बृहद्रथन्तरयो रूपेण संहिता सन्धीयत इति तार्क्ष्यः
वाक्प्राणेन संहितेति कौण्ठरव्यः
प्रथमायां द्वितीयायां विष्णुरेव परो मतः
स यदि परेण वोपसृतः स्वेन वाऽर्थेनाभिव्याहरेत्..
स एव दिवि संस्थश्च द्युनामा क्रीडनात् प्रभुः
प्रथश्च सप्रथश्चैव राजानौ मत्स्यदेशजौ
चतूरूपं परं विष्णुं राजानौ प्रथसप्रथौ
यस्य प्रथ इति नाम स च हविर्नाम्नो विष्णोर्हविर्यत् अयत्
चतुः शिखण्डां तु रमां द्विरूपो भगवान् हरिः
बृहद्रथन्तरयो रूपेण संहिता सन्धीयत इति तार्क्ष्यः
अथ तृतीयारण्यके प्रथमोऽध्यायः षष्ट: खण्ड:
संहिताविद्या– तार्क्ष्यमुनेरुपासनम्
उपनिषत्
बृहद्रथन्तरयो रूपेण संहिता सन्धीयत इति तार्क्ष्यः । वाक् वै रथन्तरस्य रूपम् । प्राणो बृहतः । उभाभ्यामु खलु संहिता सन्धीयते, वाचा च प्राणेन च । एतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षयते तार्क्ष्यः । एतस्यां ह स्म मात्रायां संवत्सरं गा रक्षयते तार्क्ष्यः । तदप्येतद्दृषिणोक्तं 'रथन्तरमाजभारा वसिष्ठः ' ' भरद्वाजो बृहदाचक्रे अग्नेः' इति । स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ।
तार्क्ष्यमुनिकृतभगवद्रूपोपासना
भाष्यम्
देवता पूर्ववर्णस्य लक्ष्मीरेव प्रकीर्तिता । नारायणस्तूत्तरस्य तौ वाक्प्राणाभिधौ मतौ ।। मध्यस्थः संहितानामा सोऽर्धनारीपुमात्मकः । वेदात्मकत्वाद् वाङ्नाम्नी लक्ष्मीरेव प्रकीर्तिता ॥प्राणनामा प्रणेतृत्वात् साक्षान्नारायणः स्वयम् ।
रमित्यानन्द उद्दिष्टः सम्भोग्यं थमुदाहृतम् ।। विष्णुभोग्या रतितरा लक्ष्मीरेव रथन्तरम् । नारायणो बृहत्वात्तु बृहन्नामा प्रकीर्तितः ।। रथन्तरस्य बृहतो देवते चैव तावुभौ । वाक्प्राणसंस्थितौ चैव ताभ्यामेव हि सन्धितम् ॥ लक्ष्मीनारायणं रूपं संहितानामकं शुभम् । एतां विद्यामवाप्तुं हि वत्सरं गा अरक्षत ।। तार्क्ष्य एतन्मात्रं च समुद्दिश्य न चापरम् ।
भावप्रदीप:
'बृहद्रथन्तरयो रूपेण' इति खंडं व्याचष्टे - देवतेत्यादिना ॥ एतेन बृहद्रथन्तरशब्दौ नारायणलक्ष्मीपरावित्युक्तं भवति । 'वाग्वै रथन्तरस्य रूपं प्राणो बृहतः' इत्यस्यार्थः - तौ वाक् प्रणाभिधौ मताविति ।। 'संहिता सन्धीयते' इत्यत्र संहिताशब्दस्यार्थो-- मध्यस्थः संहितानामेति । वाक्प्राणशब्दौ कथं लक्ष्मीनारायणवाचकावित्यत आह्— वेदेति ।। रथन्तरबृहच्छदौ लक्ष्मीनारायणयोर्निर्वक्ति- रमितीति ॥ रमेर्डः, ‘संभोग्यं थं अन्नं थं' इति श्रुतेः । तथा च विष्णुभोग्यत्वात्थं । रतिरतत्वाद्रतरं, रशब्दस्य व्यवहितेनापि तरपा सामार्थ्यादन्वयः ।
रतरं च तत् थं च रथन्तरमिति लक्ष्मीरेवोच्यत इत्यर्थः । बृहत्वात् पूर्णत्वात् । एवं रथन्तरबृहच्छब्दयोर्योगं प्रदर्श्य रूढिमपि दर्शयितु- माह-- रथन्तरस्येति ॥ रथन्तरबृहदिति सामविशेषौ । तयोश्च तावुभौ लक्ष्मीनारायणौ देवते अधिष्ठातारौ । तथा च ' मृदब्रवीदित्यादौ मृदादिशब्दानां मृदाद्यधिष्ठातृदेवतासु यथारूढिरेवमत्रापीति भावः । एवं वाक्प्राणशब्दयोरपि रूढिं दर्शयितुमाह- वागिति ।। तावुभा- विति वर्तते । 'उभाभ्यां खलु संहिता सन्धीयते' इत्येतद्व्याचष्टे- ताभ्यामिति ॥ लक्ष्मीनारायणाभ्यां पूर्वोत्तरवर्णस्थाभ्यां संहिता- नामकं लक्ष्मीनारायणमर्धनारीपुमात्मकत्वात् तदाख्यं रूपं सन्धितमिर्थः । ‘एतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षयते तार्क्ष्यः' इत्येतद्व्याचष्टे - एतां विद्यामिति । एतस्यां ह स्म मात्रायां' इत्यस्य व्याख्यानम्– एतन्मात्रं चेति ।