उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवी ..
अथ द्वितीय खण्ड:
अधिदेवे अध्यात्मे च भगवतः उक्थ अर्क -अन्नरूपाणि
ऐतरेयोपनिषत्
उक्थमुक्थमिति वै प्रजा वदन्ति तदिदमेवोक्थमियमेव पृथिवी तो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्याग्निरर्कोन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । अन्तरिक्षमेवोक्थमन्तरिक्षं वा अनु पतन्त्यन्तरिक्षमनु धावयन्ति । तस्य वायुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते ।
असावेव द्यौरुक्थममुतःप्रदानाद्धीदं सर्वमुत्तिष्ठति यदिदं किञ्च । तस्यासावादित्योऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । इत्यधिदैवतम् ।
अथाध्यात्मम् । पुरुष एवोक्थमयमेव महान् प्रजापतिरहमुक्थमस्मीति विद्यात् । तस्य मुखमेवोक्थं यथा पृथिवी तथा । तस्य वागर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । नासिके एवोक्थं यथाऽन्तरिक्षं तथा । तस्य प्राणोऽर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । तदेतद् ब्रध्नस्य विष्टपं यदेतन्नासिकायै विनतमिव । ललाटमेवोक्थं यथा द्यौस्तथा । तस्य चक्षुरर्कोऽन्नमशीतयोऽन्नेन हीदं सर्वमश्नुते । समानमशीतयोऽध्यात्मं चैवाधिदैवतं चान्नमेव । अन्नेन हीमानि सर्वाणि भूतानि समनन्तीग्ं ३ । अन्नेनेमं लोकं जयत्यन्नेनामुम् । तस्मात् समानमशीतयोऽध्यात्मं चाधिदैवतं चान्नमेव । तदिदमन्नमन्नादमियमेव पृथिवीतो हीदं सर्वमुत्तिष्ठति यदिदं किञ्च । यद्ध किञ्चेदं प्रेता३ इ तदसौ सर्वमत्ति । यदु किञ्चातः प्रैती३ तदियं सर्वमत्ति । सेयमन्नमत्ति याद्याऽत्री । अत्ता ह वा आद्यो भवति । न तस्येशे यं नाद्याद्यद्वैनं नाद्युः ।। २.१.२. ॥
॥ इति द्वितीयखण्ड: ॥
उक्थशब्दनिर्वचनम् तत्स्थानकथनं च
भाष्यम्
उत्थापनादुक्थनामा स एव पृथिवीस्थितः । प्रथितः पृथिवीनामा सोऽन्तरिक्षाभिधोऽत्रगः ॥ अन्तरीक्ष्यो यतो द्युस्थो द्युनामाऽतिप्रकाशनात् । अध्यात्मे च निविष्टोऽसौ पुरुषाख्यो जनार्दनः ॥ पूर्षु स्थितत्वात् स महान् प्रजानां पतिरेव च । अहमुक्थमिति ह्येतां विद्यामनुभवत्यसौ ॥ पृथक्पृथक्च तस्याङ्गान्युक्थानि जगदीशितुः । अग्निवातदिनेशानामुत्थानानि पृथक् पृथक् ॥ वदनं नासिका नेत्रमित्येतानि परात्मनः ।
भावप्रदीप:
'उक्थमुक्थ' मिति खण्डं व्याचष्टे - उत्थापनादित्यादिना ।। उत्थापनात् जगत्सर्जनादुक्थनामा । भगवानिति वर्तते । उत्पूर्वात् 'ष्ठा गतिनिवृत्तौ ' इति धातोरन्तर्णीतण्यर्थात्कप्रत्ययः । तकारस्य कः । धात्वादर्लोपश्च निर्वचनत्वात् । 'इयमेव पृथिवी' त्यस्यार्थः- स एवेति । स भगवानेव पृथिवीनामेति सम्बन्धः | योगरूढोऽयं शब्दो भगवतीति भावेन रूढिप्रदर्शनाय पृथिवीस्थित इति योग- दर्शनाय प्रथित इति चोक्तम् । प्रथितो विस्तृतः । एवमेवोत्तरत्र सर्वत्र योगरूढिप्रदर्शनं ज्ञेयम् । 'अन्तरिक्षमेवोक्थं' इत्यादाव - न्तरिक्षपदं भगवति व्याख्याति - सोऽन्तरिक्षाभिध इति ।। यतः अत्रगः अन्तरिक्षस्यः अन्तरीक्ष्यः स्वहृदयान्तर्ज्ञानिभिरीक्षणीयश्च, तस्मादित्यर्थः । अन्तरुपपदादीक्षतेः कर्मण्यच् । धातोर्हस्वता । 'असावेव द्यौः' इत्यत्र घुशब्दं भगवति घटयति- घुस्थ इति ॥ प्रकाशनस्य सूर्यादिसाधारण्यनिरासाय अतिप्रकाशनादित्युक्तम् । द्युत्यर्थाद्दीव्यतेः क्विप् । 'अध्यात्मं' इत्यादि व्याचष्टे – अध्यात्मे चेति ।। आत्मानं देहमधिकृत्य विद्यमानमध्यात्मं मुखनासिकादिकम् । तत्र निविष्ट इत्यर्थः । पुरुष इति जीव उच्यत इति प्रतीति- निरासायाह-- पुरुषाख्य इति ।। पुरुषशब्दवाच्यासु पूर्षु शरीराख्य- पुरीषु स्थितत्वाद्रूढ्या, पुरेषु देहाख्यपूर्षु स्थितत्वाद्योगेन च पुरुषाख्य इत्यर्थः । पुरुशब्दोपपदात्सरतेर्डः । उपपदान्तस्योकारः । सस्य षत्वम् । ‘अयमेव महान् प्रजापतिः' इत्येतद् व्याचष्टे- स महानिति । स एव महान् प्रजानां पतिश्चेति सम्बन्धः । 'अहमुक्थमस्मीति विद्यात्' इत्येतद् यः कोऽपि पुरुषोऽहमुक्थम- स्मीति जानीयादित्युच्यत इति प्रतीतिनिरासाय व्याचष्टे - अह- मुक्थमिति ॥ नायं विधिः, किन्तु विद्यां ज्ञानमत्ति अनुभवतीति विद्यादिति भगवत एव विशेषणम् । तथाचाहमुक्थमस्मीति ज्ञानस्य योग्यो भगवानेक एव, नान्यः । तस्यैव सर्वोत्तमत्वादियोगाद- न्यस्यायोगादिति भावः । विद्योपपदात् 'अद भक्षणे' इति धातोः क्विप् विट् च । 'तस्य मुखमेवोक्थं नासिके एवोक्थम्, ललाटमेवोक्थं' इति वाक्यत्रयं व्याचष्टे - पृथगिति ।। नन्वङ्गिनः पुरुषस्योक्तमुक्थत्वं कथं तदङ्गानामपि युज्यत इत्यतस्तद्घटयितुमाह- अग्नीति ।। उत्थानानि उत्थापकानि, जनकानीत्यर्थः । पृथक् पृथगित्यस्य वदनमग्रेरुत्थापकम् नासिका वातस्य, नेत्रं दिनेशस्य सूर्यस्येत्यर्थः । अत्र नेत्रमित्यनेन ललाटशब्दस्तत्सम्बद्धनेत्रोपलक्षक इत्युक्तं भवति ।।