यो ह वा आत्मानं पञ्चविधमुक्थं वेद..

अथ द्वितीयारण्यके तृतीयोऽध्यायः

  अथ प्रथम: खण्ड:   

बृहतीसहस्रेषु पञ्चविधभगवद्रूपोपासनम्

उपनिषत्

ॐ यो ह वा आत्मानं पञ्चविधमुक्थं वे, यस्माद्धीदं सर्वमुत्तिष्ठति, स सम्प्रतिवित् ।

आत्मा-उक्थादिशब्दनिर्वचनपूर्वकं पञ्चविधरूपनिरूपणम्

भाष्यम्

योऽसौ नारायणो देवः परमात्मा सनातनः । नित्याततगुणत्वात् स आत्मेत्युक्तः सदा श्रुतौ ॥ नारायणादिरूपेण पञ्चधाऽवस्थितः सदा । सर्वस्योत्थापकत्वात् स उक्थमित्यभिधीयते ॥ बृहतीसहस्ररूपे च स उक्थे पञ्चधा स्थितः ।

बृहतीसहस्रस्य पाञ्चविध्यकथनम्

पञ्चभेदं हि तच्छत्रं तृचाशीतित्रयं च यत् । पूर्वापरं तृचाशीत्या इति पञ्चात्मकं हि तत् ।।

भावप्रदीप:

अनिरुद्धादिपञ्चात्मा बृहत्युक्थसमीडितः । अर्धनारीनराकारो भासतां मे हरिर्हृदि । 'यो ह वा आत्मानं' इत्येतत्खण्डं व्याचष्टे योऽसावित्यादिना ॥ तत्रात्मानं जीवमित्यन्यथाप्रतीतिनिरासाय व्याचष्टे- योऽसाविति ।। पूर्वाध्यायद्वयोक्तो नारायण एवात्राततगुत्वात्म- शब्देनोक्तो न जीवः । अन्यथा प्रकृतहानाप्रकृतस्वीकारापत्तेरिति भावः । आङ् पूर्वात्तनोलेर्डनिन् । तस्य पञ्चविधत्वं घटयति- नारायणादीति ।। उक्थशब्दं तस्मन्निर्वक्ति- सर्वस्येति ॥ उत्थापकत्वात् जनकत्वात् । एतेन ' यस्मादिदं सर्वमुत्तष्ठति' इत्येतदुक्थशब्दनिर्वचनपरमित्युक्तं भवति । पञ्चविधोक्थस्थितत्वा- चायं तथोच्यत इति भावेनाह - बृहतीति ।। चशब्दो व्याख्या- नान्तरसमुच्चये । उक्थस्यापि कथं पांचविध्यमित्यतो निरूपयति- पञ्चभेदमिति।। शस्त्रं बृहतीसहस्रमुक्थम् । कथं पञ्चभेदं यत् यस्मात् तृचाशीतित्रयं, तृचाशीत्याः तृचाशीतित्रयात् पूर्वात्परं पूर्वमपरं चेति तच्छस्त्रं पञ्चात्मकं तत् तस्मात्पञ्चभेदमित्यर्थः । एतच्च बृहतींसहस्रटीकायां मुक्तामञ्जर्यं अस्माभिः सविस्तरमुक्तं तत्रैव द्रष्टव्यम् ।।

Load More