अथातो रेतसः सृष्टिः

अथ तृतीय खण्ड:

सृष्टिकर्ता भगवानेव

उपनिषत्

अथातो रेतसः सृष्टिः । प्रजापते रेतो देवाः, देवानां रेतो वर्षं, वर्षस्य रेत ओषधयः, ओषधीनां रेतोऽन्नं, अन्नस्य रेतो रेतो, रेतसो रेतः प्रजाः, प्रजानां रेतो हृदयं, हृदयस्य रेतो मनो, मनसो रेतो वाक्, वाचो रेतः कर्म । तदिदं कर्म कृतम् । अयं पुरुषो ब्रह्मणो लोकः । स इरामयो, यद्धीरामयस्तस्मात् हिरण्मयः । हिरण्मयो ह वा अमुष्मिल्लोके सम्भवति । हिरण्मयः सर्वेभ्यो भूतेभ्यो ददृशे य एवं वेद ।। २.१.३ ।।

सृष्टिनिरूपणम्

भाष्यम्

स एष भगवान् विष्णुः प्रजापतिरितीरितः । तस्माज्जाताः सर्वदेवा ब्रह्माद्यास्तेभ्य एव च ॥ वृष्टिः सञ्जायते तस्याः सर्वा ओषधयोऽभवन् । ओषधीभ्योऽन्नमन्नाच्च रेतो रेतस एव च ॥ सर्वाः प्रजाः प्रजायन्ते सङ्कल्पो हृदयाभिधः । प्रजाभ्यो जायते तस्माद् विकल्पाख्यं मनस्तथा ॥ विकल्पाद्वाक्प्रचारश्च वाचा नामादिवेदनात् । कर्म सञ्जायते तस्मात् कर्मणश्च जगत्पुनः ॥

जीवः कर्माभिमानी

कर्माभिमान्ययं जीवः परस्य ब्रह्मणो हरेः । आवासस्थानमुद्दिष्टो विशेषात् स इरामयः ॥ इच्छानुरूपं तु सुखमिरेत्येव प्रकीर्तितम् । इच्छानन्दप्रभूतत्वात् स एव च हिरण्मयः ॥

हिरण्मयशब्दार्थकथनम्

हिरुक्सुखं हिरण्यं स्याद् बाह्यानन्दात् पृथग्यतः । आधिक्यार्थे मयड् यस्मादधिकानन्दरूपकः ॥ उत्सृज्य कर्मजं रूपं निजानन्दैकरूपकः । एवं नारायणं जानन् सर्वलोकैककारणम् ॥ तल्लोके दृश्यते भूतैर्मुक्तैरानन्दरूपकः ।। २.१.३।।

भावप्रदीप:

'अथातो रेतसः' इति खण्डं व्याचष्टे - स एष इत्यादिना || अत्र प्रजापतिशब्देन विष्णुरेवोच्यते नान्यः । ' अयमेव महान् प्रजापतिः  इति पूर्वं तस्यैव प्रस्तुतत्वादिति भावेनाह - स एष इति ।। अत्र सर्वत्र रेतःशब्देन पूर्वपूर्वजन्यत्वमुत्तरोत्तरस्योच्यत इति भावनोक्तम्तस्माज्जात इत्यादि ।। अन्नाच्च रेतो जात इत्यनेनअन्नस्य रेतो रेतः' इत्यत्र द्वितीयो रेतःशब्दः शुष्मवाचीति ज्ञापितं भवति । हृदयमनःशब्दयोः पर्यायत्वात्कथं तयोर्जन्यजनक-भाव इत्यतोऽर्थभेदमाहसङ्कल्प इति ॥ मनो द्विविधं सङ्कल्पात्मकं विकल्पात्मकं चेति । यद्यपि द्वयमपि प्रजाभ्यो जातमेव । तथापि प्रथमं सङ्कल्पजनिस्तदनन्तरं विकल्पजनिरिति क्रमज्ञापनायेत्थमुक्ति- रिति भावः | 'मनसो रेतो वागि' त्यस्यार्थः- विकल्पाद्वाक् प्रचारश्चेति ।। वाक् प्रचारो वाक्प्रवृत्तिः । अत्र सङ्कल्पादपीति ग्राह्यम् । सङ्कल्पविकल्पाभ्यामुभाभ्यामपि पृथक् पृथग्वाक्प्रचारदर्शनात् । विधिविषयकमनोवृत्तिरेव हि सङ्कल्पः । निषेधविषयकमनोवृत्तिश्च विकल्पः । एवं वाक्प्रचारस्सर्वोऽपि विधिनिषेधविषयकताभेदेन द्विविध एवेति । 'वाचो रेतः कर्मे' त्येतद् व्याचष्टे - वाचेति ॥ तस्मात् वाक्प्रचारात्कर्म संजायते । तत्कथं ? वाचा नामादिवेदनात् । वाक्प्रचारे सत्येव हि इदमस्य नामेदं चास्य वाच्यमिति व्युत्पत्तिः । ततश्च घटमानय इत्यादिवाक्प्रचारे घटानयनादिकर्मोत्पत्तिरिति 'तदिदं कर्म कृत' मित्यस्य व्याख्या - कर्मणश्व जगत्पुनरिति ॥ कुलालादिकर्मणा हि घटादिकं जगज्जायते । पुनरिति प्रवाहरूपेण । 'अयं पुरुषो ब्रह्मणो लोकः' इत्येतद् व्याचष्टे - कर्माभिमानी ।। तत्रायमित्यनुवादः कर्माभिमानीति व्याख्या । तेन जीवस्या - प्रकृतत्वात्कथमयमिति परामर्श इति शङ्कानवकाशः । अभिमन्य- मानस्य कर्मणः प्राक् प्रकृतत्वात् । ' ब्रह्मणो लोकः' इत्यस्य व्याख्या- परस्येत्यादि । सर्वस्यापि ब्रह्मावासस्थानत्वात्कुतो विशिष्योक्तिरित्यतो विशेषादित्युक्तम् । अचेतनापेक्षयाऽतिशयेने- त्यर्थः ।स इरामयः' इत्येतदनूद्य तत्र स इत्यनन्तरितपुरुष- पदोक्तजीवपरामर्श इति भ्रान्तिनिरासाय व्याचष्टे - स इरामय इति ॥ इशब्दः कामवाची । कामश्चेच्छा । 'रमु क्रीडायाम्' इति धातोः रा रतिः, सुखम् । तथाचेच्छानन्दप्रभूतत्वादिच्छानुरूपानन्दपूर्णत्वाद् यथेष्टानन्दपूर्णत्वादिरामय इत्यर्थः । मयट् प्राचुर्ये । 'यद्धीरामय- स्तस्माद्धिरण्मयः' इत्येतद् व्याचष्टे - स एव चेति ।। इरामय एव । शब्दो यस्मादित्यर्थे । यस्मादिरामयस्तस्मादिरामय एव हिरण्मयः । इरामयत्वादेव हिरण्मय इत्यर्थः । तत्कुत इत्यतो हिरण्मयशब्दं निर्वक्तुं हिरण्यशब्दार्थं तावद्दर्शयति- हिरगिति ।। हिरक्शब्दो हि पृथग्वाची । ण्यशब्दो णशब्दवत्सुखवाची । हिरगित्यत्र ककारलोपो निर्वच- नत्वात् । तथाच विलक्षणं सुखं हिरण्यमित्युच्युत इत्यर्थः । दे विशदयति- बाह्येति ।। वैषयिकेत्यर्थः । अस्त्वेवं ततः किमित्यत आह- आधिक्यार्थ इति । यस्मात्तस्मादत्र मयट् आधिक्यमर्थः । ततश्चाधिकानन्दरूपतः अधिकालौकिकसुखरूपत्वाद्धिरण्मय उच्यत इति पूर्वेणान्वयः । ण्यशब्दे यकारलोप इति भावः । हिरण्मयो हवा अमुष्मिन् लोके सम्भवतीत्येतद् व्याचष्टे - उत्सृज्येति ॥ कर्मजं रूपं प्राकृतदेहम् । प्राकृतदेहस्येच्छागृहीतस्य मुक्तावपि सत्वात् कर्ममिति विशेषणम् । हिरण्मय इत्यस्यार्थो - निजानन्दैकरूपक इति ।। भवतीति शेषः । य एवं वेद' इत्यस्यानुवाद एवं नारायणमित्यादि ।। 'प्रजापते रेतो देवाः' इत्यादिनोक्तार्थस्य सङ्ग्रहणानुवाद:- सर्वलोकैककारणमिति ॥ उपलक्षणमेतत् । हिरण्मयादिरूपं चेत्यपि द्रष्टव्यम् । हिरण्मयभावस्य फले कथनात् । फलस्यांपासनानुसारित्वात् । अमुष्मिन् लोक इत्यस्यार्थः- तल्लोक इति । 'सर्वेभ्यां भूतेभ्यां ददृश' इत्यनुभवबाधितमित्यतस्तद्ध- टयति- दृश्यते भूतैर्मुक्तैरिति । पुनर्हिरण्मय इत्यस्यार्थः- आनन्दरूपक इति ॥

इति तृतीय खण्ड: