॥ हे भगवन् पूज्यगुरो सः यः कश्चित्, हवा प्रसिद्धम् । एतत् एतेषु मनुष्येषु प्रायणान्तं प्रयाणपर्यन्तं मरणपर्यन्तम् । यावच्छरीरादुत्क्रमणं तावदित्यर्थः । ओङ्कारं ओमित्याक्रियमाणं परमात्मानं अभिध्यायीत सर्वदा चिन्तयेत् । ओमिति मन्त्रेणेति शेषः । सः पुरुषः तेन ध्यानेन कतमं वाव कमेव लोकं जयति प्राप्नोतीति । एवं पृष्टवते तस्मै सत्यकामाय स एव उवाच । किमित्याह । हे सत्यकाम एतद्वै एतत् त्वया पृष्टमेव ओमित्येतदेव परमपरञ्च ब्रह्म । मुख्यतः परब्रह्मवाचकः अमुख्यतो विरिञ्चवाचक-श्चेति भावः । यदोङ्कारः यस्मादोङ्कारः उभयवाचकः तस्मात् कारणात् विद्वान् प्रणवोपासकः एतेनैवायनेनोपासनाख्येन गमनसाधनेन परापरब्रह्मणोरेकतरं अन्यतरं परं वापरं वेत्यर्थः । अन्वेति प्राप्नोति ।। ५- १ ॥