आत्मा वा इदमेक एवाग्र आसीत्, नान्यत् किञ्चन मिषत्
अथ द्वितीयारण्यके चतुर्थोऽध्यायः प्रथम: खण्ड:
प्रलये भगवत एकस्यैवावस्थानम्
उपनिषत्
ॐ आत्मा वा इदमेक एवाग्र आसीत्, नान्यत् किञ्चन मिषत् ।
श्रीब्रह्मादीनां प्रलयावस्थाननिषेधः
भाष्यम्
एको नारायणस्त्वासीत् प्रलये रमया सह । नित्याततगुणत्वात् स आत्मेति श्रुतिषूदितः ॥ इदं सर्वमपेक्ष्यासौ कालतो गुणतस्तथा । अग्र्य एव समस्तेभ्यस्तद्वशत्वाद् रमापि सा ॥ विद्यमानाऽपि नाग्रस्था गुणैरूना ततो यतः । न ब्रह्मा न शिवश्चासीन्नैवान्यच्च मिषत् क्वचित्॥ सुप्तास्तत्र यतो जीवाः सर्वे ब्रह्मशिवादिकाः । असुप्ता श्रीश्च मुक्ताश्च स्वतन्त्रोन्मेषवर्जनात् ॥ अनुन्मेषा एव तेऽपि स्वतन्त्रोन्मेष एकराट् । नारायणो न चान्योऽस्ति पूर्णोन्मीलद्गुणात्मकः ॥ पराधीनेन वित्तेन भुञ्जन्नपि हि भिक्षुकः । वित्तवानिति नैवोक्तस्तथा श्रीर्मुक्तिगा अपि ॥ मिषन्तोऽप्यन्यतन्त्रत्वान्न मिषन्तः कथञ्चन । सर्वदाऽप्येक एवायं स्वतन्त्रो नापरः क्वचित्॥ कालाग्र्यत्वं वक्तुमस्य प्रलये स्थितिरुच्यते ।
भावप्रदीप:
पूर्णोन्मीलगुणात्मानं स्वतन्त्रं विश्वभावनम् । नारायणमहं वन्दे मरुद्ब्रह्मादिकामदम् ।। 'आत्मा वा इदमेक एवाग्र आसीत्' इत्येतत्खण्डं व्याचष्टे- एको नारायण इत्यादिना ।। अत्र 'इदमग्रे' इत्यस्यार्थः- प्रलय इति । इदमिति द्वितीया षष्ठयर्थेति भावः । एक एवासीदित्यनेन रमाया अपि प्रलयेऽभावः प्रतीयते । अतो रमया सहेत्युक्तम् । एवकारविरोधस्तु परिहरिष्यते । आत्मशब्दार्थमाह- नित्येति ।। आङ् पूर्वत्तनोतेर्डमन् । गुणानां योग्यतया श्रुत्यन्तरबलाद्वा लाभः । अत्रान्तरोपश्लेषोऽपि द्रष्टव्यः । आसमन्तात्सर्वकालेप्यात्मेति । तेन नित्येत्यस्यापि लाभः ॥
इदमस्याग्र इति व्याख्याने विभक्तिव्यत्ययप्राप्त्या तन्नातीव रुचिर- मिति मन्वानो द्वितीयामेव विभक्तिमङ्गीकृत्य प्रकारान्तरेण व्याचष्टे - इदं सर्वमिति ।। अपेक्ष्येत्यध्याहार्यप्रदर्शनम् । तत्तात्पर्यकथनं- तत इति । अस्मात् सर्वस्मादित्यर्थः । कालतो गुणतश्चाग्र्य एव । अत एव समस्तश इति योजना । एतेनाग्रे आसीदित्यस्य पुरस्सर आसीदित्यर्थ उक्तो भवति । ननु रमया सहैव प्रलये आसीदित्यु- क्तत्वात्कथं रमापेक्षया कालाग्र्यत्वमस्येत्यत आह- तद्वशत्वादिति ।। रमाया इतरेभ्यः श्रेष्ठयज्ञापनार्थं रमापीत्यपिशब्दः । विद्यमानाऽपि प्रलये तद्वशत्वान्नाग्रस्थेत्युच्यते । तद्वशत्वमपि कुतः ? यतो गुणैः ततो नारायणादूना । तथा च स्वातन्त्र्येणाग्रस्थितत्वमिह विवक्षितम् । तत्तु रमाया नास्तीति भावः । एतेनैक एवेत्येवकारविरोधः परिहृतो भवति ।।
'नान्यत्किंचन मिषत्' इत्येतद्व्याचष्टे - न ब्रह्मेति ॥ मित् उन्मेषणं कुर्वत् । ज्ञानादिगुणैः प्रकाशमानमिति यावत् । अथवा तद्वशत्वादित्यारभ्यैव नान्यदित्यस्य व्याख्यानम् । ननु प्रलये ब्रह्मा- दिजीवानां सत्वात्कथं 'नान्यत्किंचन' इति निषेध इत्यत आह- सुप्ता इति ।। तत्र प्रलये । अत्र ब्रह्मपदेन वाय्वादयो ऋजवो ग्राह्याः । ब्रह्मणः परान्ते मुक्तत्वेन प्रलये सुत्युक्त्ययोगात् । ‘मिषदि’ति विशेषणमिति भावः । ननु वाय्वादिनामपि प्रये मनोवृत्तिलोपाभावेन प्रतिभातपरावरतया कथं सुप्तत्वेक्तिरिति चेत् सत्यम् । तथापि छत्रिन्यायेनौपचारकमिदमिति बोध्यम् । ननु एवमपि श्रियो मुक्तानां चासुप्तानां प्रलये सत्वादन्यन्मिषन्नासीदिति कथमुपपद्यत इत्यत आह- असुप्ता इति ।। यद्यप्यसुप्तास्तथापि ते स्वतन्त्रोन्मेषवर्जनादनुन्मेषा एव । तस्मान्नान्यत्किंचनमिषदिति निषेध इति भावः । उक्तमर्थं बुद्ध्यारोहाय सङ्ग्रहेणाह - स्वतन्त्रोन्मेष इति ।। अत्रोन्मेषणं न नेत्रोन्मीलनं विवक्षितम् । किन्तु पुर्णोन्मी - लद्गुणात्मकत्वमेवेत्याह- पूर्णेति ।। ननु पराधीनतयाऽप्युन्मेषणस्य सत्वात्कथमनुन्मेषो रमादीनामुच्यत इत्यत आह- पराधीनेनेति । भुंजन् भुंजानः । ‘चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम् इति वचनाद्भुजेः परस्मैपदता । मुक्तिगाः मुक्ताः । न मिषन्तः मिषन्त इति नोच्यन्त इत्यर्थः । रमादीनां भगवदिच्छयोन्मेषणवत्स्वातंत्र्य- स्थापि कदाचिल्लाभसंभवे स्वतन्त्रोन्मेषणस्यैवापत्या मिषत्वोक्तिर्ना-नुपपनेत्यत आह-- सर्वदेति । नन्वेवं तहींदं सर्वमपेक्ष्य कालतो गुणतश्चाग्रेसर आसीदित्येव व्याख्यानं स्वरसम् । सर्वोत्तमत्वलाभात् । इदमस्याग्रे प्रलये आसीदिति प्रथमव्याख्यानं तु व्यर्थम् । प्रलयेऽ- वस्थानोत्त्या गुणविशेषालाभादित्यताह- कालाग्र्यत्वमिति अथवा सर्वदाप्येक एवायं स्वतंत्रो न परचेद्विशिष्य प्रलय एवैका - वस्थानोक्तिः कुतः इत्यत आह-कालग्र्यत्वमिति । ।