अथ खल्वाहुर्निर्भुजवक्त्राः
अथ तृतीयारण्यके प्रथमोऽध्यायः पञ्चम: खण्ड:
अशक्तत्यादिदोषवदन्तं प्रति प्रत्युक्तिप्रकारकथनम्
उपनिषत्
अथ खल्वाहुर्निर्भुजवक्त्राः । पूर्वमक्षरं पूर्वरूपम् । उत्तरमुत्तररूपम् । योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण सा संहितेति ॥स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ।
ह्रस्वमाण्डुकेयोपासना
अथ वयं ब्रूमो निर्भुजवक्त्रा इति ह स्माह ह्रस्वो माण्डूकेयः । पूर्वमेवाक्षरं पूर्वरूपम् । उत्तरमुत्तररूपम् । योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण येन सन्धिं विवर्तयति येन स्वरास्वरं विजानाति येन मात्रामात्रां विभजते सा संहितेति । स य एवमेतां संहितां वेद सन्धीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति ।
मध्यमकृतोपासना
अथ हास्य पुत्र आह मध्यमः प्रातीबोधीपुत्रः । अक्षरे खल्विमे अविकर्षन्ननेकीकुर्वन् यथावर्णमाह । तद्याऽसौ मात्रा पूर्वरूपोत्तररूपे अन्तरेण सन्धिविज्ञपनी साम तद्भवति । सामैवाहं संहितां मन्य इति ।
निर्भुजवक्त्रपासितसंहितागतभगवद्रूपवर्णनम्
भाष्यम्
पूर्ववर्णस्थितं यत्तद्रूपं पूर्वाक्षराभिधम् । वराहाख्यं हरेरन्यवर्णगं वामनाभिधम् ॥ उत्तराक्षरसंज्ञं च वर्णयोरन्तरस्थितम् । अवनात् काशनाच्चैतदवकाशाभिधं हरेः ।। नृसिंहरूपमित्याहुर्निर्भुजास्यास्तथाऽवदन् । ह्रस्वो येनाक्षरोच्चारो मात्रासन्धिस्वरात्मकः ।। व्यासरूपो हरिः साक्षात् संहितानामस्त्विति । मत्पुत्रो मध्यमः प्राह समोच्चारणकारणः ।। सामनामा वासुदेवः संहितानामवानिति ।। इति च । मापयति त्रायति चेति मात्रा भगवान् । यथोच्चारितवर्णयोर्मध्यस्थितश्च ।
भावप्रदीप:
‘अथ खल्वाहुर्निर्भुजवक्त्राः’ इत्येत्खंडं व्याचष्टे - पूर्ववर्णेत्या- दिना ।। अन्यवर्णगं उत्तरवर्णस्थितम् । वर्णयोः पूर्वोत्तराक्षरयोः अन्तरस्थितं मध्ये स्थितम् । 'योऽवकाशः' इत्यत्रावकाशशब्दं हरौ निर्वक्ति- अवनादिति ।। निर्भुजवक्त्रा इति केषांचिदृषीणां संहिता - वादिनां यौगिकं नामेत्यभिप्रेत्योक्तम्- निर्भुजास्या इति ॥ ' अथ वयं ब्रूमो निर्भुजवक्त्राः' इत्यादेरर्थः- तथाऽवदन्निति । ह्रस्वः ह्रस्वमांडूकेयो नाम ऋषिः । मात्रा ह्रस्वाक्षरम् । सन्धि: पूर्वोत्तर- वर्णयोः । स्वर उदात्तादिः । एतदात्मकाक्षरोच्चारो येन यत्प्रेरणया भवति स व्यासरूपः साक्षाद्धरिः संहितानामक इत्यवददित्यन्वयः । एतेन 'येन सन्धिं विवर्तयती' त्यादिकं विवृतं भवति । 'अथ हास्य पुत्र आह मध्यमः' इत्यस्य व्याख्या - मत्पुत्र" इति । ह्रस्व- मांडूकेयपुत्रः । समोच्चारणकारण इत्यनेन ' अक्षरे खल्विमे अविक- र्षन्ननेकीकुर्वन् यथावर्णमाह' इत्येतद्विवृतं भवति । कारणशब्दः करोते- र्ण्यन्तात् करणे ल्युडन्तः । स च पुल्लिङ्गोऽपि भवति । 'सामनामा वासुदेवः’ इत्यनेन ‘साम तद्भवति सामैवाहं संहितां मन्ये' इत्येत- द्विवृतं भवति । 'तद्यासौ मात्रे' त्यत्र मात्रशब्दं भगवति निर्वक्ति- मापयतीति ।। मापयति ज्ञापयति त्रायति त्रायते पालयति चेति मात्रा भगवानित्यर्थः । ‘पूर्वोत्तररूपे अन्तरेणे' त्यस्यार्थो - यथोच्चारित- वर्णयोर्मध्यस्थितश्चेति । चशब्देन भगवानित्यस्यानुवृत्तिः ।।