वाङ्मे मनसि प्रतिष्ठिता

अथ द्वितीयारण्यके सप्तमोऽध्यायः

शास्त्राभ्यासिना कर्तव्या विष्णुप्रार्थना

उपनिषत्

ॐ वाङ्मे मनसि प्रतिष्ठिता । मनो वाचि प्रतिष्ठितम् । आविरावीर्म एधि । वेदस्य म आणीस्थ श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् सन्दधामि । ऋतं वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् ॥ ।।२.७.१।।

।। इति सप्तमोऽध्यायः, इति द्वितीयारण्यकं समाप्तम् ॥

आणीशब्दार्थकथनपूर्वकं प्रार्थनामन्त्रव्याख्यानम्

भाष्यम्

वाङ्मे मनसि प्रतिष्ठिता । अवबोधरूपे विष्णौ प्रतिष्ठिता । स च विष्णुर्मे वाचि स्थितः । यदेतद्धृदयं मनश्चेति विष्णुनामधेयेषूक्तत्वात् । आविराविर्म एधि हे विष्णो ममाविराविर्भव । आणीस्थित आण्यां स्थित विष्णो इति सम्बोधनम् ।आधारः सर्ववेदानां वेदाणी प्राण उच्यते । तस्मिन् स्थितो हरिर्नित्यमाणीस्थ इति गीयते ॥ इति शब्दतत्त्वे ।आविरावीरिति दैर्घ्यमतिशयार्थे । आधिक्येऽधिकमिति सूत्रात् । अणशब्दस्य गतिवाचित्वाच्चलमाणमुच्यते । तस्य धारणेन तद्वानाणी । स्थापक इत्यर्थः । मे श्रुतं मा प्रहासीः मम विद्यागोचर एव सर्वदा भव । विस्मृतो मा भव ।

भावप्रदीप:

वेदाधारमरुत्संस्थं वागाधारमृतं हरिम् । भक्तानुग्राहकं वन्दे नित्यं साधुगुणैस्ततम् ।। 'वाङ् मे मनसी'ति खण्डं व्याचष्टे - वाङ् मे मनसीति ॥ 'मनसी' त्यस्यार्थो - अवबोधरूपे विष्णाविति । मनु अवबोध इति धातोरिति भावः 'मनो मे वाचि प्रतिष्ठितं' इत्यस्यार्थःस चेति । मनःशब्दस्य प्रसिद्धार्थं परित्यज्य विष्णुपरत्वेन कुतो व्याख्यानमित्यतः प्रकृतत्वादित्याह - यदेतदिति ॥ आविरावीर्म एधीत्येतदनूद्य व्याचष्टे - आविरिति । एधीति मध्यमपुरुषबलात् प्रकृतत्वाच्च विष्णो इति संबोधनमध्याहृतम् । 'आविरावीर्म एधि' इत्यस्यार्थोभवेति । अस् भुवीत्यस्य लोटि रूपमेतत् । अस्य एत्वं, हेर्धिः । भवनार्थस्येणो वा रूपमेतत् । आणीस्थशब्दे विग्रहं 'प्रदर्शयति- आणीस्थेति || अध्याहृतस्य विष्णावित्यस्यैवेदं विशेषणमिति भावेनोक्तम् - विष्णवितीति ।।

सामर्थ्याद्वेदस्येति पदं आणीपदेनान्वेतीति भावेन प्रमाणेनैव तदर्थमाह- आधार इति । सर्ववेदानामित्यनेन वेदस्येत्येकवचनं समुदायापेक्षमित्युक्तं भवति । आणीस्थ इति ।। वेदाणीस्थ इत्यर्थः । आवीरिति दैर्घ्यकृत्यमाह- आविरिति ।। आविरावीरित्यत्रावीरिति पदंदैर्घ्यमित्यर्थः । तत्र ज्ञापकमाह- आधिक्य इति ।। आणीशब्द- स्याधारार्थकत्वं कथमित्यत आह- अणशब्दस्येति ॥ अण गताविति धातोर्गतिवाचित्वादणशब्दस्य अणस्येदमिति व्युत्पत्त्या चलनसंबन्धित्वाच्चलमाणमुच्यते । पुनराणस्येयमाणीति व्युत्पत्त्या चलनसंबन्धित्वात्तद्धारकं वस्त्वाणीत्युच्यते । संबन्धश्व धार्यधारक- भाव एवेति भावः । अत्राणशब्दात्तस्येदमित्यर्थे एकोऽणू, पुनराण- शब्दात्तस्मिन्नेवार्थे द्वितीयोऽणू । ततः स्त्रीत्वविवक्षायां 'टिठ्ठाणञ् इत्यादिना ङीप् । शब्दस्वाभाव्यात् स्त्रीलिङ्गता । न च तस्य धारणेन तद्वानाणीति वचनस्वारस्यानुरोधेनायमिन्नन्तः पुल्लिङ्ग एवेति वाच्यम् । आणीस्थ आण्यां स्थित आणीस्थ इति स्त्रीलिङ्गनिर्देशानुपपत्तेः । तद्वानिति पुल्लिङ्गनिर्देशस्तु प्रकृतप्राणशब्दव्यपेक्षया । तद्वानिति मतुबपि नेनिप्रत्ययार्थकथनार्थं किन्तु संबन्धमात्रप्रदर्शनार्थमिति बोध्यम् । एवमाणीशब्दस्य चलधारकत्वमर्थ इत्युक्त्वा पर्यवसितमर्थमाह- स्थापक इत्यर्थ इति ।। चलतो धारकत्वं च स्थापकत्वरूपमेव । तथा च वेदानामपपाठापार्थादिनिरासपूर्वकं यथावस्थितपाठार्थादिव्यवस्थापकत्वात् प्राणो वेदाणीत्युच्यत इति भावः । श्रुतं मे प्रहासीः' इत्येत- दन्वयप्रदर्शनपूर्वकमनूद्य तत्तात्पर्यमाहमे श्रुतमिति ॥ विद्यागोचरः अधीतशास्त्रजनितयथार्थज्ञानविषयः तस्यापि फलितमर्थमाह- विस्मृत इति ॥

Load More