सईक्षेत, इमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति

।। अथ द्वितीयारण्यके चतुर्थोऽध्यायः तृतीय: खण्ड:  ।।

 

अन्नसृष्टिः

उपनिषत्

सईक्षेत, इमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृजा इति । सोऽपोऽभ्यतपत् । ताभ्योऽभितप्ताभ्यो मूर्तिर-जायत । या वैसा मूर्तिरजायत अन्नं वै तत् । तदेतत्सृष्टं पराङ्गत्यजिघांसत् ।

भाष्यम्

पुनरैच्छत् केशवोऽसावन्नमेभ्यः सृजा इति । अबाख्याः देवताः पूर्वं सृष्ट्वा ब्रह्मादिकाः पुनः ।। ददर्शऽशु विशालाभ्यां नेत्राभ्यां पुष्करेक्षणः । तद्दर्शनात् तदिच्छातस्तासां देहोऽभवत् पृथक् ।। सर्वासामपि देहैकदेशेभ्यो मिलितं शुभम् । सर्वैरधिष्ठितं चैव विरिञ्चेन विशेषतः || दिव्यावयवसम्पन्नमेकमेव सुलोचनम् । भोग्यभोक्त्रात्मना नास्ति तस्य दुःखं कथञ्चन ॥ ते हि देवा: स्वयं भोग्याः स्वयं भोक्तार एव च । क्रीडन्ते मोदिनो नित्यं तथाप्यन्नात्मकस्त्वसौ ॥ क्रीडयापाक्रमत् किञ्चित्.................।।

भावप्रदीप:

' स ईक्षत' इत्यादिखंडं व्याचष्टे - पुनरैच्छदित्यादिना ॥सोऽभ्यतपत्इत्यस्यार्थः- अबाख्यदेवता इति ।। ददर्शेत्यनेन दर्शनमेवाभितपनमित्युक्तं भवति । 'ताभ्योऽभितप्ताभ्यो मूर्तिरजायत' इत्यस्यार्थः- तद्दर्शनादिति । 'पृथग्देहोऽभवत्' इत्युक्तमेव विशद- यति - सर्वासामिति ।। शरीरमिति वा रूपमिति वा विशेष्यमध्या- हार्यम् । तेन मिलितमित्यादिनपुंसकोपपत्तिः । ' या वै सा मूर्तिर - जायतान्नं वै तत्' इति तद्रूपस्यान्नत्वमुच्यते । तेन देवानां पूर्वो- त्पन्नानां भोक्तृत्वमस्यामूर्तेर्भोग्यत्वं प्राप्तम् । न चैतद्युज्यते । मूर्तेरपि सकलदेवताधिष्ठितत्त्वेन भोक्तृणामेव भोग्यात्मकत्वप्राप्त्या खादनादिना दुःखस्यापि प्रसङ्गादित्यत आह- भोग्येति ॥ भोग्यभोक्त्रात्मना - स्थितस्य तस्य देवसमुदायस्य । कुतो दुःखं नास्तीत्यत आह- ते हीति ।। स्वयमेव भोग्याः स्वयमेव भोक्तारश्च सन्तो नित्यं मोदिन एव क्रीडन्त इत्यन्वयः । तर्हितदेतत्सृष्टं पराङ् अत्यजिघांसत्' इति तस्या अन्नमूर्तेरात्मादनभिया पलायनोक्तिः कथमित्यतस्तदपि क्रीड - यैवेत्याहतथापीति ।। असौ देहः । देवतासमुदायो वा । ब्रह्मा वा ।

Load More