अथ शाकल्यस्य

अथ तृतीयारण्यके प्रथमोऽध्यायः दवितीय: खण्ड:

 

अधिदैवे शाकल्यमुनेरुपासनम्

उपनिषत्

अथ शाकल्यस्य । पृथिवी पूर्वरूपम् । द्यौरुत्तररूपम् । वृष्टि: सन्धिः । पर्जन्यः सन्धाता । तदुतापि यत्रैतद्बल- वदनुगृह्णन् सन्दधदहोरात्रे वर्षति । द्यावापृथिव्यौ समधातामित्युताप्याहुरिति न्वधिदैवतम् ।

शाकल्योपासितसन्धिगतभगवद्रूपकथनम्

भाष्यम्

वराहो वामन: सिंह इति रूपत्रयं हरेः । पूर्वोत्तरार्णमध्येषु स्थितमुक्तं सनातनम् ।। माण्डूकेयैर्हि शाकल्यो वासुदेवादिरूपिणम् । तेषु चोच्चारके चैव स्थितमाह चतुर्विधम् । भूमिद्युवृष्टिपर्जन्यनाम्नोर्व्यादिषु संस्थितम् ।।

भावप्रदीप:

अथ शाकल्यस्य' इत्यादिखण्डं वासुदेवादिचतुर्मूर्तिपरत्वेन व्याख्यास्यन् पूर्वखण्डोक्तं पूर्वरूपोत्तररूपसंहितानामकं रूपत्रयं (किं नामधेयकं)१७ किमित्याकांक्षां तावत्सिंहावलोकनेन परिहरति-- वराह इति ।। सिंहो नारसिंहः । मांडूकेयैर्ऋषिभिरुक्तमिति संबन्धः ।अथ शाकल्यस्यइत्यादेर्थ :- शाकल्य इति । भूम्यादिनाम्ना य उर्व्यादिषु चतुर्षु स्थितस्तं वासुदेवादिरूपिणं चतुर्विधं हरिं तेषु त्यर्थः । तथा चतस्येदमेव पृथिव्या रूपमिदं दिवः' इत्यनन्तरंबागेव वृष्टेरात्मा पर्जन्यस्ये' त्यपि ग्राह्यमित्युक्तं भवति । 'तत्रायम- न्तरेणाकाशः' इत्यादिकं व्याचष्टे - आकाशस्येति ।। आकाशस्य आकाशदेवताया अन्तराकाशे हृदयाकाशे संस्थितिं अत्रान्तराकाश- स्थिताकाशदेवतायां नृसिंहस्य संस्थितिं चाहेत्यन्वयः । 'तस्मिन् हास्मिन्नाकाशे प्राण आयत्तः' इत्यादिव्याचष्टे – वायोरिति तत्र वाय्वात्मके प्राणे । 'यथाऽमूनि त्रिणि ज्योतींषि' इत्यादेरर्थमाह- सूर्येति ॥ सूर्यस्य दृशि चक्षुषि । विद्युतो देवताया हृदि, हुताशस्य अग्ने रेतसि स्थितिमिति क्रमेणान्वयः । तेषु सूर्यविद्युद्धताशेषु कपिलादीनां क्रमेण स्थितिं वदति शाकल्य इति संबन्धः । ' स य एवमेतां संहितां' इत्यादिफलवाक्यतात्पर्यमाह - विद्येयमिति ॥ प्रागुक्तमांडूकेयविद्यासमुच्चयार्थोऽपिशब्दः ||

Load More