आदित्यो ह वै बाह्यः प्राण..
उदानस्य लोकप्रापकत्वम्
उपनिषत्
आदित्यो ह वै बाह्यः प्राण उदयत्येष ह्येनं चाक्षुषं प्राणमनुगृह्णानः पृथिव्यां या देवता सैषा पुरुषस्यापानमवष्टभ्यान्तरा यदाकाशः स समानो वायुर्व्यानस्तेजो ह वा उदानः । तस्मादुपशान्ततेजाः पुनर्भवमिन्द्रियैर्मनसि सम्पद्यमानैः ॥ ६ ॥
श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका
कथं बाह्यमित्यादि प्रश्नद्वयं परिहियते - आदित्य इत्यादि ॥ मुख्यप्राण एव हि प्राणनामा बाह्य बहिर्भवः । आदित्यः आदित्ये स्थितः तन्नाम दधत् उदेति उद्गच्छति। एष आदित्यस्थः प्राण एवैनं चाक्षुषं चक्षुषि भवं प्राण- वायुमनुगृह्णानो वर्तते । एतेन मुख्यप्राणः प्राणनाम्ना रूपेण बहिरादित्यं धत्ते, अध्यात्मं चादित्यस्थः प्राणः अधिष्ठानभूतेनाऽऽदित्येन सहैव चक्षुषि स्थित्वा चक्षुस्तदभिमानिनञ्च प्राणवायुमित्युक्तं भवति । एवमुत्तरत्रापि ज्ञातव्यम्। बहिः पृथिव्यां या धारिकाऽपानाख्या देवता सैषा पुरुषस्यापानं देहे वर्तमानमपानवायुमवष्टभ्य धृत्वाऽन्तरा शरीरान्तर्वर्तते । अन्तरा द्यावापृथिव्योर्मध्ये । यदाकाशो य आकाशः आकाशधारकः समानः सोऽध्यात्मं समानवायुं धत्ते । यो बहिर्वायुधारको व्यानः स एवान्तर्व्यानो व्यानवायुधारकः । बहिस्तेजोधारको य उदानः स उदानः उदानवायुं धत्ते इत्येतत्प्रसिद्धम् । कथमिति ? यस्मात्तेजोऽधि- ष्ठातोदानः तेनाधिष्ठानेन तेजसा सहैवान्तरुदानं दधत् प्राणिनां जीवनहेतुर्वर्तते । तस्मादेव हि यः पुरुषः उपशान्ततेजा भवति स तेजसोऽपगमनेनो-दानस्या- प्यपगमनमनुमाय मनसि सम्पद्यमानैरिन्द्रियैस्सह पुनर्भवं जन्मान्तरं मरणमिति यावत्, प्राप्स्यतीत्यनुमीयते लोकैरिति ॥ ६ ॥
श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका
आदित्यो ह वै बाह्य इत्यादिना कथं बाह्यमभिधत्ते । कथमध्यात्म- मित्यनयोरुत्तरमाह । आदित्यस्थो हि जीवशरीराद्वहिष्ठः प्राणः स उदयन्नेतत् बाह्यं तत् । एष एव हि चक्षुरभिमानिनं सूर्यमनु- गृह्णानोऽध्यात्मं देहेन्द्रिया- दिकमभितो धत्ते । अत्रायं विशेषः । प्राणस्तु चक्षुरादि-संस्थत्वात् अश्रुश्लेष्ममलादिकं प्रवर्तयन् आप्यं देहावयवं धत्ते । या सा पृथिव्या मलाद्य- पनयेन यदपानाख्यदेवता संस्थिता सैषा पुरुषशरीरस्यापि पार्थिवावयवं धत्ते । वाय्वादिसंस्थत्वात् । अथ तच्छरीरान्तं मध्यभागे योऽयमाकाशस्तस्मिन् स्थितः समानो वायुराकाशं धत्ते । किञ्च नाडीनामन्तर्भागे व्यानो वायुर्वाय्वंशं संचारयंश्चरतीत्येतदर्थतः सिद्धम् । तेजोरूपत्वादुदानशरीरमपि तेजोऽशं धत्ते । तस्माद्देहाभिमानी जीवो मनसि सम्पद्यमानैरिन्द्रियैः सहोपशान्ततेजा उदानेोत्क्रामितो भवति ॥ ३-६ ॥
छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्
|| बहिर्भव इति ॥ बहिःशब्दात् 'तत्र भव' इत्यधिकारे बाह्यो दैव्यः पाञ्चजन्यो गाम्भीर्यं च ञ्य इष्यते इति वार्तिकेन प्रत्यय इति भावः । बाह्य इत्यत्र निपातनात् टिलोपे ‘तद्धितेष्वचामादेः' इति आदिवृद्धिः । तन्नामानं तन्नामकं सूर्यं दधत् तद्धारकस्सन् । उद्गच्छति ऊर्ध्वभागं गच्छति । प्राण एव मुख्यप्राण एव चाक्षुषं चक्षुषि भवम् । प्राणवायुः स्वदासभूतं प्राणवायुमनुगृह्णानः धारणादिनानुग्रहं कुर्वाण इत्यर्थः। अभिप्रायमाह - एतेनेति ॥ चक्षुषि स्थित्वा प्राणरूपेण धत्त इत्यन्वयः ॥ एवमुत्तरत्रापीति । उत्तरत्र 'पृथिव्यां या देवता' इत्यादौ पृथिव्यां या धारिका मुख्यप्राणरूपेति शेषः । सैषा बहिः अधिदैवे पृथिव्यां विद्यमाना अपानाख्या देवता अधिष्ठानभूतपृथिव्या सह पुरुषस्यापानदेशे स्थित्वा दासभूतापानवायुं धृत्वा अन्तरा वर्तते । तथा बहिर्द्यावापृथिव्योर्मध्ये य आकाश- धारकः समानवायुः मुख्यप्राणरूपः सोऽधिष्ठानेनाकाशेन सह पुरुषशरीरे समानवायुं दासभूतं धृत्वान्तरा वर्तते । तथा बहिर्वायुधारको व्यानः मुख्यप्राणरूपः स एवाधिष्ठानभूतेन वायुना सह पुरुषशरीरे स्थित्वा दासभूतव्यानाधारको भवति । तथा बहिस्तेजोधारको य उदानवायुः मुख्यप्राणरूपः सोऽधिष्ठानभूतेन तेजसा सह पुरुषदेहे स्थित्वा दासभूतमुदानवायुं धत्त इति योजनेति भावः । अत्र
यत्तेजोऽधिष्ठानकमुख्यप्राणरूपोदानस्य देहेऽधिष्ठानभूततेजसा सह स्थित्वोदान- धारकत्वमुक्तं तदुपपादकत्वेन तस्मादुपशान्ततेजा इति मूलं योजयति-- कथमित्यादिना ॥ कथं शरीरे तेजसा सहोदानो वर्तते इति कथं ज्ञातव्य इत्यर्थः । अन्तरुदानमिति । अन्तःशरीरमध्य इत्यर्थः ॥ ३-६ ॥
ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी
ताम्रपर्णी ॥ चक्षुस्तदभिमानिनं प्राणवायुमिति । प्राणवायोः सूर्याद- वरत्वाच्चक्षुषोऽवान्तराभिमानिनं प्राणवायुं सूर्येण साकमनुगृह्णातीत्यर्थः । एतेन प्राणादिपञ्चकप्रविष्टः प्राणनामाऽहङ्कारिकप्राणो गुर्विन्द्रमध्यग एवेति वदन्तो निरस्ताः ॥ एवमुत्तरत्रापीति ॥ बहिः पृथिव्यां धारकापानाख्यदेवताऽधिष्ठान- भूतया पृथिवीदेवतया सहापाने स्थित्वाऽपानं तदभिमानिनं अपानवायु- ञ्चानुगृह्णानो वर्तत इत्यादिरूपेणोत्तरप्रकरणेष्वपि तात्पर्यं द्रष्टव्यमित्यर्थः। नन्व- पानसमानयोः पृथिव्याकाशाभ्यां समत्वात्कथं तदनुग्राह्यत्वमिति चेन्न । पृथिवी- गणेशयोरीषदुत्तमत्वेऽपि समत्वोक्तिसम्भवात्। . यद्वानुग्राहकत्वं नाम सह- कारित्वमित्यविरोधः। प्राचीनटीकायां तु 'एष ह्येनं चाक्षुषं प्राणमनुगृह्णाति' इत्यादौ बहिरादित्यान्तर्गतया जगद्धारकप्राण एव हि अन्तश्चाक्षुषं प्राणं सूर्यमनु- गृह्णानोऽध्यात्मं धत्ते । पृथिव्यां या देवतानियामिका अपानाख्या सा पुरुषस्या- पानेन्द्रियमवष्टभ्य शरीरे पार्थिवावयवं धत्ते । बहिराकाशधारकः समानोऽन्तरा- काशावयवं धत्ते । यो बहिर्वायुधारको व्यानः स एवान्तः वायुधारकः तेजोरूपत्वादुदानः शारीरमपि तेजो धत्ते इति व्याख्यातम् ॥ मरणमिति यावदिति॥ प्राचीनटीकायां तु । अथ तत्काले याच्चित्तः स भवेत्तं पुनर्भव- मुद्दिश्य तेन जीवेन सहैषः पञ्चरूपी प्राण आयाति । सः प्राण उदानेन युक्त आत्मना यथासङ्कल्पितमेव लोकं जीवं नयति । नच तदीयचित्तसङ्कल्पयो- र्विरोधः। आत्मसङ्कल्पानुसारेण हि तच्चित्तं प्राणः प्रणयतीत्युक्तम्॥ ३-६ ॥
मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
कथं बाह्यमित्यादीत्यत्रादिशब्देन कथं चाध्यात्ममिति प्रश्नग्रहणम्। कथमभिधत्त इति प्रश्नपरिहाराय तं दधदित्युक्तम्। अनेनाधिदैव- धारकत्वमुक्तं ज्ञेयम्। तं दधत् तद्धारकः सन् । उद्गच्छति ऊर्ध्वं ऊर्ध्वभागं गच्छति । प्राण एव मुख्यप्राण एव । प्राणवायुं स्वदासभूतं प्राणवायुम्।अनुगृह्णानो धारणादिनानुग्रहं कुर्वाणः । अभिप्रायमाह - एतेनेति ॥ ननु प्राणादिरूपाणामध्यात्मधारकत्वं पूर्वमेवोक्तम् । सत्यम् । अधिदैवादिगतानि प्राणादिरूपाणि तेभ्यो विभक्तानि तान्येव स्वाधिष्ठानैः सह जीवशरीरे स्थित्वा स्वानुग्राह्यं प्राणादिपञ्चकं धृत्वा जीवधृत्यनुकूलानि भवन्तीत्यत्रोच्यते । पूर्वं तु श्वासप्रणयनादिव्यापारविशेषवन्ति केवलाध्यात्मगतान्येव तानि दासपञ्चक- मधिष्ठाय स्थानविशेषेषु स्थितान्युदितानीति स्फुटत्वान्न दोषः। अत एव पुनः प्रश्नवाक्यमप्युपपद्यते । अधिष्ठानेन सह स्थितिस्तु तस्मादुपशान्ततेजा इत्यत्र स्फुटीकृता ॥ तदभिमानिनञ्च प्राणवायुमिति ॥ अभिधत्त इति पूर्वेणान्वयः ॥ एवमुत्तरत्रापि ज्ञातव्यमिति ॥ मुख्यप्राणोऽपाननाम्ना रूपेण बहिः पृथिवी- मभिधत्ते। अध्यात्मञ्चाधिष्ठानभूतया पृथिवीदेवतया सहैव पुरुषस्य अपानदेशे स्थित्वा अपानवायुं जडभूतं तदभिमानिनञ्च स्वदासभूतमपानवायुमभिधत्ते । तथा बहिर्द्यावापृथिव्योर्मध्ये य आकाशधारको मुख्यप्राणरूपः समानवायुः स स्वाधिष्ठानेनाकाशेन सह पुरुषशरीरे जडभूतं समानवायुं तदभिमानिनं स्वदासभूतं समानवायुमभिधत्ते। तथा बहिर्वायुधारको यो व्यानो मुख्यप्राणस्वरूपः स एव स्वाधिष्ठानभूतेन वायुना सह पुरुषशरीरगं जडभूतं व्यानवायुं तदभिमानिनं स्वदासभूतं व्यानमभिधत्ते। तथा बहिस्तेजोधारको य उदानो मुख्यप्राणस्वरूपः स स्वाधिष्ठानभूतेन तेजसा सह पुरुषदेहगं जडभूतमुदानं तदभिमानिनं स्वदासभूतमुदानञ्चाभिधत्त इति द्रष्टव्यमित्यर्थः । अन्तरेत्यस्यावृत्तिमभिप्रेत्याह- अन्तरा द्यावापृथिव्योर्मध्ये यदाकाश इति ॥ ह वेत्येतस्य व्याख्यानं इत्येतत्प्रसिद्धमिति । अत्र यत्तेजोऽधिष्ठानकमुख्यप्राणरूपोदानस्य देहेऽधिष्ठान-- भूततेजसा सह स्थित्वोदानधारकत्वमुक्तं तदुपपादकत्वेन तस्मादुपशान्ततेज इति मूलं योजयितुमवतारयति - कथमितीति ॥ तेजसा सहैवोदानो वर्तत इर्श कथं ज्ञातव्यमित्यर्थः ॥ अन्तरिति ॥ शरीरान्तरित्यर्थः । स इत्यस्य प्राप्स्यती क्रिययान्वयः । अनुमायेति ल्यबन्तस्यानुमीयत इत्युक्तानुमित्यपेक्षयोदा पगमानुमितेः पूर्वकालत्वादुपपत्तिः । अनुमीयते विद्वद्भिरिति शेषः॥ ३-६ ॥
अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
कथमभिधत्त इति प्रश्नपरिहाराय तं दधदुदयतीत्युक्तम् । अनेना-धिदैवाधारकत्वमुक्तं ज्ञेयम् ॥ एतेनेति ॥ ननु प्राणादिरूपाणामध्यात्म- धारकत्वं पूर्वमेवोक्तम्। सत्यम् । अधिदैवादिगतानि यानि प्राणादिरूपाणि तेभ्यो विभक्तानि तान्येव स्वाधिष्ठानैः सह जीवशरीरे स्थित्वा स्वानुग्राह्यं प्राणादिपञ्चकं धृत्वा जीवधृत्यनुकूलानि भवन्तीत्यत्रोच्यते । पूर्वं तु श्वासप्रणयनादिव्यापार- विशेषवन्ति केवलाध्यात्मगतान्येव तानि दासपञ्चकमधिष्ठाय स्थानविशेषेषु स्थितान्युदितानीति स्फुटत्वान्न दोषः । अत एव पुनः पुनः प्रश्नवाक्यमुपपद्यते । अधिष्ठानेन सह स्थितिस्तु तस्मादुपशान्ततेजा इत्यत्र स्फुटीकृता ॥ अनुमीयत इति ॥ उपशान्ततेजाः पुरुषो एवं लोक अनुमीयत इत्यर्थः॥ ३-६ ॥
गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी
॥ एवमुत्तरत्रापीति ॥ अधिष्ठानभूतेनेत्यादिकमित्यर्थः । अपान-समानयोः पृथिवीगणेशाभ्यां समत्वेऽपि नानुग्राह्यानुग्राहकभावविरोधः । पृथिव्याकाशयोः किञ्चिदुत्तमत्वोपपत्तेः । पृथिव्याकाशयोरनुग्राहकत्वं नाम सह- कारित्वमेव ॥ ३-६ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
कथं बाह्यमित्यादि प्रश्नद्वयं परिहियते - आदित्य इत्यादि ॥ मुख्यप्राण एव हि प्रणनामा बाह्यो बहिर्भवः, आदित्ये स्थितः तन्नामा, उदयति उद्गच्छति । एष आदित्यस्थः प्राण एवैनं चाक्षुषं चक्षुषि भवं प्राणवायुमनुगृह्णानो वर्तते । एतेन मुख्यप्राणः प्राणनाम्ना रूपेण बहिरादित्यमभिदत्ते। अध्यात्मञ्चा- धिष्ठानभूतेनाऽदित्येन सहैव चक्षुषि स्थित्वा चक्षुस्तदभिमानिनञ्च प्राणवायुमभिधत्त इत्युक्तं भवति । एवमुत्तरत्रापि ज्ञातव्यम् । बहिः पृथिव्यां या धारिकाऽपानाख्या देवता सैषा पुरुषस्यापानं देहे वर्तमानमपानवायुमवष्टभ्य धृत्वा अन्तरा शरीरान्त- र्वर्तते । अन्तरा द्यावापृथिव्योर्मध्ये यदाकाशो य आकाशः आकाशधारकः समानः सोऽध्यात्मं समानः समानवायुं धत्ते । यो बहिर्वायुधारको व्यानः स एवान्तर्व्यानो व्यानवायुधारकः । बहिस्तेजोधारको य उदानः स उदानः उदानवायुं धत्त इत्येतत् प्रसिद्धम् । कथमिति ? यस्मात् तेजोऽधिष्ठातोदानस्तेनाधिष्ठानेन तेजसा सहैवान्तरुदानं दधत् प्राणिनां जीवनहेतुर्वर्तते तस्मादेव हि यः पुरुषः उपशान्ततेजा अनुगृह्णानो धारणादिनानुग्रहं कुर्वाणः । अभिप्रायमाह - एतेनेति ॥ ननु प्राणादिरूपाणामध्यात्मधारकत्वं पूर्वमेवोक्तम् । सत्यम्। अधिदैवादिगतानि प्राणादिरूपाणि तेभ्यो विभक्तानि तान्येव स्वाधिष्ठानैः सह जीवशरीरे स्थित्वा स्वानुग्राह्यं प्राणादिपञ्चकं धृत्वा जीवधृत्यनुकूलानि भवन्तीत्यत्रोच्यते । पूर्वं तु श्वासप्रणयनादिव्यापारविशेषवन्ति केवलाध्यात्मगतान्येव तानि दासपञ्चक- मधिष्ठाय स्थानविशेषेषु स्थितान्युदितानीति स्फुटत्वान्न दोषः । अत एव पुनः प्रश्नवाक्यमप्युपपद्यते। अधिष्ठानेन सह स्थितिस्तु तस्मादुपशान्ततेजा इत्यत्र स्फुटीकृता ॥ तदभिमानिनञ्च प्राणवायुमिति ॥ अभिधत्त इति पूर्वेणान्वयः ।। एवमुत्तरत्रापि ज्ञातव्यमिति ॥ मुख्यप्राणोऽपाननाम्ना रूपेण बहिः पृथिवी - मभिधत्ते। अध्यात्मञ्चाधिष्ठानभूतया पृथिवीदेवतया सहैव पुरुषस्य अपानदेशे स्थित्वा अपानवायुं जडभूतं तदभिमानिनःश्च स्वदासभूतमपानवायुमभिधत्ते । तथा बहिर्द्यावापृथिव्योर्मध्ये य आकाशधारको मुख्यप्राणरूपः समानवायुः स स्वाधिष्ठानेनाकाशेन सह पुरुषशरीरे जडभूतं समानवायुं तदभिमानिनं स्वदासभूतं समानवायुमभिधत्ते। तथा बहिर्वायुधारको यो व्यानो मुख्यप्राणस्वरूपः स एव स्वाधिष्ठानभूतेन वायुना सह पुरुषशरीरगं जडभूतं व्यानवायुं तदभिमानिनं स्वदासभूतं व्यानमभिधत्ते। तथा बहिस्तेजोधारको य उदानो मुख्यप्राणस्वरूपः स स्वाधिष्ठानभूतेन तेजसा सह पुरुषदेहगं जडभूतमुदानं तदभिमानिनं स्वदासभूतमुदानञ्चाभिधत्त इति द्रष्टव्यमित्यर्थः । अन्तरेत्यस्यावृत्तिमभिप्रेत्याह- अन्तरा द्यावापृथिव्योर्मध्ये यदाकाश इति ॥ ह वेत्येतस्य व्याख्यानं इत्येतत्प्रसिद्धमिति । अत्र यत्तेजोऽधिष्ठानकमुख्यप्राणरूपोदानस्य देहेऽधिष्ठान- भूततेजसा सह स्थित्वोदानधारकत्वमुक्तं तदुपपादकत्वेन तस्मादुपशान्ततेज इति मूलं योजयितुमवतारयति - कथमितीति ॥ तेजसा सहैवोदानो वर्तत इ कथं ज्ञातव्यमित्यर्थः ॥ अन्तरिति ॥ शरीरान्तरित्यर्थः । स इत्यस्य प्राप्स्यती क्रिययान्वयः । अनुमायेति ल्यबन्तस्यानुमीयत इत्युक्तानुमित्यपेक्षयोदा . पगमानुमितेः पूर्वकालत्वादुपपत्तिः । अनुमीयते विद्वद्भिरिति शेषः ॥ ३-६ ॥
अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी
कथमभिधत्त इति प्रश्नपरिहाराय तं दधदुदयतीत्युक्तम् । अनेना-धिदैवाधारकत्वमुक्तं ज्ञेयम् ॥ एतेनेति ॥ ननु प्राणादिरूपाणामध्यात्म- धारकत्वं पूर्वमेवोक्तम्। सत्यम् । अधिदैवादिगतानि यानि प्राणादिरूपाणि तेभ्यो विभक्तानि तान्येव स्वाधिष्ठानैः सह जीवशरीरे स्थित्वा स्वानुग्राह्यं प्राणादिपञ्चकं धृत्वा जीवधृत्यनुकूलानि भवन्तीत्यत्रोच्यते । पूर्वं तु श्वासप्रणयनादिव्यापार- विशेषवन्ति केवलाध्यात्मगतान्येव तानि दासपञ्चकमधिष्ठाय स्थानविशेषेषु स्थितान्युदितानीति स्फुटत्वान्न दोषः । अत एव पुनः पुनः प्रश्नवाक्यमुपपद्यते । अधिष्ठानेन सह स्थितिस्तु तस्मादुपशान्ततेजा इत्यत्र स्फुटीकृता ॥ अनुमीयत इति ॥ उपशान्ततेजाः पुरुषो एवं लोक अनुमीयत इत्यर्थः॥ ३-६ ॥
गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी
।। एवमुत्तरत्रापीति ॥ अधिष्ठानभूतेनेत्यादिकमित्यर्थः । अपान-समानयोः पृथिवीगणेशाभ्यां समत्वेऽपि नानुग्राह्यानुग्राहकभावविरोधः। पृथिव्याकाशयोः किञ्चिदुत्तमत्वोपपत्तेः । पृथिव्याकाशयोरनुग्राहकत्वं नाम सह- कारित्वमेव ॥ ३-६ ॥
श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः
कथं बाह्यमित्यादि प्रश्नद्वयं परिहियते - आदित्य इत्यादि ॥ मुख्यप्राण एव हि प्रणनामा बाह्य बहिर्भवः, आदित्ये स्थितः तन्नामा, उदयति उद्गच्छति । एष आदित्यस्थः प्राण एवैनं चाक्षुषं चक्षुषि भवं प्राणवायुमनुगृह्णानो वर्तते । एतेन मुख्यप्राणः प्राणनाम्ना रूपेण बहिरादित्यमभिदत्ते। अध्यात्मञ्चा- धिष्ठानभूतेनाऽदित्येन सहैव चक्षुषि स्थित्वा चक्षुस्तदभिमानिनञ्च प्राणवायुमभिधत्त इत्युक्तं भवति । एवमुत्तरत्रापि ज्ञातव्यम् । बहिः पृथिव्यां या धारिकाऽपानाख्या देवता सैषा पुरुषस्यापानं देहे वर्तमानमपानवायुमवष्टभ्य धृत्वा अन्तरा शरीरान्त- र्वर्तते । अन्तरा द्यावापृथिव्योर्मध्ये यदाकाशो य आकाशः आकाशधारकः समानः सोऽध्यात्मं समानः समानवायुं धत्ते । यो बहिर्वायुधारको व्यानः स एवान्तर्व्यानो व्यानवायुधारकः । बहिस्तेजोधारको य उदानः स उदानः उदानवायुं धत्त इत्येतत् प्रसिद्धम् । कथमिति ? यस्मात् तेजोऽधिष्ठातोदानस्तेनाधिष्ठानेन तेजसा सहैवान्तरुदानं दधत् प्राणिनां जीवनहेतुर्वर्तते तस्मादेव हि यः पुरुषः उपशान्ततेजा भवति स तेजसोपशमेनोदानस्याप्यापगमनमनुमाय मनसि सम्पद्यमानैर्लीयमानै- रिन्द्रियैस्सह पुनर्भवं जन्मान्तरं, मरणमिति यावत्, प्राप्स्यतीत्यनुमीयते । लोक इति योज्यम् ॥ ३-६ ॥
नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका
कथं बाह्यमभिधत्ते, कथमध्यात्ममिति प्रश्नद्वयं परिहरति- आदित्य इति ॥ मुख्यवायुरेव हि प्राणः प्राणनामा सन् बाह्यः बहिर्भवः आदित्यः आदित्ये स्थितः आदित्यनामा लोकप्रसिद्धमादित्यं दधत् उदयति उद्गच्छति । एष आदित्यस्थः प्राण एनं चाक्षुषं चक्षुषि भवं प्राणं वायुमनुगृह्णानः तं चक्षुरभिमानिनं प्राणवायुं आदित्येन सह धत्ते । पृथिव्यां या देवता अपानाख्या तद्गतः तन्नामा मुख्यवायुरेव बहिस्थः तद्देवता धारकत्वेन वर्तते । सैषा देवता । अन्तरा शरीरमध्ये पुरुषस्य अपानवायुमवष्टभ्य धारकत्वेन तत्र स्थितो वर्तते । अन्तरा द्यावापृथिव्योर्मध्ये यदाकाशो यः आकाशः आकाशाधारकः समानः सोऽध्यात्मं समानं समानवायुं धत्ते । यो बहिर्वायुर्वायुधारको व्यानः स एवान्तः व्यानो व्यानस्थवायुधारकः । बहिस्तेजोधारकः य उदानः स उदानवायुं धत्ते इत्येतत्प्रसिद्धम् ॥ कथमिति ? || यस्मात्तेजोऽधिष्ठातोदानः तेनाधिष्ठानेन तेजसा सहैव तदुदानं दधत्। मुख्यवायुः प्राणिनां जीवनहेतुर्भवति । तस्मादेव हि यः पुरुषः उपशान्ततेजा भवति स पुरुषः मनसि सम्पद्यमानैर्लीयमानैरिन्द्रियैः सह पुनर्भवं जन्मान्तरं मरणमिति यावत् । प्राप्स्यतीति लोकैर्जनैः तेजसो गमनेनोदानगमनं ज्ञात्वा अनुमीयते ॥ ३-६ ॥
उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका
कथं बाह्यमध्यात्ममिति प्रश्नप्रतिवचनमाह — आदित्य इत्यादिना ॥ प्राणः हि वै मुख्यप्राण एव, बाह्यः बहिर्भवः । आदित्यः आदित्यस्थितः, आदित्यनामानं दधत्, उदयति उद्गच्छति । एष हि आदित्यस्थ एव, एनं चाक्षुषं चक्षुषि भवं प्राणं वायुमनुगृह्णानः अनुग्रहकारी वर्तते इति शेषः । मुख्यप्राणः प्राणनाम्ना रूपेण बहिरादित्यं धत्ते अध्यात्मं च आदित्यस्थःसःप्राणाधिष्ठानभूतेन आदित्येन सहैव चक्षुषि स्थित्वा चक्षुस्तदभिमानिनं प्राणवायुञ्चाभिधत्त इत्यर्थः । बहिः पृथिव्यां धारिका या अपानाख्या देवता सैषा पुरुषदेहेऽपानमवष्टभ्य धृत्वा अन्तरा शरीरान्तर्वर्तत इति शेषः । अन्तरेत्यावर्तते । अन्तरा द्यावापृथिव्योर्मध्ये यदाकाशः यः व्यत्ययात् । आकाशः आकाशधारकः स समाननामा मुख्यः, समानं वायुमभिधत्ते। वायुर्बहिर्वायुधारकः व्यानः मुख्यः । स एवान्तर्व्यान वायुं धारकः तेजः बहिस्तेजोधारकः य उदाननामा मुख्यः, स उदानवायुधारकः इत्येतत् हवा प्रसिद्धमेव । यस्मात् तेजोऽधिष्ठाता उदानः प्राणिनां जीवनहेतुर्भवति तस्मात् कारणाद्यः कश्चिदुपशान्ततेजाः निस्तेजको भवतीति शेषः । तेजसोऽप- गमेनोदानोऽपि गत इत्यनुमाय मनसि अन्तःकरणे समपद्यमानैर्लीयमानैरिन्द्रियैः। पुनर्भवं जन्मान्तरं मरणं इति यावत् । प्राप्स्यतीत्यनुमीयते लोक इति शेषः॥ ३-६॥