तस्मै स होवाच

स्वप्नावस्थायां तत्त्वदेवानां स्वस्वव्यापारादुपरमः

उपनिषत्

तस्मै स होवाच । यथा गार्ग्य मरीचयोऽर्कस्यास्तं गच्छतः सर्वा एतस्मिंस्तेजोमण्डले एकीभवन्ति ताः पुनरुदयतः प्रचरन्त्येवं ह वै तत्सर्वं परे देवे मनस्येकीभवति । तेन तर्ह्येष पुरुषो न शृणोति न पश्यति न जिघ्रति न रसयते न स्पृशते नाभिवदते नाऽदत्ते नाऽनन्दयते न विसृजते नेयायते स्वपितीत्याचक्षते ॥ २ ॥

भाष्यम्

'रश्मीनामविशेषेऽपि हान्यदृष्टिव्यपेक्षया ।

सूर्यस्य मण्डलं यान्तीत्युच्यन्ते तददर्शनात् ।

एवं विष्णोस्तु सामीप्याद्देवानां सुप्तिगस्य तु ।

व्यवहाराकरत्वाच्च एकीभाव इतीर्यते ॥ ' इति च ॥ २ ॥

श्रीमज्जयतीर्थभिक्षुविरचिताषट्प्रश्नभाष्यटीका

एवं पृष्टवते तस्मै स होवाच - यथेत्यादि ॥ अत्रार्कमरीचीनां यत्तेजो- मण्डलेऽस्तमये एकीभावकथनं, यच्चोदये तस्मात् पुनः प्रचारवचनं तदनुपपन्नम्। अत्रास्तमयेऽपि देशान्तरे पृथक्दर्शनादिनाऽऽदित्यरश्मीनामुदयास्तमययो- रविशेषात् । इन्द्रियादिदेवानां चात्र स्वापे वक्तव्ये मनस्येकीभावकथनं कुत्र सङ्गच्छते? कथं वा युज्यते ? नहि भिन्नयोरभेदः क्वचिद्दृष्टः। कथञ्च मनसः परदेवत्वमितीत्यत एतद्वाक्यं समञ्जसयितुं व्याख्यानरूपां स्मृतिमुदाहरति- रश्मीनामिति ॥ सुप्तिगस्य देवानामिति तत्तदिन्द्रियाद्यभिमानिदेवानामित्यर्थः। सुप्तिगस्य तद्देवानां चेति वा । ततश्चायमर्थ:- हे गार्ग्य, यथाऽर्कस्यास्तमदर्शनं गच्छतस्सतः सर्वा एव मरीचयस्सर्वेऽपि रश्मयः एतस्मिन्दृश्यमाने तेजोरूपमण्डले एकीभवन्ति तत्रैकीभूता इव दृश्यन्ते, प्रकाशनादिव्यापारादुपरमन्त इति यावत्, ताः पुनस्ते तु रश्मयोऽर्कस्य पुनरुदयतः सतः प्रचरन्ति तस्मान्मण्डलान्निर्गत्य लोके प्रचरन्तीव दृश्यन्ते, स्वव्यापारं कुर्वन्तीति यावत् । एवं खल्वेतत्सर्वं शरीरी तदिन्द्रियदेवताजातञ्च परे देवे विष्णौ स्वप्नावस्थायां मनसि स्थिते, सुषुप्तौ तु हृदयाकाशस्थे एकीभवति । जागरे तु प्रचरति । अनेन स्वप्ने मनोव्यतिरिक्ताना- मेवोपरमः । सुषुप्तौ तु तस्यापीति सूचितम् । यत एवं तेन कारणेन, तर्हि तदा स्वापे एषः पुरुषो जीवो न शृणोतीत्यादि । नेयायते न गच्छति। स्वप्नविवक्षया चैतत् । सुषुप्तौ तु न मनुत इत्याद्यपि द्रष्टव्यम् । यत एवं जीवः स्वापे परं देवं प्राप्नोति, अत एव हि तदा स्वपितीत्याचक्षते विद्वांसः । स्वं स्वतन्त्रं देवमप्येतीति कृत्वेति॥ २ ॥

श्रीवामनपण्डिताचार्यविरचिताषट्प्रश्रभाष्यटीका

अथ 'यथा गार्ग्य मरीचय' इत्यादिवाक्यानामभिप्रायं वक्ति- रश्मीना - मविशेषेऽपीत्यादि प्रभञ्जनवाक्येन ॥ यथा सूर्यस्यास्तं गच्छतो मरीचयस्तन्मण्डलं प्रविश्य तस्मिन्नेकीभवन्तीति स्थूलदृग्व्यवहारेऽपि न तत्सत्यम्। नहि तासां तदैक्यं केनचित्प्रमाणेन सिद्धम् । सूक्ष्मदृग्बुद्धौ तासां पूर्ववद् भेदेन तस्मिन् स्थित्यवगमात् । एवं देवादीनामपि भगवत्सामीप्या- दिनिमित्तात्तस्मिन्नेकीभाव - वयवाहर एवाल्पज्ञैः क्रियते । नत्वेकीभावोऽस्ति । सर्वप्रमाणबाध्यत्वात्। तस्य परस्य प्रतियोगित्वानुक्तेः । परे देव इत्यधिकरण- त्वोक्तेश्च । सुप्तजीवस्तु परेण ग्रस्तकरणत्वात् श्रवणादिकं न करोति । तदा जीवं सेन्द्रियं स्वपितीत्याचक्षते, न ह्येकीभूत इति ॥ ४-२ ॥

श्रीवादिराजतीर्थविरचिताषट्प्रश्नभाष्यटीकाप्रकाशिका

मनस्येकीभवतीत्येतदुपलक्षणमिति भावेनाऽऽह - सुषुप्तौ हृदयाकाशस्थ इति ॥ तदा मनसोऽप्युपरतत्वादित्यर्थः । ' न मनुते इत्याद्यपि द्रष्टव्यम्' इत्यत्रादिशब्देन न स्वप्नान् पश्यति, नापि स्वाप्नविषयभोगजसुख- मनुभवतीत्यादि गृह्यते । 'स्वं स्वतन्त्रमप्येति' इति वदता स्वं ह्यपीतो भवतीति श्रुत्यन्तरे व्याख्यानात् स्वपितीत्यत्रापि पिधानार्थकापीत्युपसर्गाद् 'इण् गतौ' इति धातोश्च गुणस्य चाविवक्षायां 'समाने पूर्वलोप' इति वचनात्तदुपपदेऽकार- लोपे च सति स्वपीत्यपीतीत्यर्थः सूचितः ॥ २ ॥

श्रीनिवासतीर्थविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

॥ व्यवहाराकरत्वाच्चेति ॥ सुप्तिगस्य तद्देवानां च सामीप्यादे - कीभाव उक्तः । निमित्तान्तरं चाह - व्यवहारेति ॥ जीवे स्थित्वा येन देवेन यो भेदेन स्वोचितो व्यवहारः जीवेन करणीयस्तस्य तेन क्रियमाण- त्वादेकीभाव इवोच्यत इत्याहुः ॥ न मनुत इत्यादीति ॥ स्वप्ने मनोव्यापारस्य सत्वान्न मनुत इति नोक्तम् । सुषुप्तौ तदभावान्न मनुत इति द्रष्टव्यमित्युक्तम् । आदिपदेन न पश्यतीत्यादि ग्राह्यम् ।

छलारीनारायणाचार्यविरचितंषट्प्रश्नटीकाविवरणम्

॥ स्वापे वक्तव्य इति । इन्द्रियप्रेरणरूपव्यापारजनकत्वेनेत्यर्थः॥ सुप्तिस्येति ॥ सुप्तिस्य सुप्त्यवस्थापन्नस्य जीवस्येत्यर्थः । शरीरी जीवः ॥ मनसि स्थित इति ॥ मनसीत्यनन्तरं स्थित इति श्रुतौ शेषोक्तिः । तैजसनामक-

विष्णुविशेषणञ्चैतत् ॥ उपनिषद्यन्यदप्यध्याहार इति ॥ सुप्तावित्यादिना ॥ हृदयाकाश इति ॥ तत्स्थप्राज्ञनामके विष्णावित्यन्वयः । अनेन उपनिषदि मनसीति वचनेन यत एवमिति स्वप्ने मनोव्यतिरिक्तसर्वेन्द्रियाणामुपरम इति शेषः । नेयायते न गच्छतीति । इण् गतावित्यतः 'कण्ड्डादिभ्यो यक्' इति सूत्रेण कण्ड्डादेराकृति- गणत्वाङ्गीकारात्। तत्र कण्ड्रादिगणे इण् गतावित्यकारान्तमाश्रित्येण्धातोः ङित्वादात्मने पदे लटि तप्रत्यये मध्ये कण्ड्डा दित्वाद्यक् प्रत्ययेऽकृत्सार्वधातुकयो- र्दीर्घ इति अशब्दस्य दीर्घे ईयायते इति रूपमिति भावः । अत एव धातुवृत्तिकारेण माधवेनोक्तम् । अस्य कण्ड्रादेराकृतिगणत्वात् रैधवलादिभ्यो रैयति धवलयतीति चोक्तमिति । एवं श्रुतावपि रसयते इत्यत्र रसं गृह्णातीत्यर्थः । रसशब्दात्प्रातिपादकात् धात्वर्थे बहुलमिष्टवच्चेति सूत्रेण ग्रहणार्थे णिचि आतो लोपस्य स्थानिवद्भावेनात उपधाया इति न दीर्घः। एवमानन्दयत इत्यत्रानन्दशब्दादनुभवार्थे अनेनैव णिच् । स्पृशतेत्यादावात्मनेपदं तु व्यत्ययो बहुलमिति बोध्यम्॥ स्वप्नविवक्षया चैतदिति ॥ दशेन्द्रियमात्रव्यापारराहित्यकथनमित्यर्थः ॥ न मनुत इति ॥ सङ्कल्पादिरूपमनोव्यापारं न करोतीत्यर्थः । श्रुतौ सर्वेन्द्रियव्यापाराभावोक्त्यनन्तरं स्वपितीत्याचक्षत इत्यस्यासङ्गतत्वशङ्कावारणार्थं पूर्वोक्तहेत्वनुवादपूर्वकं कर्त्रध्याहारञ्च कुर्वन् तद्वाक्यं योजयति- यत एवमित्यादिना ॥ आचक्षते जीवमिति शेषः । आङ्पूर्वात् चक्षिङ् व्यक्तायां वाचीत्यतः लटि बहुवचनम् । अदादित्वाच्छपो लुकि 'आत्मनेपदेष्वनतः' इति अस्यादादेशे टित आत्मनेपदाना- मिति एत्वे चक्षत इति रूपम् । वदन्तीत्यर्थः । अत्र श्रुत्यन्तरे स्वं ह्यपीतो भवतीत्युक्तं तुमर्थकथनपूर्वकमत्र योजयति - स्वतन्त्रमिति ॥ अपिहितः प्राज्ञेनालिङ्गितः । एति प्राज्ञं प्राप्नोतीत्यर्थः ॥ ४-२ ॥

ताम्रपर्णीश्रीनिवासाचार्यविरचिताषट्प्रश्रभाष्यटीकाटिप्पणी

रश्मीनामिति भाष्यस्यायमर्थः । सूर्यरश्मीनामुदयास्तमययोर- विशेषेऽपि तददर्शनादस्तमये तेषां रश्मीनां अदर्शनाद्व्यवहाराकरत्वाच्च अज्ञ- दृष्टिमपेक्ष्य रश्मयः सूर्यस्य मण्डलं यान्तीत्युच्यन्ते । एवं सुप्तिगस्य स्वप्नगस्य तदिन्द्रियाभिमानिदेवानाञ्च स्वप्नावस्थायां हृदयस्थविष्णोः सामीप्याज्जाग्र-द्व्यवहारोपरमाच्च मनसि स्थिते तैजसनामके विष्णावेकीभाव इतीर्यते श्रुतौ नत्वैक्यादिति । तथा सुप्तिगस्य सुषुप्तिगस्य तदिन्द्रियदेवानां मनआद्यभिमानिनाञ्च हृदयाकाशस्थप्राज्ञाख्यविष्णोरतिसामीप्यात्तेत्प्रवेशात् जाग्रत्स्वप्नव्यवहाराकर- त्वाच्चैकीभाव इतीर्यत इति ।

हृदयस्थात्पज्जीवो दूरस्थो जाग्रदेष्यति ।

समीपस्थस्तथा स्वप्नं स्वपित्यस्मिन् लयं व्रजन् ।।

इति वचनात्।मनस्यन्तस्तु तैजसः । आकाशे च हृदि प्राज्ञः' इति श्रुतेश्च ॥ ४-२ ॥

मङ्कालीधर्मराजाचार्यविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

यथा गार्ग्योति वाक्यस्य प्रतीतार्थे लेशतोऽनुपपत्तिं प्रदर्श्यार्था- न्तरमुच्यते भाष्ये । तत्र भाष्योक्तामनुपपत्ति विवृण्वन् तद्दिशा दाष्टन्तिक- वाक्यस्यापातप्रतीतार्थेऽप्यनुपपत्ति वदन् भाष्यमवतार्य किञ्चिद्व्याचष्टे - अत्रा - कमरीचीनामित्यादिना ॥ अत्रेति । अस्मिन्वाक्य इत्यर्थः ॥ अत्रेति ॥ एतद्देश इत्यर्थः । पृथग्दर्शनादिनेत्यादिशब्देन प्रकाशनादिव्यापार उच्यते ॥ स्वापे वक्तव्य इति ॥ इन्द्रियप्रेरणारूपव्यापारोपरम इत्यर्थः ॥ सुप्तिगस्येति ॥ सुप्त्य-वस्थापन्नस्य जीवस्य सम्बन्धिनो ये देवास्तेषामित्यर्थमभिप्रेत्य सम्बन्ध- प्रदर्शनाय तदिन्द्रियाद्यभिमानीत्युक्तमित्यर्थः । सुप्तिगस्यापि भगवत्सामीप्यस्य प्रमितत्वाच्चशब्दमध्याहृत्य द्वितीयं व्याख्यानम्॥

ततश्चायं समग्रभाष्यार्थःअन्यदृष्टिव्यपेक्षया अन्येषां देशान्तरगतानां पृथ- ग्दर्शनान्निमित्तात् । उपलक्षणमेतत् । प्रकाशनादिव्यापाराच्च सूर्यरश्मीना - मुदयास्तमययोरविशेषेऽपि अस्तमये तददर्शनात् । तेषां रश्मीनामेतद्देशगतैः प्रकाशनादिव्यापारहेतुत्वेनादृष्टत्वात् जातरश्मयः सूर्यमण्डलं यान्तीति भ्रान्त्या तथा व्यवहियन्ते । एवमुदयेऽपि मण्डलमात्रदर्शनानन्तरं रश्मीनां क्रमेण दृष्टेर्मण्डलान्निर्गत्य चरन्तीति भ्रान्त्यैवोच्यन्त इति द्रष्टव्यम्। तथाच भ्रान्ति- प्रतीतार्थो दृष्टान्ततयात्रोच्यत इत्युक्तं भवति । अत्र दृष्टान्तवाक्ये तेजोमण्डल एकीभवन्तीति भ्रान्त्यनुवादेन मरीचीनां सूर्यमण्डललक्षणैकस्थानप्राप्तभ्रम-निमित्तत्वं प्रकाशतापनादिव्यवहारहेतुत्वञ्चेति यत्प्रमेयद्वयमभिप्रेतं तदनुसारेण दान्तिकवाक्यार्थ उच्यते - एवमिति ॥ ईर्यते श्रुताविति शेषः । एकीभाव - शब्दप्रयोगस्य स्वरूपैक्यप्राप्तौ क्वाप्यदृष्टत्वात् । 'गावः सायं गोष्ठे एकीभवन्ति' इत्यादौ एकस्थाननिवासप्राप्तौ च दृष्टत्वात् । बहुतरक्षीरेणैकीभूतस्य पृथग्व्यव- हारादर्शनेनैकीभावशब्दस्य तत्कार्ये प्रवृत्त्यकारणत्वे च लक्षणासम्भवादिति भावः । अत्र देवानां स्वस्वव्यापारकर्तृत्वमेव प्रकृतप्रश्नस्योत्तरतयाभिप्रेतं भगवत्सामीप्यप्राप्तिस्तु स्वस्वस्थानेषु स्थितानां तेषां व्यापाराभावासम्भवा- तदुपपादकतयोक्ता । अन्यथाऽसङ्गतेः । तेन तर्ह्येष पुरुषो न शृणोतीत्यादि - प्रपञ्चनाच्चेति । शरीरी जीवः ॥ मनसि स्थित इति ॥ मनसीत्यनन्तरं स्थित इति श्रुतौ शेषोक्तिः । तैजसनामकविष्णुविशेषणःञ्चैतत् । उपनिषदि अन्यदप्यध्या- हरति- सुषुप्तावित्यादिना ॥ प्राज्ञनामकविष्णुविशेषणमेतत् ॥ अनेनेति ॥ उपनिषदि मनसीति वचनेनेत्यर्थः ॥ यत एवमिति ॥ स्वप्ने मनोव्यतिरिक्त- सर्वेन्द्रियाणामुपरम इत्यर्थः ॥ स्वप्नविवक्षया चैतदिति ॥ दशेन्द्रियमात्र- व्यापारराहित्यकथनमित्यर्थः । न मनुत इत्याद्यपीति ॥ आदिशब्देन न बुद्ध्यते नाहं करोति न चेतयत इत्यादिपरिग्रहः । सङ्कल्पादिरूपमनोव्यापारादिकं न करोतीत्यर्थः। श्रुतौ सर्वेन्द्रियव्यापाराभावोक्त्यनन्तरं स्वपितीत्याचक्षते इत्य- स्यासङ्गतत्वशङ्कावारणार्थं पूर्वोक्तहेत्वनुवादपूर्वकं कर्त्रध्याहारं कुर्वंस्तद्वाक्यं योजयति- यत एवमिति ॥ आचक्षते जीवमिति शेषः । अत्र 'स्वं ह्यपीतो भवति' इति श्रुत्यन्तरोक्तहेतुमर्थकथनपूर्वकं योजयति - स्वं स्वतन्त्रमिति ॥ अप्येतीति ॥ अपि अपिहितः प्राज्ञेनालिङ्गितः । एति प्राज्ञं प्राप्नोतीत्यर्थः ॥ २ ॥

अनन्तभट्टविरचिताषट्प्रश्नभाष्यटीकाटिप्पणी

यथा गार्गेति वाक्यस्य प्रतीतार्थे लेशतोऽनुपपत्तिं प्रदर्श्यार्थान्तरमुच्यते । भाष्ये तत्र भाष्योक्तानुपपत्तिं विवृण्वन् तद्दिशा दान्तिकवाक्येऽपि तद्वतीत्यर्थे अनुपपत्तिं वदन् भाष्यमवतार्य किञ्चिद्व्याचष्टे - अत्रास्तेति ॥ पृथक्दर्शनादिनेत्यादिपदेन प्रकाशनादिव्यापार उच्यते। सुप्तिग- स्थोऽपि भगवत्सामीप्यस्य प्रमितत्वाच्च शब्दमध्याहृत्य द्वितीयं व्याख्यानम् ।ततश्चायं समग्रभाष्यार्थः-अन्यदृष्टिव्यपेक्षया अन्येषां देशान्तरगतानां पृथक् दर्शनान्निमित्तात् । उपलक्षणमेतत् । प्रकाशनादिव्यापाराच्च । सूर्यरश्मीनामुदया- स्तमययोरविशेषे अस्तमये तददर्शनात्तेषां रश्मीनामेतद्देशगतप्रकाशनादि- व्यापारहेतुत्वेनादृष्टत्वाज्जातया रश्मयः सूर्यमण्डलं यान्ति' इति भ्रान्त्या तथा व्यवह्रियन्ते । एवमुदयेऽपि मण्डलमात्राद् द्रष्टव्यम् । तथाच भ्रान्तप्रतीतार्थे दृष्टान्ततया अत्रोच्यत इत्युक्तं भवति । अत्र दृष्टान्तवाक्ये तेजोमण्डल एकी- भवन्तीति भ्रान्त्यनुवादेन मरीचीनां सूर्यमण्डललक्षणैकस्थान प्राप्तिभ्रान्ति- निमित्तम् । प्रकाशनतापनादिव्यवहारहेतुत्वञ्चेति यत्प्रमेयद्वयं तदभिप्रेत्य । एकीभावशब्दप्रयोगस्वरूपैक्यप्राप्तौ काप्यदर्शनाद्गावः सायं गोष्ठे एकीभवन्ती- त्यादावेकस्थाननिवासप्राप्तौ च दृष्टत्वाद्बहुतरक्षीरेणैकीभूतस्य नीरस्य पृथग्व्यव- हारदर्शनेनैकीभावशब्दस्य तत्कार्ये प्रवृत्तिकारणत्वे च लक्षणासम्भवादिति भावः। अत्र देवानां स्वस्वव्यापाराकर्तृत्वमेव प्रकृतप्रश्नस्योत्तरतया अभिप्रेतम् । भगवत्सामीप्यप्राप्तिस्तु स्वस्वस्थानेषु स्थितानां तेषां व्यापाराभावासम्भवा- तदुपपादकतयोक्ता। अन्यथा सङ्गतेः तेन तर्ह्येष पुरुषो न शृणोतीत्यादि-प्रपञ्चनाच्चेति॥ ४-२ ॥

॥ इति अनन्तभट्टविरचितं षट्प्रश्रटीकाविवरणम् ॥

गूढकर्तृकाषट्प्रश्नभाष्यटीकाटिप्पणी

यद्यपि सर्वत्रातद्वशा एव तथापि तदभिमानापेक्षयेयमुक्तिः । सुप्तिगम्यदेवानाञ्च कः सम्बन्धो येन षष्ठी घटत इत्यत आह- तदिन्द्रियेति ॥ ततश्चायं भाष्यार्थः । सूर्यरश्मीनामुदयास्तमययोरविशेषेऽपि अस्तसमये तददर्शनान्निमित्तात्सूर्यस्य मण्डलं यान्तीत्यज्ञदृष्टिमपेक्ष्य श्रुतौ रश्मयः सूर्यस्य मण्डलं यान्तीति यथोच्यते एवं सुप्तिगस्य देवानां विष्णोश्च सामीप्याज्जाग्र- त्स्वप्नव्यवहाराकारत्वाच्च सुप्तिगस्य देवानां विष्णोश्च एकीभाव इत्युच्यत इति ॥ ४-२ ॥

श्रीराघवेन्द्रयतिविरचितषट्प्रश्नोपनिषत्खण्डार्थः

एवं पृष्टवते स होवाच- यथेत्यादि । हे गार्ग्य, यथाऽर्कस्या- स्तमदर्शनं गच्छतः सर्वा एव मरीचयः सर्वेऽपि रश्मयः एतस्मिन् दृश्यमाने तेजोमण्डले एकीभवन्ति, तत्रैकीभूता इव दृश्यन्ते, प्रकाशादिव्यापारादुपरमन्त इति यावत्, ताः पुनस्ते तु रश्मयोऽर्कस्य पुनरुदयतः सतः प्रचरन्ति । तस्मात् मण्डलान्निर्गत्य लोके प्रचरन्तीव दृश्यन्ते । स्वव्यापारं कुर्वन्तीति यावत् । एवं खल्वेतत्सर्वं शरीरितदिन्द्रियदेवताजातञ्च परे देवे विष्णौ स्वप्नावस्थायां मनसि स्थिते, सुषुप्तौ हृदयाकाशस्थ एकीभवन्ति । जागरे तु प्रचरन्ति । अनेन स्वप्ने मनोव्यतिरिक्तानामेवोपरमः, सुषुप्तौ तु तस्यापीति सूचितम् । यत एवं तेन कारणेन तर्हि तदा स्वापे एष पुरुषो जीवो न शृणोतीत्यादि । नेयायते न गच्छति । स्वप्नविवक्षया चैतत् । सुषुप्तौ तु न मनुत इत्याद्यपि द्रष्टव्यम्। यत एवं जीवः स्वापे परं देवं प्राप्नोति, अत एव हि तदा स्वपितीत्याचक्षते विद्वांसः, स्वं स्वतन्त्रं देवमप्येतीति कृत्वेति ॥ ४-२॥

नरसिंहभिक्षुविरचिताषट्प्रश्नार्थप्रकाशिका

एवं पृष्टवते तस्मै स होवाच- यथेति ॥ हे गार्ग्य यथार्कस्यास्तमदर्शनं गच्छतः सतः सर्वा एव मरीचयः सर्वे रश्मयोऽर्कस्य तस्मिन् दृश्यमाने तेजोमण्डले एकीभवन्ति। तत्र एकीभूता इव दृश्यन्ते । ताः पुनस्ते तु रश्मयो- ऽर्कस्य पुनरुदयतः सतः चरन्ति मण्डलान्निर्गत्य प्रचरन्तीव दृश्यन्ते । एवं खलु तत्सर्वं शरीरतच्चक्षुरादिदेवादिकं स्वप्नावस्थायां मनसि तदभिमानिरुद्रे स्थिते परे देवे विष्णौ तिष्ठन्ति । सुषुप्तौ मनसोऽप्युपरतत्वात् । हृदयाकाशे स्थिते विष्णो एकीभवन्ति । एकीभूता इव दृश्यमानाः स्वप्नादुपरमन्ते जागरे प्रचरन्ति । यत एवं तेन कारणेन । तर्हि तदा स्वापे एष पुरुषो जीवः न शृणोतीत्यादि । नेयायते न गच्छति। स्वप्नविवक्षयैतत् । सुषुप्तौ तु न मनुते नानुसन्धत्ते इत्यपि द्रष्टव्यम्। स्वं स्वतन्त्रं देवमप्येतीति कृत्वा एनं जीवं स्वपितीत्याचक्षते विद्वांसः॥ ४-२॥

उदयगिरिकेशवाचार्यविरचिताषट्प्रश्नपञ्चिका

एवं प्रश्नान् श्रुत्वा गार्ग्याय सदृष्टान्तं प्रथमप्रश्नोत्तरमाह- यथेति ॥ गार्ग्य यथाऽस्तं गच्छतोऽर्कस्य सूर्यस्य सर्वा मरीचय एतस्मिन् दृश्यमाने तेजोमण्डले तेजः समूहरूपे एकीभवन्ति एकीभूता इव दृश्यन्ते । स्वव्यापारादुपरमन्ते इत्यर्थः । उदयतः सूर्यस्य सम्बन्धिनस्ते रश्मयः पुनः प्रचरन्ति । तस्मान्मण्डलान्निर्गत्य लोकं प्रचरन्तीव दृश्यन्ते। स्वव्यापारं कुर्वन्तीत्यर्थः । एवं हवा एवमेव खलु एतत्सर्वं शरीरेन्द्रियदेवतासमूहात्मकम् । परे देवे सर्वोत्कृष्टतैजसात्मके भगवति स्वप्नावस्थायां मनसि इन्द्रियप्रेरकत्वेन स्थित इति शेषः । सुषुप्तौ हृदयाकाशस्थ इति ज्ञातव्यम् । एकीभवति तत्समीपं तिष्ठति । च्विप्रयोगेण स्वरूपाभेदं निवारयति । अनेन स्वप्नमनोऽतिरिक्तानामिन्द्रियाणां उपरम इत्युक्तं भवति । सुषुप्तौ तु मनसोऽपि लयः । तेन कारणेन तदा स्वप्ने एष पुरुषः जीवः न शृणोति न बाह्यशब्दजातम्, श्रवणेन्द्रियस्योपरतत्वादिति भावः । नच पश्यति बाह्यचक्षुषः उपरमात् बाह्यं, रूपवत्पदार्थजातं, न जिघ्रति बाह्यं गन्धजातम् । घ्राणेन्द्रियस्योपरमात्। 'घ्रा गन्धोपादाने' इति धातुः। न रसयते रसनेन्द्रियस्योपरतत्वात् । न स्पृशति त्वगिन्द्रियस्योपरमात्। ज्ञानेन्द्रियोपरममुक्त्वा कर्मेन्द्रियोपरममाह - नाभिवदत इति । नाभिवदते बाह्यवागिन्द्रियेण न वक्तीत्यर्थः । नादत्ते वा हस्ताभ्यां न गृह्णाति न ददाति च। नानन्दयते बाह्योपस्थेन, न विसृजति बाह्यपायुना । नेयायते न गच्छति बाह्यपादाभ्यांइण् गतौ' इत्यस्य रूपम् । यतो जीवः परं प्राप्नोति तेन कारणेन जीवः स्वपितीति विद्वांसः आचक्षते ॥ ४-२ ॥