अथातो विभूतयोऽस्य पुरुषस्य तस्य वाचा सृष्टौ पृथिवी चाश्चि
।। अथ सप्तम खण्डः ।।
परमपुरुषावयवैः सृष्टि:
उपनिषत्
अथातो विभूतयोऽस्य पुरुषस्य तस्य वाचा सृष्टौ पृथिवी चाश्चि । अस्यामोषधयो जायन्ते । अग्निरेनाः स्वदयतीदमाहरतेदमाहरतेति । एवमेतौ बाचं पितरं परिचरतः पृथिवी चाग्निश्च । यावदनु पृथिवी यावदन्वग्निस्तावानस्य लोको भवति नास्य तावल्लोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्या- श्वाश्च य एवमेतां वाचो विभूतिं वेद ।
भगवतोऽङ्गानां वैभववर्णनम्
भाष्यम्
... तस्य विष्णोरङ्गानामथ वैभवम् । उच्यते तस्य वाचा हि सृष्टावग्निः क्षितिस्तथा ॥ शुश्रूषार्थं तस्य पृथ्वी जनयत्योषधीः प्रभोः । ताः पचत्यग्निरुद्युक्तः आहृता आहृताः पुनः ॥ आहरेति वचोऽस्यापि शृण्वन्त्येव महर्षयः । मुखजत्वात् तयोर्विष्णोर्मुखं जनकमिष्यते ॥ आस्यभोग्यं ततो विष्णोरन्नं तौ कुरुतः सदा । सर्वैर्यद्भुज्यते चान्नं तत्र तत्र स्थितो हरिः ॥ तद्भुङ्क्तेऽतस्तदर्थं हि तावन्नं कुरुतस्सदा । विष्णोर्वाग्विभवं वेद य उपास्ते च सर्वदा ॥ योग्यः संस्तदुपासायाः स भूम्यग्निसमन्वितः । समं तयोर्व्याप्तिमांश्च तद्वन्मुक्तश्च नित्यदा ॥ अनष्टलोको वसति समीपे केशवस्य च ।
भावप्रदीप:
'अथातः' इत्यादिखण्डं व्याचष्टे - तस्येत्यादिना ॥ ' अस्य पुरुषस्ये' त्यस्यार्थः- तस्य विष्णोरिति । विभूतिशब्दार्थो - वैभव (वं ) इति ।। ' तस्य वाचा सृष्टौ पृथिवी चाग्निचेत्यस्य व्याख्या- तस्य बाचेत्यादि । पृथिव्यपेक्षयाऽग्रेरुत्तमत्वाच्छ्रौतक्रमोल्लङ्घनम् । 'अस्या- मोषधयः' इत्यादेर्व्याख्या– शुश्रूषार्थमित्यादि ।। ' पितरं परिच- रतः' : इति पृथिव्यग्निकर्मणोर्विष्णुपरिचरणरूपताया वक्ष्यमाणत्वा- दिति भावः । 'स्वदयती' त्यस्यार्थः- पचतीति ।। ' इदमाहरते- दमाहरत' इति द्विरुक्तेस्तात्पर्यम् - उद्युक्त इति, आहृता आहृता इति च ।। सर्वा इत्यर्थः । नन्वग्गेरोषधिपचनमात्रं प्रत्यक्षसिद्धम् । इदमाहरतेति वचनं तु न श्रूयतेऽतः कथमेतदित्यत आह- आहरेति ।। न केवलं पचनमात्रं जनाः पश्यन्ति किन्तु महर्षयो वचोऽपि शृण्वन्तीत्यन्वयः । नन्वत्र वाचं पितरमिति विष्णुवाचः पृथिव्यग्नि- पितृत्वमुच्यते । न चैतद्युज्यते । अवयवविशेषेण जातत्वेऽपि लोकेऽवयविन एव पितृत्वव्यवहारात् । 'मुखादिन्द्रश्चाग्निश्च इत्यादि श्रुत्यन्तरविरोधाच्च । अस्तु वा वाचः कथञ्चित्पितृत्वम् । तथापि तच्छुश्रूषार्थमोषधिनिर्माणादिकमनुपपन्नमेव । अन्नस्यास्य भोग्यत्वेन तन्निर्माणस्यास्य सेवारूपतया वाग्भोग्यताभावेन तत्सेवा- रूपत्वायोगादित्यत आह- मुखजत्वादिति । अत्र वाक्शब्देन मुखमुपलक्ष्यते । भगवत्यवयवावयविनोरत्यन्ताभेदाद्भगवत इव तन्मुखस्यापि पितृत्वव्यवहार उपपद्यते । अतो मुखभोग्यान्न- निर्माणस्य तच्छ्रुश्रूषारूपताप्युपपद्यत एवेति न काप्यनुपपत्तिरिति भावः । ननु पृथिव्यग्निनिर्मितान्नस्य मानुषादिभिर्भुज्यमानत्वदर्शनात् कथं तस्य विष्णुभोज्यत्वम् । येन तत्सेवारूपमिदं स्यादित्यत आह- सर्वैरिति ।। ' यावदनु पृथिवी 'त्यादि फलवाक्यं व्याचष्टे- विष्णोरिति ।। 'वाचो विभूति' मित्यस्यार्थः- विष्णोर्वाग्विभव- मिति । पृथिव्यग्निपितृत्वादिमाहात्म्यमित्यर्थः । वेदेत्येतदुपासाया अप्युपलक्षणमिति भावेन उपास्ते च इत्युक्तम् । मानुषादीनामपि तत्फलप्राप्तिशङ्कानिरासायाह - योग्यः सन्निति ।। अयोग्योपासन- स्यानर्थफलकत्त्वादिति भावः | 'यावदनु पृथिवी यावदन्वग्निः' इत्यादेस्तात्पर्यमाह-- स इति ।। ' नास्य तावल्लोको जीर्यते यावदेत - योर्न जीर्यते' इत्यत्र यावत्तावत्पदाभ्यां "अमृतो वाव सोमपो भवति यावदिन्द्रो यावन्मनुः' इत्यादाविव गौणमेव जीर्णत्वं तल्लोक- स्योच्यत इति भाति । तत्तु न मुख्यं फलमित्यतो यथावद् व्याचष्टे - तद्वन्मुक्तश्चेत्यादिना ॥ प्रलये सर्वलोकानां नाशात्कथमनष्टलोकत्व- मित्यतस्तद्घटयति- समीपे केशवस्येति । तथा च वैकुण्ठादि-नित्यलोके वासादनष्टलोकत्वमुपपन्नमिति भावः । तथा हि श्रुतिः- 'तस्य लोकः स उ लोक एव इत्यादिका ॥