तद्वा इदं बृहतीसहस्रं सम्पन्नम्
वाचमष्टापदीमहं इति अष्टौ हि चतुरक्षराणि भवन्ति
तस्मात् तस्यैव बृहतीसहस्रत्वेन ..
विष्णुरेव बृहत्याः प्राणस्याधिष्ठातृदेवता
यावत्सहस्रं बृहती तावच्छंसेदनुष्टुभाम्
स वा एष बाचः परमो विकारो यदेतन्महदुक्थम्
अकारस्य तथोपांशोरभिमानी तु मारुतः
अकारस्य विकारोऽयमोङ्कार इति कथ्यते
एकार्थत्वादकारोऽसौ नकारत्वमुपागतः
अकारनामा नान्योऽस्ति तमृते पुरुषोत्तमम्
विशेषतोऽस्य व्याख्यानं बृहतीनां सहस्रकम्
परमविकारेण सह विकारमात्रस्यापि प्रस्तुत्वात् तदेतत्पञ्चविधमिति परामर्शः
विशेषतोऽस्य व्याख्यानं बृहतीनां सहस्रकम्
परमविकारेण सह विकारमात्रस्यापि प्रस्तुत्वात् तदेतत्पञ्चविधमिति परामर्शः
अकारार्थत्वान्नकारस्य किञ्चिन्मूलमिव
अकारस्योङ्कारता त्वकारलोपेनैव जातेति सत्यमोङ्कारः ..
तद्वा इदं बृहतीसहस्रं सम्पन्नम्
।। अथ तृतीयाध्याये षष्टम: खण्डः ।।
बृहती गात्रेणापि बृहत्येव
उपनिषत्
तद्वा इदं बृहतीसहस्रं सम्पन्नम् । तस्य वा एतस्य बृहतीसहस्रस्य सम्पन्नस्यैकादशानुष्टुभां शतानि भवन्ति, पञ्चविंशतिश्वानुष्टुभः । आत्तं वै भूयसा कनीयः ।
भाष्यम्
बृहतीसम्पादनेऽनुष्टुप्शंसनमात्रात् पश्चविंशोत्तरशतानुष्टुबाधिक्यं च भवति । अत आधिक्यात् बृहतीसम्पादनमेव वरम् । तस्यात्रैवा- न्तर्भावात् । जगत्यादिकं त्वधिकत्वेऽपि बृहतीवत् माहात्म्या- भावादेवोपेक्ष्यते ।
भावप्रदीप:
'तद्वा इदं बृहतीसहस्रं ' इत्यादिखण्डं व्याकरिष्यंस्तत्र तद्वा इद- मित्यादिपरामर्शप्रयोजनं वक्ष्यमाणरीत्याऽनुसन्धेयमित्याशयेन तस्य वा एतस्य बृहतीसहस्रस्य' इत्यादिद्वितीयवाक्यं व्याचष्टे - बृहती- सम्पादन इति ॥ बृहतीसहस्रसंपादन इत्यर्थः । अनुष्टुप्- शंसनमात्रात् केनलानुष्टुप्सहस्रशंसनात् । एवमनुष्टुबाधिक्यलाभेऽपि किं प्रकृत इत्यत आह- अत इति ।। अस्तु बृहतीसहस्रसंपादने पञ्चविंशोत्तरशतानुष्टुबाधिक्यम् । तथापि कुतो बृहतीसहस्रसंपादनमेव वरमित्यतः प्रवृत्तं ‘अत्तं वै भूयसा कनीयः' इति वाक्यं तात्पर्यतो " व्याचष्टे – तस्येति ।। अनुष्टुप्सहस्रस्य । अत्रैव बृहतीसहस्र एव । नन्वेवं तर्हि बृहत्यपेक्षया जगत्यादीनामाधिक्यात्. जगत्यादिसंपादनमेव कुतो न कर्तव्यमित्यत आह- जगत्यादिकं त्विति ।। आदिपदेन पत्रिष्टुभौ । अधिकत्वेऽपि अक्षरा- धिक्येऽपि । महात्म्याभावस्तु पूर्वखण्ड एवोपपादितः ।।